Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 182
________________ १५६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । उपचारबाहुल्यं विवृणोति-- दह्यते गिरिरध्वासौ, याति स्रवति कुण्डिका । इत्यादिपचारोऽस्मिन्, बाहुल्येनोपलभ्यते ॥ २६ ॥ नयामृत-दह्यत इति । 'असौ गिरिदह्यते' अत्र गिरिपदस्य गिरिस्थतृणादौ लक्षणा, भूयोदग्धत्वप्रतीतिः प्रयोजनम् । 'असावध्वा याति' अनाध्वपदस्याध्वनि गच्छति पुरुषसमुदाये लक्षणा, नैरन्तर्यप्रतीतिः प्रयोजनम् । 'कुण्डिका स्रवति' इत्यत्र कुण्डिकापदस्य कुण्डिकास्थजले लक्षणा, निविडस्वप्रतीतिः प्रयोजनम् । सर्वत्रोद्देश्यप्रतीतिर्लक्ष्यार्थे मुख्यार्थाभेदाध्यवसायात्मकव्यञ्जनामहिम्ना व्युत्पत्तिमहिना वेति विवेचितमन्यत्रेत्यादिरूपचारः- गौणः, अस्मिन्- व्यवहारनये, बाहुल्येन- इतरनया. पेक्षया भूनोपलभ्यते ॥ २६ ॥ विस्तृतार्थ विवृणोति विस्तृतार्थों विशेषस्थ, प्राधान्यादेष लौकिकः। पञ्चवर्णादिभृङ्गादौ, श्यामत्वादिविनिश्चयात् ॥ २७ ॥ नयामृत०-विस्तृतार्थ इति । विशेषस्य प्राधान्यादेष विस्तृतार्थः, तत्प्राधान्यं च व्यक्तिष्वेवो. पयुक्ततया सङ्केताश्रयणादिना बोध्यम् , तथा वस्तुतः पञ्चवर्णावयवारब्धशरीरत्वेन पञ्चवर्णादिमति भृङ्गादौ श्यामत्वादेरेव विनिश्चयादेष लौकिका, यथा हि लोको निश्चयतः पञ्चवर्णेऽपि भ्रमरे कृष्णवर्णत्वमेवाङ्गीकरोति तथाऽयमपीत्यस्य लौकिकसमत्वमिति नयविदः। न च ' कृष्णो भ्रमरः' इत्यत्र rarminurunni..wwmarronment............... ट्विंशतितमं पद्यमवतारयति-उपचारेति । विवृणोति- दह्यत इतीति । अत्र असौ गिरिर्दह्यत इति वाक्ये, घटकत्वं सप्तम्यर्थः, एवमग्रेऽपि । गिरिपदस्य गिरिस्थतृणादौ लक्षणा अनादितात्पर्यमूलकलक्षणालक्षणनिरूढलक्षणा न, किन्तु प्रयोजनवलक्षणास्वरूपाऽऽधुनिक्येवातः प्रयोजनमत्र वक्तव्यमित्यपेक्षायामाह-भूय इति। अत्र असावध्वा यातीति वाक्ये, 'निबिडत्वप्रतीतिः अस्य स्थाने 'अनिविडत्वप्रतीतिः' इति पाठः, यत इयमनिबिडा प्रशिथिलावयवा कुण्डिका अत एतनिहितं जलं बहिनिर्गच्छतीति । ननु लक्षणया वृत्त्या गिरिस्थतृणादीनामेव प्रतीतिरुपजायते, भूयोदग्धत्वादौ च गिरिपदादेन शक्ति वि लक्षणेति तत्प्रतीतिलक्षणं प्रयोजनं केन भवतीत्यपेक्षायामाह-सर्वत्रेति-दह्यते गिरिरित्याद्यपचरितयाक्यमात्रे इत्यर्थः । उद्देश्येति- उद्देश्या यदर्थ लाक्षणिकपदघटितवाक्योचारणं सा, सा चासौ प्रतीतिश्चोद्देश्यप्रतीतिः, प्रयोजनीभूता दग्धत्वादिप्रतीतिः । लक्ष्यार्थे गिरिस्थतृणादिरूपे, मुख्यार्थस्य- गिर्यादेः, अभेदाध्यवसाय:- अभेदारोपः, तदात्मिका या व्यजनावृत्तिस्तन्महिम्ना- तत्सामथ्र्थेन । वा अथवा, व्युत्पत्तिः- शब्दविशेषसमभिव्याहारलक्षणाकाहाज्ञानस्य शाब्दबोधविशेष प्रति कारणत्वज्ञानलक्षणा, तन्महिम्ना- तबलात्, नाक्तेभ्यो वाक्येभ्यः सर्वस्य प्रतिपत्तुरविशेषेण भूयोदग्धत्वप्रतीत्यादिरुपजायते, किन्तु शेमुषीबिशेषशालिन एवं प्रमातुरुक्तवाक्येभ्यो निरुक्तव्युत्पत्तिबलात् तथाप्रतीतिरुपजायते, तथा च व्यञ्जनावृत्त्युपगमे व्यन्जनाख्यवृत्त्यैवोद्देश्यप्रतीतिः, तदनभ्युपगमे चोक्तव्युत्पत्तिबलात् । एतद्विशेषप्रतिपत्तये विशेषजिज्ञासुभिरेतद्रहस्यावेदकं ग्रन्थान्तरमवलोकनीयमित्युपदेशाभिप्रायगाह-इति विवेचितमन्यत्रेति-'विवेचितमन्यत्रेत्यादिपचारः' इत्यस्य स्थाने 'विवेचितमन्यत्र, इत्यादिरुपचारः' इति पाठो बोध्यः, अन्यत् स्पष्टम् ॥ २६ ॥ विवृणोति-विस्तृतार्थ इतीति । एषः व्यवहारनयः, एवमग्रेऽपि, तत्प्राधान्यं च विशेषप्राधान्यं च, अस्य 'बोध्यम्' इत्यनेनान्वयः। लौकिक: लौकिकसमः । व्यवहारन यस्य लौकिक्रसमत्वमेव भावयति-यथा हीति । लोकः निश्चयनयानभिज्ञोऽपरीक्षको जनः, अस्य 'अजीकरोति' इत्यनेनान्वयः । निश्चयतः निश्चयनयेन, यद्यपि निश्चयनयेन भ्रमरः पञ्चवर्णस्तथापि व्यवहारो लौकिको व्यवहारनयमाश्रित्यैव प्रवर्तत इति व्यवहारकनिवद्धचेता लोको भ्रमरे कृष्णवर्णश्वमेव यथा स्वीकरोतीत्यर्थः । तथाऽयमपीति- व्यवहारोऽपि भ्रमरे कृष्णवर्णत्वमेव स्वीकरोतीत्यर्थः। इति एतस्मात्

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210