Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 135
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। अत एव दण्डांशे पुरुषांशे च संशय निश्चयात्मकतादृशज्ञानाद् दण्डांशे 'विशेष्ये विशेषणम्' इति रीत्या पुरुषांशे विशिष्टनिरूपितवैशिष्ट्यविषयताशालिज्ञानापत्तिरित्यभ्युपगमे च सविशेषणविशिष्टवैशिष्ट्य बुद्धिस्थले नवत्यंशे निश्चयात्मकमेकं ज्ञान हेतुभूतं कल्पनीयम्, ततः पूर्व चैकैकहासेनाष्टानवतिज्ञानानि पश्चानुपूया हि तु भूतानि कल्पनीयानीति सर्वमिदमनुभवविरुद्धम् । तत्र विशृङ्खलोपस्थिततावद्विशेषणानां विशेष्ये विशेषणम्' इति रीत्या बोधस्वीकारे च तत्तदंशेऽनुभूयमानस्य निश्चयाकारस्य नियामकस्तत्र संशयसामग्र्यभाव एव वाच्यः, तथा च विशिष्टवैशिष्ट्य विषयता 'वहिव्याप्तितदभाववधूमवान् इत्यादित इव 'पर्वतो वशिव्याप्यधूमवान् नवा' इत्यादितोऽपि व्यावृत्तस्तत्तदवच्छिन्ननियामकश्च तत्तत्अत एवेति-दण्डविशिष्टपुरुषविशिष्टभूतलपर्याप्त प्रकाराताकबुद्धौ दण्डांशे निश्चयात्मक दण्डविशिष्टपुरुषवद् भूतलम्' इति निश्चयस्य हेतुत्वादेवेत्यर्थः । इत्यभ्युपगमे च उक्तदिशा परैरिथमभ्युपगमे च ! सविशेषणविशिष्टवैशिष्ट्यबुद्धिस्थले नवत्यंशे' इत्यस्य स्थाने 'शतविशेषणवैशिष्टय बुद्धिस्थले नवनवत्यंशे' इनि पाठः, 'ज्ञानहेतुभूतं' इत्यस्य स्थाने 'ज्ञानं हेतुभूतं' इति पाठः, 'हि तु भूतानि' इत्यस्य स्थाने 'हेतुभूतानि' इति पाठश्च युक्तः । अयमर्थ:-विशेष्यविशेषणभावापञ्नयावद्विशेषणविशिष्टस्य वैशिष्ट्यबुद्धौ यावत्सु विशेषणेषु निश्चयात्मकं विशेषणतावच्छेदकप्रकारकज्ञानं यदि हेतुरभ्युपगम्यते तदा विशेष्यविशेषभावशङ्खलाववद्धशतत्वसङ्घयावच्छिन्न विशेषणवैशिष्टयबुद्धौ नवनवतिसंख्यावच्छिन्ना ये विशेषणविशेषणत्वाद् विशेषणतावरे..कधर्मास्तत्प्रकारकं ज्ञानं नवनवत्यंशे निश्चयात्मकमेकं कारण कल्पनीयम् , तदपि ज्ञानमष्टानवतिसङ्ख्यावच्छिन्नधर्मविशिष्टस्य वैशिष्ट्यावमाहीति तत्राष्टानवतिसङ्ख्यावत्सु विशेषणतावच्छेदकधर्मेषु निश्चयात्मकमटानवतिसंख्यावन्छिन्नविशेषणतावच्छेदकप्रकार कमेकं ज्ञानं कारणं कल्पनीयम् , तदपि ज्ञानं सप्तनवतिसहयावच्छिन्नधर्मविशिष्टस्य वैशिघ्यावगाहीति तत्र सप्तनवतिसङ्घयावत्सु विशेषणतावच्छेदकधर्मेषु निश्चयात्मकं सप्तनवतिसङ्ख्यावच्छिन्नविशेषणतावच्छेदकप्रकारकं ज्ञानं कारणं कल्पनीयमित्येवं पश्चानुपूा हेतुभूतान्यष्टानवतिज्ञानानि विशिष्टवैशिष्टयबोधहेतुभूतानि कल्पनीयानीति परमते सर्वमिदमनुभवविरुद्धमिति । उक्तदिशा विशिष्टवैशिष्टयबुद्धौ विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वे यथा परैषामनुभचविरुद्धानेककारणपरिकल्पनदोषस्तथा तत्रैव विशेषणतावच्छेदकीभूततत्तद्धर्मप्रकारकनिश्चयाभावदशायां 'विशेष्ये विशेषणम् इति रीत्या जायमाने तत्तद्धर्माशे निश्चयात्मके ज्ञाने तत्तद्धाँशनिश्चयत्वप्रयोजकतया तत्तधर्माशसंशयप्रयोजकतत्तत्सामग्र्य. भावकल्पनदोषोऽपीत्याह- तत्रेति- शतविशेषणविशिष्टवैशिष्टचबुद्धिस्थल इत्यर्थः । विशङ्कलोपस्थिततावद्विशेषणानामिति- उत्तरज्ञाने स्वस्वविशेष्यत्वेन भासमानतत्तद्विशेषणविशेषणतया पूर्वज्ञानागोचरीकृतनवनवत्यादिसङ्ख्यावच्छिन्नविशेषणानां विशेष्यविशेषणभावानापन्नत्वलक्षणस्वातन्त्र्येण पूर्वज्ञानविषयीभूतशतसङ्ख्यावच्छिन्नविशेषणानामित्यर्थः । तत्र तत्तदंशे । यथा च धूमांशे वहिव्याप्तिरूपविशेषणस्य संशयात्मकात् परामर्शान्न भवति वह्नयनुमितिस्तथा पर्वताशे वहिव्याप्तिविशिष्टधूमरूपविशेषणस्य संशयात्मकपरामर्शादपि न भवति पर्वते वलयनुमितिः, एवं महानसादिलक्षणविशेष्ये वह्निव्याप्यधूमस्य संशयात्मकपरामदिपि महानसादौ न भवति वड्यनुमितिरिति धूमलिङ्गकबयनुमितित्वावच्छिन्न कार्यतानिरूपितवयव्याप्यधूमविषयकपरामर्शनिष्टकारणतावच्छेदिका विशिष्टवैशिष्टयविषयता यथा वहिव्याप्तिमद्वह्निव्यायभाववद्धमवान् ' इति ज्ञानाद् वयनुमिल्यजनकाद् व्यावृत्ता तथा 'पर्वतो वह्निव्याप्यधूमवान् नवा' इति ज्ञानादपि व्यावृत्ता, एवमालोकादिलिङ्गकपरामर्शादपि वह्नयनुमितिर्भवति, तत्रालोकलिङ्गकवह्नयनुमितित्वावच्छिन्नकार्यतानिरूपितवहिव्याप्यालोकादिविषयक परामर्श निष्टकारणतावच्छेदिकाऽपि विशिष्टवैशिष्ट्यविषयता यथा 'वहिव्याप्तिमद्वह्निव्यायभाववदालोकवान्' इत्यादिज्ञानाद् वड्यनुमित्यजनका व्यावृत्ता तथा पर्वतो वहिव्यायालोकवान नवा' इत्यादिज्ञानादपि पर्वतादिविशेष्यकवहन्यनुमित्यजनकाद् व्यावृत्ता स्वीकरणीयेति तादृशतादृशविषयताविशेषावच्छिन्ननियामकस्तत्तत्संशयसामध्यभायोऽभ्युपेय इति कल्पनागौरवं परेषी दुष्परिहरणीयमित्याह-तथा चेतितत्तदंशेऽनुभूयमाननिश्चयाकारप्रयोजकतया तत्तदंशे संशयसामग्यभावस्याभ्युपगमे चेत्यर्थः। विशिष्टवैशिष्ट्यविषयत्वानां बहुत्वाद् विशिष्टवैशिष्ट्यविषयता इति बहुवचनान्तं बोध्यम् , तदभावेति- वह्निव्यायभावेत्यर्थः । 'इत्यादितः' इत्यादिपदाद् 'वहिव्याप्तितदभाववदालोकवान्' इत्यादग्रहणम् । पर्वतो वह्निव्याप्यधूमवान् नवा' इत्यादितोऽपि इत्यत्रादिपदात् 'पर्वतो वह्निव्याप्यालोकवान् नवा' इत्यादेर्ग्रहणम् । 'व्यावृत्तस्तत्तदवच्छिन्न' इति स्थाने 'व्यावृत्ताः, तत्तदवच्छिन्न' इति पठो युक्तः, 'व्यावृत्ताः' इति च 'विशिष्टवैशिष्ट्यविषयताः' इति पूर्वेण्णन्वितम् । तत्तदवच्छिन्नेतिविशिष्टवैशिष्टयविषयता यावन्तस्तत्प्रत्येकावच्छिन्नेत्यर्थः। तत्तत्संशयसामनयभाव इति- 'विशेष्यं विशेषणमितिरीत्या

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210