Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१५८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः ।
....mamminen.
पातात् तस्याप्यात्मगौरवत्वादिबोधकलोकप्रमाणबाधितार्थबोधकत्वात् , अभ्रान्तलोकाबाधितार्थबोधकत्वं चोभयत्र तुल्यम् । प्रत्यक्षनियतैव व्यवहारिविषयता न वागमादिनियतेति तु व्यवहारदुर्नयस्य चार्वाकमतप्रवर्तकस्य मतम् , न तु व्यवहारनयस्य जैनदर्शनस्पर्शिन इति शङ्कायामाह
पञ्चवर्णाभिलापेऽपि श्रुतव्युत्पत्तिशालिनाम् ।
न तद्बोधे विषयता परांशे व्यावहारिकी ॥ २८॥ नयामृत-पञ्चेति । 'पञ्चवर्णो भ्रमरः' इति शब्दाभिलापेऽपि, श्रुतव्युत्पत्तिशालिनां-तत्तनयाभिप्रायप्रयुक्तः शब्दस्तत्र नयीयविषयतयैव शाब्दबोधजनक इति सिद्धान्तसिद्धकार्यकारणभावग्रहवताम् , तद्वोधे- उक्ताभिलापजन्यशाब्दबोधे, परांशे-कृष्णेतरतरवाशे, व्यावहारिकी विषयता नास्ति, तथा च पश्चवर्णो भ्रमरः' इति शाब्दबोधे कृष्णांशे व्यावहारिक्या सम्बलिता, इतरांशे च शुद्धा नैश्चयिकी विषयता, अदृष्टार्थे सर्वत्र सम्बलनसम्भवेऽपि लोकप्रसिद्धार्थानुवादस्थले कचिदेव सम्बलनालोकबाधितार्थबोधकस्य 'पञ्चवर्णो भ्रमरः' इति वाक्यस्य न लोकव्यवहारानुकूलत्वमित्यत आह-लोकवाधितेति । तस्यापि 'आत्मा न रूपवान् ' इत्यादिवाक्यस्यापि । नन्वभ्रान्तलोकप्रमाणबाधितार्थबोधकवाक्यस्यैवाव्यवहारकत्वम्, आत्मगौरवादिबोधकलोकप्रमाणं च भ्रान्तमेवेत्यभ्रान्तलोकप्रमाणबाधितार्थकत्वाभावाद् 'आत्मा न रूपवान्' इत्यादिवाक्यस्य नाव्यवहारकत्वप्रसङ्ग इत्यत आह-अभ्रान्तेति । उभयत्र 'आत्मा न रूपवान् ' इति वाक्ये 'पञ्चवर्णो भ्रमरः' इति वाक्ये च । तुल्यं समानम् , यथा आत्मगौरवादिबोधकलोकप्रमाणस्य भ्रान्तत्वेनाधान्तलोकाबाधितार्थबोधकत्वम् ' आत्मा न रूपवान् ' इत्यादिवाक्यस्य तथा भ्रमरे कृष्णत्वबोधकलोकप्रमाणस्य भ्रान्तत्वेनाभ्रान्तलोकाबाधितार्थबोधकत्वं पञ्चवर्णी भ्रमरः' इति वाक्यस्यापीत्यर्थः। ननु यत्रैव प्रत्यक्षविषयत्वं तत्रैव व्यवहारविषयत्वमिति व्यवहार विषयता प्रत्यक्षविषयताव्याप्यैव, तथा च व्यापकस्य प्रत्यक्षविषयत्वस्य भ्रमरगतपञ्चवर्णेऽभावाद् व्याप्यस्य व्यवहारविषयत्वस्यापि तत्राभाव इति 'पञ्चवर्णो भ्रमरः' इति वाक्यं न व्यवहारनयानुरोधीत्यत आह-प्रत्यक्षनियतैवेति-- अत्र प्रत्यक्षस्य विषयतासम्बन्धेन व्यापकत्वं बोध्यम्। व्यवहारिविषयता व्यवहारिणो लोकप्रमाणस्य विषयता, अथवा 'व्यवहारीयविषयता' इत्येव पाठः। व्यवहारदर्नयस्तेति चार्वाकमतप्रवर्तको व्यवहारदर्नयो हि प्रत्यक्षमेवैकं प्रमाणमिति स्वीकरोति, तन्मते यन्न प्रत्यक्षविषयस्तनास्त्येवेति भवति प्रत्यक्षाविषयस्य व्यवहाराविषयत्वं तन्मते, जैनदर्शनस्थितव्यवहारनयस्वायमादिपरोक्ष. प्रमाणमप्युररीकरोति, तन्मते प्रत्यक्षाविषयोऽपि व्यवहतुं शक्यत एवेति पञ्चवर्णस्य भ्रमरगतस्य प्रत्यक्षाविषयस्याप्यागम. प्रमाणविषयत्वेन व्यवहारविषयत्वं स्यादेवेत्यवतरणिकार्थः ।
विवृणोति-पञ्चेतीति । 'पञ्चवर्णामिलापेऽपि' इति मूलमधृत्वैव यत् 'पञ्चवर्णो भ्रमरः' इति 'शब्दामिलापेऽपि' इति विवरणं तद् विवरणे मूलाक्षरसन्निवेशोऽस्त्येवेति तत एव मूलज्ञानं सुकरमित्यभिप्रायेण, अग्रे च न पृथङ्मूलधारणमन्तरेण तद्विवरणे तद्विवरणत्वावगतिरित्यभिप्रायेण मूलमुपन्यस्य तद्विवरणमिति बोध्यम् । 'श्रुतब्युत्पत्तिशालिनाम्' इति मूलस्य विवरणम्- 'तत्तन्नय०' इत्यारभ्य 'ग्रहवताम्' इत्यन्तम् , 'स्तत्र नयीयविषयतैव' इत्यस्य स्थाने 'स्ततन्नयीयविषयतैव' इति पाठो युक्तः, यः शब्दो यन्नयाभिप्रायेण प्रयुक्तः स शब्दस्तन्नयाभिप्रेतववाच्यतासम्बन्धेन तन्नयीयविषयतासम्बन्धेन शाब्दबोधं प्रति जनक इत्याकारको यः सिद्धान्तसिद्धकार्यकारणभावप्रहस्तदतां प्रतिपत्तणामित्यर्थः । उक्ताभिलापेति-'पञ्चवर्णो भ्रमरः' इत्यभिलापत्यर्थः । तथा च निरुक्तश्रुतव्युत्पत्ति. शालिनां 'पञ्चवों भ्रमरः' इति वाक्यजन्यशाब्दबोधे कृष्णेतरवणोशे व्यावहारिक्या विषयताया अभावे च। व्यावहारिक्या संवलिता व्यावहारिक्या विषयतया सहिता, 'नैश्चयिको विषयता' इत्यनेनास्य सम्बन्धः । इतरांशे च कृष्णेतरवर्णाशे पुनः । 'आत्मा न रूपवान् ' इति वाक्यजन्य बोधे आत्मगतरूपाभावलक्षणाप्रत्यक्षविषयार्थे नैश्चयिकी विषयता व्यावहारिकविषयतासंवलिताऽपि । “पञ्चवर्णो भ्रमरः' इति वाक्यस्य कृष्णवर्णरूपलोकप्रसिद्धार्थेऽनुवादरूपत्वेन तदंश एव तजन्यबोधीया निश्चयीयविषयता व्यावहारिकविषयतासंचलिता न तु कृष्णेतरवर्णाशे इत्यभ्युपगमे न कोऽपि दोष इत्याहमष्टार्थ इति-अदृष्टार्थ व्यवहारा न प्रत्यक्षप्रमाणत: किन्तु परोक्षप्रमाणत इति सवंत्रादृष्टऽथ परीक्ष

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210