Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 180
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपदेशः । नैगम व्यवहारयोरपेक्षया यथाऽस्य शुद्धत्वं तथाह उपचारा विशेषाश्च, नैगम-व्यवहारयोः। इष्टा ह्यनेन नेष्यन्ते, शुद्धार्थपक्षपातिना ॥ २४ ॥ नयामृत०-उपचारा इति । उपचारा- गौणव्यवहाराः, विशेषाश्च- तत्तघ्यावृत्तिरूपाः, नैगमव्यवहारयोः, इष्टाः, शुद्धार्थपक्षपातिना- एतदुभ यापेक्षया खविषयोत्कर्षाभिमानिना, हि- निश्चितम् , अनेन- सङ्ग्रहनयेन, नेष्यन्ते, तथा च नैगम-व्यवहारसम्मतोपचार-विशेषानवलम्बित्वादस्य शुद्धत्वं स्वसमवायोचितोपचारविशेषयोः कचिदवलम्बनेनापि नापोद्यत इति भावः ॥ २४ ॥ व्यवहारं लक्षयति. उपचारेण बहुलो विस्तृतार्थश्च लौकिकः।। यो बोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः॥ २५ ॥ नयामृत०-उपचारेणेति । उपचारेण-गोण्या वृत्त्या, बहुलो- बाहुल्येन व्यवहारकारी, विस्तृतार्थ:- नानाव्यक्तिकशब्दसङ्केतग्रहणप्रवणः, लौकिक:-शब्द तदुपजीविप्रमाणातिरिक्तप्रमाणपक्षपाती, यो बोधः सोऽयं व्यवहाराख्यो नयः, बुधैर्लक्षितः, उपचारबहुलाधध्यवसायवृतिनयत्वव्याप्यजातिमत्त्वं लक्षणं तेन नाननुगम इत्यर्थः । " लौकिकसम उपचारप्रायो विस्तृताऽर्थो व्यवहारः" [ तत्त्वार्थसूत्र. अ० १, सूत्र-३५ ] इति तत्त्वार्थभाष्यमनुरुध्य इत्थं लक्षितम् , " वच्चइ विणिच्छिअत्थं व्यवहारो त्रयोविंशतितमं पद्यमवतारयति-सङ्ग्राह्यार्थेति-संग्रहगृहीतार्थेत्यर्थः । विघृणोति- एकेतीति । मूलोक्तान् जीव. गोचराने कादिभेदान् स्पष्टयति-चेतनत्वेनेति । जीवगोचराः के ? इत्यपेक्षायामाह- सङ्ग्रहप्रकारा इति । कुत्रोदीरिता इत्याकाङ्क्षानिवृत्तये त्वाह-सिद्धान्त इति । अन्यत् स्पष्टम् ॥ २३ ॥ चतुर्विशतितमं पद्यमवतारयति-नेगमेति । अस्य सङ्ग्रहनयस्य । विवृणोति-उपचारा इतीति । एतदुभयापेक्षया नैगम-व्यवहारोभयापेक्षया । भावार्थमुपदर्शयति-तथा चेति-नैगम-व्यवहारोभयापेक्षया स्वविषयोत्कर्षाभिमानिनः सङ्ग्रहस्य नैगमन्यवहाराभीष्टोपचारविशेषानभ्युपगन्तृत्वे च सति । अस्य सङ्ग्रहन यस्य । 'शुद्धत्वम्' इत्यस्य 'नापोद्यते' इलनेनान्वयः, 'स्वसमवायोचित०' इति स्थाने 'स्वसमयोचित०' इति पाठः, स्वस्य- सङ्कहनयस्य, यः समय:-तद्विषयावबोधको राद्धान्तः, तदुचितौ- तदनुगुगौ यावुपचारविशेषो तयोः । क्वचित् स्वविषये कस्मिंश्चित् । अवलम्बनेनापि स्वीकरणेनापि । नापोद्यते न निषिद्धयते, यदि सामान्यत उपचार-विशेषयोरनभ्युपगम्तृत्वमेव सग्रहस्य शुद्धत्वमभिमतं स्यात् तदा स्वसमयोचितोपचारविशेषाभ्युपगमेनापि उक्तलक्षणं शुद्धत्वमस्यापोदितमेव स्यात् , न चैवम्, किन्तु नैगम-व्यवहाराभ्युपगतोपचारविशेषानभ्युपगन्तृत्वमेवास्य शुद्धत्वम्, तच्च स्वसमयोचितोपचारविशेषाभ्युप. गन्तृत्वेऽपि निराकुलमवतिष्ठत एवेत्यर्थः ॥ २४ ॥ व्यवहारलक्षकं पञ्चविंशतितमं पद्यमवतारयति- व्यवहारमिति । विवृणोति--उपचारेणेतीति । नानेति-भानाव्यक्तिषु यः शब्दस्य सङ्केतस्तस्य ग्रहणे समर्थ इत्यर्थः। शब्देति-शब्दात्मकं यत् प्रमाणे शब्दोपजीवि च यदनुमानादिक प्रमाणं ताभ्यामतिरिक्तं यत् प्रत्यक्षादि प्रमाण तत्पक्षे पतितुं शीलं यस्य तादृशः, प्रत्यक्षाद्यापामरसाधारणमान्य प्रमाणगृहीताभ्युपगमप्रवण इति यावत् । एवं च सति व्यवहारस्य किं लक्षणं सिद्धं भवतीत्यपेक्षायामाह-- उपचारेति-- उपचारबहुलायध्यवसायवृत्तित्वस्य जातिविशेषणतयोपन्यासान्नैगमस्वादिजातिव्युदासः, नयत्वव्याप्यत्वविशेषणोपादानानयत्व-ज्ञानत्वादिजातिव्युदासः । तेन जातिघटितलक्षणकरणेन । एतच लक्षणं तत्त्वार्थभाष्यानुसारीत्यावेदयति- लौकिकसमेति । नियुक्तिप्रन्थानुसारिव्यवहारलक्षणमाचेदयितुमाह-वच्चइ० इति- "व्रजति बिनिश्चितार्थ व्यवहारः सर्वद्रव्येषु" इति संस्कृ.

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210