Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 178
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वं सङ्गहनयत्वमिति लक्षणं बोध्यम् , “ संगहिय-पिण्डिअत्थं संगहवयणं समासओ विति" [विशेषावश्यकनियुक्तिगाथा-- २१८३ ] त्ति सूत्रस्वारस्याश्चेत्थमुक्तिः । यद्वा ( नैगमायुपगतार्थसङ्ग्रहप्रवणोऽध्यवसायविशेषः सङ्ग्रहः, सामान्यनैगमवारणाय ) नैगमायुपगतार्थपदं, सङ्घहश्च विशेषविनिर्मोकोऽशुद्धविषयविनिर्मोकश्चेत्यादिर्यथासम्भवमुपादेयस्तेन न प्रस्थकस्थले सामाभ्यविधेरसङ्ग्रहात तत्स्थलप्रदर्शितसङ्ग्रहनयेऽव्याप्तिरित्यादिकं बोध्यम् । “ अर्थानां सवैकदेशसङ्घहणं सङ्घहः” [ तत्त्वार्थसूत्र० अ० १, सूत्र ३५] इति तत्वार्थभाष्यम् , अत्र सर्व- सामान्यम्, एकदेशश्च- विशेषस्तयोः सङ्ग्रहणम् , सामान्यैकदेशस्वीकार इत्यर्थः, अयं हि घटादीनां भवनानन्तरत्वाद् चाननुगतमिति- केवलमहासामान्यग्राहित्वं यदि सङ्घहत्वं तदा तस्यापरसामान्य प्राहिण्यपरसङ्गृहेऽवृत्तित्वादव्याप्तिलक्षणदोषः, एवं केवलापरसामान्यग्राहित्वं यदि सङ्कहत्वं तदा तस्य महासामान्यपाहिणि परसङ्ग्रहेऽवृत्तित्वादव्याप्तिरित्यर्थः। परत्वमपरत्वं च सामान्यविशेषणतया लक्षणकोटौ न निवेश्यते, किन्तु सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वं सइग्रहनयत्वम् , तथा च नासम्भवो लक्ष्यमात्रे तस्य सत्वादत एवं नाव्याप्तिरपीत्याह- तथापीति-'सामान्याभ्युपगमः' इत्यायुक्ती सामान्य विशेषोभयाभ्युपगमप्रवणे नैगमे सामान्याभ्युपगमप्रवणत्वस्य भावनातिव्याप्तिः स्यादतः 'सामान्यमात्राभ्युपगम०' इत्याद्युक्तम् , सामान्याभ्युपगमप्रवणत्वस्य प्रमाणेऽपि सत्त्वात् तत्रातिव्याप्तिवारणाय 'एकदेशबोधत्वम्' इति यद्यपि मात्रपदनिवेशे सति न सम्भवति प्रमाणस्य सामान्यमात्राभ्युपगमप्रवण त्वस्यैवाभावेनातिव्याप्तेरेवाभावात् , तथापि खरूपमात्रोपदर्शकमुपरजकमेवेदम् , यदि च दुनयविषयकान्तमहासामान्य कल्पितमेव न वस्त्वंशः, तदाहिनयो नैतल्लक्षणलक्ष्यम् , तदाऽत्रातिव्याप्तिवारणाय 'एकदेशबोधत्यम्' इत्युक्तम् , तस्य दुर्नयस्य सामान्यमात्राभ्युपगमप्रवणत्वेऽपि तद्विषयस्यैकान्तमहासामान्यस्य कल्पितकरूपस्य वस्त्वेकदेशत्वाभावेन तद्विषय बोधरूपस्य नयस्यैकदेशबोधत्वाभावादिति बोध्यम् । ननु यदि सामान्यमात्राभ्युपगम प्रवर्णकदेशबोधत्वमेव सङ्ग्रहस्य लक्षणं ता पद्येन तथैव लश्यलक्षणाभिधानमुचितम्, यथाश्रुतं तु पद्याभिहितमुक्तदिशाऽसम्भवा-ऽव्याह्यन्यतरदोषकवलितमतः कथं तथोक्तिरित्यत आह- संगहिया इति-" सजाहीत-पिण्डा सग्रहवचनं समासतो प्रवन्ति" इति संस्कृतम् । इति एवंस्वरूपं यत् सूत्र तत्स्वारस्याच तदभिप्रायात् पुनः। इत्थमुक्तिः- “सङ्ग्रहः सङ्गीतस्य पिण्डितस्य च निश्चयः' इत्येवं लक्षणवचनम् , दर्शितपर्यालोचनया तात्पर्य सूक्तसूत्रस्यापि 'सामान्यमानाभ्युपगमप्रवण.' इत्यादिलक्षण एवेति बोध्यम् । 'यद्वा' इत्यादिप्रन्ध. घटकं प्रक्षिप्तं वा सर्वथाऽप्युपादेयम्, महासामान्यावगाहिनैगमोऽपि महासामान्यरूपेणाशेषविशेषसङ्ग्रहप्रवण इति तत्रातिव्याप्तिवारणाय 'नैगमाद्यपगतार्थ' इति सङ्ग्रहस्य विशेषणम् , तथा च नेगमायुपगता ये अर्था महासामान्या ऽवान्तरसामान्य-विशेषाद्यास्तेषां सर्वेषां सत्वलक्षणमहासामान्येन सङ्ग्रहप्रवणो विशेषविनिमोकादिलक्षणग्रहप्रवणो न नैगमः किन्तु सङ्ग्रह एवेति न नैगमेऽतिव्याप्तिरित्याह--सामान्यति, 'नेगमाद्यपगतार्थसङ्ग्रहप्रवण' इत्यत्र विशेषविनिर्मोकलक्षण सङ्ग्रहो यद्यभिमतस्तदा प्रस्थकस्थले आखादितप्रस्थकपर्यायमाकुट्टितनामानं मेयारूढमभ्युपगच्छतः समहविशेषस्य सङ्ग्रहो न भवेत् , तस्य महासामान्याभ्युपगन्तृत्वाभावेन सामान्यमविदधतो विशेषविनिर्मोकलक्षणसङ्ग्रहप्रवणत्वाभावेन तत्रोक्तलक्षणाव्याप्तेः। यदि चाशुद्धविषयविनिर्माकलक्षणः सङ्ग्रहोऽभिमतस्तदा यः सङ्ग्रहः सामान्यविधायकत्वेन विशेषविनिर्मोकप्रवण एव न तु अशुद्धविषयविनिर्मोकप्रवणस्तत्राव्याप्तिः स्यादित्यत आह- सहश्चेति- अस्य 'उपादेयः' इत्यनेमान्वयः । 'सेन न' इत्यस्य ‘अव्याप्तिः' इत्यनेनान्वयः । सामान्यविधेरसङ्ग्रहात् सामान्यविधानतो विशेषविनिर्मोकलक्षणसट्ग्रहाभावात् । तत्स्थलेति- प्रस्थकस्थलेत्यर्थः । तत्त्वार्थभाष्योक्तं सङ्ग्रहलक्षणमुपदर्शयति- अर्थानामिति । सामान्य-विशेषोभयात्मकानां सामान्य-विशेषयोः स्वरूपसनिविष्टयोयः सामान्यात्मक एकदेशोऽशस्तस्य स्वीकार सङ्ग्रह इत्यर्थ निरुक्तभाष्यवचनपर्यवसितार्थमुपदर्शयति- अत्रेति । तयोः सामान्य विशेषयोः। सग्रहणं नामकरूपेण ग्रहणम्, तत् प्रकृते सामान्यरूपेण सामान्यस्य विशेषस्य च ग्रहणम्, ग्रहणमप्यत्र स्वीकारस्वरूपमित्यभिसन्धानेनाइ- सामान्यैकदेशस्वीकार इति- सामान्यरूपी य एकदेशस्तदात्मना सामान्य-विशेषयोःखीकारो न तु विशेषस्य विशेषात्मनाऽपि खोकार इत्यर्थः ।

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210