Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 186
________________ १६० नयामृततरङ्गि तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । . र्थमपि परकीयमतीतमनागतं च, अभिधानमपि तथाविधार्थवाचकम् ज्ञानमपि च तथाविधार्थविषयम्, अचार्य सहेत ? इत्यस्याभिमानः, न चायं वृथाभिमानः स्वदेश-कालयोरेव सत्ताविश्रामात्, यथाकथञ्चित्सम्बन्धस्य सत्ताव्यवहाराङ्गत्वेऽतिप्रसङ्गात् न च देश-कालयोः सत्त्वं विहायान्यदतिरिक्कं सत्त्वमस्ति, ततो योग्यता प्रकृते स्यादसत्ताबोधोऽपि चात्र, तंत्र खरशृङ्गादाविव सत्ताप्रतिक्षेऽपि विकल्पसिद्धेऽपि धर्मिणि निषेधप्रवृत्तेस्तत्र तत्र व्यवस्थापितत्वादिति दिक् ।। २९ ।। अन्यमत्र विशेषमाह - इष्यतेऽनेन नैकत्रावस्थान्तरसमागमः । क्रियानिष्ठाभिदाधारद्रव्याभावाद्यधोच्यते ॥ ३० ॥ नयामृत० - इष्यत इति । अनेन - ऋजुसूत्रनयेन, एकत्र - धर्मिणि, अवस्थान्तरसमागमःभिन्नावस्थावाचक पदार्थान्वयः, नेष्यते - न स्वीक्रियते, कुतः ? क्रिया- साध्यावस्था, निष्ठा च सिद्धावस्था, तयोर्या भिदा- भिन्नकालसम्बन्धः, तदाधारस्यैकद्रव्यस्याभावात्, अत्रार्थेऽभियुक्तसम्मतिमाह-यथोच्यते, अभियुक्तैः ॥ ३० ॥ पलालं न दहत्यग्निर्भिद्यते न घटः कचित् । ना संयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति ॥ ३१ ॥ · भिधानमपि कथमविचार्य सहेतेत्यन्वयः । तथाविधार्थीविषयं परकीयातीतानागनार्थविषयकम् । इत्यस्याभिमानः एवंरूपोऽभिमान ऋजुसूत्रस्य । न चेति- अनन्तरदर्शितर्जुसूत्राभिमानो न च निरर्थक इत्यर्थः । अत्र हेतु :- स्वदेशेतिपरकीयं धनं नान्यपुंसो देशे वर्तते, अतीता-ऽनागते च न व्यवहर्तृवर्तमानकाले वर्तेते, अतस्तेषां सत्त्वाभावाद् व्यवहारानङ्गत्वेन न तदभिधानज्ञानादिसम्भव इत्यभिसन्धिः । परकीयधनाऽतीता ऽनागतादिभिः सममप्यभिधान-ज्ञानादीनां कश्चित् सम्बन्धो भविष्यति तं सम्बन्धं समाश्रित्य तेषामपि व्ययहाराङ्गत्वं भविष्यतीति नासत्त्वं तेषामिति यद्युच्येत तर्हि सर्वस्यापि वस्तुनः परस्परं कश्चित् सम्वन्धः कलनोपरचितः स्यादेवैति शशादीनां शृङ्गादिभिः सममपि सम्वन्धस्य काल्पनिकस्य सम्भवादसतोऽपि सामान्यस्यार्थक्रियया समं सम्बन्धस्य कल्पयितुं शक्यत्वात् तेषामपि व्यवहाराङ्गत्वतः सत्त्वमनुषज्येतेत्याह- यथाकथञ्चित्सम्बन्धस्येति । यदा च परकीयादीनां न खदेश-कालयोः सत्त्वं तदा तदतिरिक्तसत्त्वाभावादसत्त्वमेव तेषामित्याह-न चेति- अस्य ' अस्ति इत्यनेनान्वयः, अन्यत् सत्त्वमस्तीत्येतावताऽपि वक्तव्यार्थपरिनिष्पत्तौ यदतिरिक्तमित्यधिकमुपन्यस्तं तेनेदं ज्ञापितं भवति - यदुत, देश-कालनिरूपितवृत्तित्वलक्षणसत्त्वतो मिनं खरूपसत्त्वं माऽस्तु, महासामान्यसत्त्वलक्षणं सत्त्वं तु भविष्यतीति कैश्चिदुच्येत तदपि नास्तीति 'योग्यता ' इत्यस्य स्थाने ' योग्यतया ' इति पाठो युक्तः, ततः परकीयादीनामसत्त्वात्, योग्यतया असत्वस्य सम्भवेन । प्रकृते परकीयादौ । अत्र ऋजुसूत्रनये । ननु परकीयादीनामेतन्नयेऽभावाद् धर्मिभूतानां तेषामसिद्धौ कथं तत्र सत्त्वप्रतिषेध इत्यत आह- तत्रेति - परकीया ऽतीता - ऽनागतेष्वित्यर्थः । ' सत्ताप्रतिक्षेऽपि ' इत्यस्य स्थाने 'सत्ताप्रतिक्षेपोऽपि ' इति पाठो युक्त:, ' शशशृङ्गे सत्त्वं नास्ति इत्येवं यथा शशशृशे सत्त्वप्रतिक्षेपस्तथा परकीयादौ सत्त्वं नास्ति इत्येवं परकीया - दावपि सत्त्वप्रतिक्षेपः सम्भवतीत्यर्थः । घर्मिणः प्रमाणाद् विकल्पात् प्रमाण-विकल्पाभ्यां च सिद्धिरभिमता, तत्र शशशृङ्गे विकल्पसिद्धे धर्मिणि यथा सत्त्वनिषेधप्रवृत्तिस्तथा परकीयादावपि विकल्पसिद्धे धर्मिणि सत्त्वनिषेध प्रवृत्तस्तत्र सत्ताप्रतिक्षेपो युक्ताभ्युपगम इत्याह- विकल्पसिद्धेऽपीति । 'तत्र तत्र' इति वीप्सया नैकस्मिन् ग्रन्थे एकेनैव ग्रन्थकर्त्रा विकल्पसिद्धे धर्मिणि निषेधप्रवृत्तिरुपवर्णिता येन काचित्कत्वान्न सर्वैरादरणीयत्वं किन्तु केनचिदेव तत्पक्षपातिना तस्य तत्त्वं स्यात्, अपि तु बहुभिः सूरिप्रवरैः श्रीदेवसूरिप्रमुखै रत्नाकरादिग्रन्थेऽस्यार्थस्य व्यवस्थापितत्वात् सर्वैरेवादरणीयत्वमित्यर्थः ॥ २९ ॥ त्रिंशत्तमपद्यमवतारयति - अन्यमिति । अत्र ऋजुसूत्रे । विवृणोति- इष्यते इतीति । तयोः साध्वावस्था सिद्धावस्था. }

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210