Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 152
________________ १२६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। पर्यायेभ्यः पृथगस्ति, यत्- यस्मात् कारणात् , तैः-पर्यायैः, अर्थक्रिया- जलाहरणादिरूपा दृष्टा, नित्यमप्रच्युता-ऽनुत्पन्न-स्थिरैकस्वभावं वस्तु कुत्रोपयुज्यते ? न कुत्रचिदित्यर्थः, अयं भावः- सत्त्वं तावदन्यैर्यत् किञ्चित् परिभाध्यताम् , अस्मन्मते तु भावानां प्रत्यक्षसिद्धमर्थक्रियाकारित्वमेव तत् , तच्च क्रमयोगपद्याभ्यां व्याप्तम् , नहि क्रमा-ऽक्रमाभ्यामन्यः प्रकारः शङ्कितुमपि शक्यते, व्याघातस्योद्भवात् , न क्रम इति निषेधादेवाक्रमस्य, नाक्रम इति निषेधादेव च क्रमस्योपगमात् , अभ्युपगमश्च प्रतिक्षेपं व्याहन्तीति क्रमा-ऽक्रमौ स्थिरेऽसम्भवन्तौ अर्थक्रियामपि ततो व्यावर्तयतः । न च 'क्रमो नानाकालीनकार्यजनकत्वं स्वकार्यप्रागभावसमानकालीनकार्यजनकत्वं वा, अक्रमश्चैकदा यावत्स्वकार्यजनकत्वम् इति, कारितागत्वेन व्यावर्त्य-व्यावर्तकयोरविशेषः, कारिताद्वयव्यावृत्त्या तत्सामान्यव्यावृत्यापादाने तात्पर्यात् , समर्थो हि भावो वर्तमानार्थक्रियाकरणकालेऽतीतानागतेऽर्थक्रिये कुर्यादेव, यत्काले यत्करणसमर्थ तत्काले तदुत्पादकत्वमिति व्याप्तेः, असमर्थत्वे तु पूर्वा-ऽपरकालयोरप्यकरणापत्तिः, समर्थोऽप्य. व्यय-ध्रौव्ययुक्तत्वरूपं त्रिगुणात्मकप्रकृत्यात्मकत्वरूपं प्रतीतिकालसत्व-व्यावहारिकसत्त्व-पारमार्थिकसत्वान्यतमात्मकमित्यादि. स्वस्वसिद्धान्तानुगुणमित्यर्थः। परिभाष्यताम् आधुनिकस्वस्वसङ्केतविषयः क्रियताम् , युक्त्याऽघटमानत्वेन परपरिकल्पितस्वरूपस्य तस्य वस्तुत्वाभावादित्याशयः। अस्मन्मत पर्यायाथिकनयमते। 'प्रत्यक्षसिद्धम्' इत्यनेन प्रमाणसिद्धस्य तस्य सर्वैरप्युपादेयत्वमित्याविष्कृतम् । तत् सत्त्वम्। अर्थक्रियाकारित्वलक्षणं सत्त्वं च नित्यतया पराभिमते द्रव्ये न सम्भवतीति न तत् सदित्युपपादनायाह-तश्चेति- अर्थकियाकारित्वं चेत्यर्थः। क्रमकारित्व-युगपत्कारित्वाभ्यामन्यस्य प्रकारस्य सम्भवे तेन रूपेणार्थक्रियाक रिणि वर्तमानमर्थक्रियाकारित्वं व्यभिचारान्न कम-योगपद्याभ्यां व्याप्तं स्यादतस्तथाभूतप्रकारस्यासम्भवमुपदर्शयति-नहीति-अस्य 'शक्यते' इत्यनेनान्वयः। क्रमा-ऽक्रमाव्यतिरिक्तप्रकाराभ्युपगमे व्याघातमेव भावयतिन क्रम इतीति । 'अक्रमस्य' इत्यस्य 'उपगमाद' इत्यनेन सम्बन्धः । न क्रम इत्येवं निषेधे अक्रमस्याभ्युपगम आयाति, स च नाक्रम इत्येवमक्रमप्रतिक्षेपं विरुणद्धि, तथा नाकम इत्येवं निषेधे क्रमस्याभ्युपगमः प्राप्नोति, स च न क्रम इत्येवं क्रमप्रतिक्षेपं हिनस्तीत्याह- अभ्युपगमश्चेति । यदा च क्रमा-ऽक्रमाभ्यां व्याप्तमर्थक्रियाकारित्वलक्षणं सत्त्वं व्यवस्थितं तदा व्यापकीभूतयोः क्रमकारित्वा-ऽक्रमकारित्व योर्यत्राभावस्तत्रावश्यं तव्याप्यस्यार्थक्रियाकारित्वस्याप्यभावः, व्यापकाभावस्य व्याप्याभावव्याप्यत्वात् , एवं च क्रमा-कमरूपव्यापकस्याभावात् स्थिरे व्याप्यस्यार्थक्रियाकारित्वस्याभाव: सिध्यतीत्याह-क्रमा-ऽक्रमाविति । ततः स्थिरात् । ननु क्रमा-ऽक्रमयोरर्थक्रियाकारित्वरूप एवं पर्यवसानात् तदभावयो. रप्यैक्यान्न क्रमा-क्रमाभावतोऽर्थक्रियाकारित्वाभावसाधनं सम्भवतीत्याशङ्कय प्रतिक्षिपति-न चेति । स्वकार्येति- यत् क्रमेण कार्य करोति तस्य स्वकार्य यद् द्वितीयादि कार्य पूर्वकार्योत्तरकालभावि तत्प्रागभावसमानकालीनं तत्पूर्वकालभाविकार्य तजनकत्वं समस्तीति । निषेधे हेतुमाह-कारिताद्वयव्यावृत्त्येति- क्रमकारित्वाऽक्रमकारित्वोभयव्यावृत्येत्यर्थः, विशेषाभावकूटस्य सामान्याभावव्याप्यत्वेन सामान्याभावसाधकत्वं सर्वानुमतमिति प्रकृतेऽपि क्रमकारित्वाऽक्रमकारित्वे कारित्वसामान्यस्य विशेषरूपे इति क्रमकारित्वाभावा-ऽक्रमकारित्वाभावोभयेन विशेषाभवकूटरूपेण कारित्वाभावस्य सामान्याभावरूपस्यापादने दोषाभावादित्यथः । नित्यस्य द्रव्यस्य तावद् युगपदर्थक्रियाकारिते स्वकार्यत्वेनाभिमतानामशेषाणामपि प्रथमक्षण एव करणे द्वितीयक्षणे करणीयस्य कस्यापि कार्यस्याभावे तत्कारित्वलक्षणसत्त्वस्याभावान्नित्यत्वं न स्यात्, तथैकस्मिन्नपि क्षणे येन स्वभावनै ककार्यकारित्वं तेनैव स्वभावेनान्यकार्यकारित्वे एक कार्यस्य यद् रूपं तत्स्वभावजनितं तदेव रूपमन्यकार्याणामपि तत्स्वभात्रजनितमित्यशेषकार्यस्य कारणैकस्वभावजनिकस्वभावस्यानुषतः, यदि च यावन्ति कार्याणि तावत्कार्यानुगुणानेकस्वभाववत्तमर्थादेकेन स्वभावेनैककार्यजनकत्वं तद्भिनेन स्वभावेनापरकार्यजनकत्वमित्येवमनेकस्वभाववत्त्वम् , तथा सति स्वभावभेदेन कारणभेद आवश्यक इति नैकस्य कारणस्थ युगपदनेककार्यकारित्वमित्येवं स्थिराद् युगपत्कारित्वस्य व्यावृत्तिः, क्रमकारित्वं यथा स्थिराद् व्यावर्तते तथोपदर्शयति- समर्थो हीति- यदा यत् कार्य प्रति यः समर्थस्तदा तत् कार्य स करोत्यवेति वर्तमानक्रियाकरणकाले वर्तमानक्रियां प्रति समर्थो भावो यथा वर्तमानकियां

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210