________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वं सङ्गहनयत्वमिति लक्षणं बोध्यम् , “ संगहिय-पिण्डिअत्थं संगहवयणं समासओ विति" [विशेषावश्यकनियुक्तिगाथा-- २१८३ ] त्ति सूत्रस्वारस्याश्चेत्थमुक्तिः । यद्वा ( नैगमायुपगतार्थसङ्ग्रहप्रवणोऽध्यवसायविशेषः सङ्ग्रहः, सामान्यनैगमवारणाय ) नैगमायुपगतार्थपदं, सङ्घहश्च विशेषविनिर्मोकोऽशुद्धविषयविनिर्मोकश्चेत्यादिर्यथासम्भवमुपादेयस्तेन न प्रस्थकस्थले सामाभ्यविधेरसङ्ग्रहात तत्स्थलप्रदर्शितसङ्ग्रहनयेऽव्याप्तिरित्यादिकं बोध्यम् । “ अर्थानां सवैकदेशसङ्घहणं सङ्घहः” [ तत्त्वार्थसूत्र० अ० १, सूत्र ३५] इति तत्वार्थभाष्यम् , अत्र सर्व- सामान्यम्, एकदेशश्च- विशेषस्तयोः सङ्ग्रहणम् , सामान्यैकदेशस्वीकार इत्यर्थः, अयं हि घटादीनां भवनानन्तरत्वाद् चाननुगतमिति- केवलमहासामान्यग्राहित्वं यदि सङ्घहत्वं तदा तस्यापरसामान्य प्राहिण्यपरसङ्गृहेऽवृत्तित्वादव्याप्तिलक्षणदोषः, एवं केवलापरसामान्यग्राहित्वं यदि सङ्कहत्वं तदा तस्य महासामान्यपाहिणि परसङ्ग्रहेऽवृत्तित्वादव्याप्तिरित्यर्थः। परत्वमपरत्वं च सामान्यविशेषणतया लक्षणकोटौ न निवेश्यते, किन्तु सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वं सइग्रहनयत्वम् , तथा च नासम्भवो लक्ष्यमात्रे तस्य सत्वादत एवं नाव्याप्तिरपीत्याह- तथापीति-'सामान्याभ्युपगमः' इत्यायुक्ती सामान्य विशेषोभयाभ्युपगमप्रवणे नैगमे सामान्याभ्युपगमप्रवणत्वस्य भावनातिव्याप्तिः स्यादतः 'सामान्यमात्राभ्युपगम०' इत्याद्युक्तम् , सामान्याभ्युपगमप्रवणत्वस्य प्रमाणेऽपि सत्त्वात् तत्रातिव्याप्तिवारणाय 'एकदेशबोधत्वम्' इति यद्यपि मात्रपदनिवेशे सति न सम्भवति प्रमाणस्य सामान्यमात्राभ्युपगमप्रवण त्वस्यैवाभावेनातिव्याप्तेरेवाभावात् , तथापि खरूपमात्रोपदर्शकमुपरजकमेवेदम् , यदि च दुनयविषयकान्तमहासामान्य कल्पितमेव न वस्त्वंशः, तदाहिनयो नैतल्लक्षणलक्ष्यम् , तदाऽत्रातिव्याप्तिवारणाय 'एकदेशबोधत्यम्' इत्युक्तम् , तस्य दुर्नयस्य सामान्यमात्राभ्युपगमप्रवणत्वेऽपि तद्विषयस्यैकान्तमहासामान्यस्य कल्पितकरूपस्य वस्त्वेकदेशत्वाभावेन तद्विषय बोधरूपस्य नयस्यैकदेशबोधत्वाभावादिति बोध्यम् । ननु यदि सामान्यमात्राभ्युपगम प्रवर्णकदेशबोधत्वमेव सङ्ग्रहस्य लक्षणं ता पद्येन तथैव लश्यलक्षणाभिधानमुचितम्, यथाश्रुतं तु पद्याभिहितमुक्तदिशाऽसम्भवा-ऽव्याह्यन्यतरदोषकवलितमतः कथं तथोक्तिरित्यत आह- संगहिया इति-" सजाहीत-पिण्डा सग्रहवचनं समासतो प्रवन्ति" इति संस्कृतम् । इति एवंस्वरूपं यत् सूत्र तत्स्वारस्याच तदभिप्रायात् पुनः। इत्थमुक्तिः- “सङ्ग्रहः सङ्गीतस्य पिण्डितस्य च निश्चयः' इत्येवं लक्षणवचनम् , दर्शितपर्यालोचनया तात्पर्य सूक्तसूत्रस्यापि 'सामान्यमानाभ्युपगमप्रवण.' इत्यादिलक्षण एवेति बोध्यम् । 'यद्वा' इत्यादिप्रन्ध. घटकं प्रक्षिप्तं वा सर्वथाऽप्युपादेयम्, महासामान्यावगाहिनैगमोऽपि महासामान्यरूपेणाशेषविशेषसङ्ग्रहप्रवण इति तत्रातिव्याप्तिवारणाय 'नैगमाद्यपगतार्थ' इति सङ्ग्रहस्य विशेषणम् , तथा च नेगमायुपगता ये अर्था महासामान्या ऽवान्तरसामान्य-विशेषाद्यास्तेषां सर्वेषां सत्वलक्षणमहासामान्येन सङ्ग्रहप्रवणो विशेषविनिमोकादिलक्षणग्रहप्रवणो न नैगमः किन्तु सङ्ग्रह एवेति न नैगमेऽतिव्याप्तिरित्याह--सामान्यति, 'नेगमाद्यपगतार्थसङ्ग्रहप्रवण' इत्यत्र विशेषविनिर्मोकलक्षण सङ्ग्रहो यद्यभिमतस्तदा प्रस्थकस्थले आखादितप्रस्थकपर्यायमाकुट्टितनामानं मेयारूढमभ्युपगच्छतः समहविशेषस्य सङ्ग्रहो न भवेत् , तस्य महासामान्याभ्युपगन्तृत्वाभावेन सामान्यमविदधतो विशेषविनिर्मोकलक्षणसङ्ग्रहप्रवणत्वाभावेन तत्रोक्तलक्षणाव्याप्तेः। यदि चाशुद्धविषयविनिर्माकलक्षणः सङ्ग्रहोऽभिमतस्तदा यः सङ्ग्रहः सामान्यविधायकत्वेन विशेषविनिर्मोकप्रवण एव न तु अशुद्धविषयविनिर्मोकप्रवणस्तत्राव्याप्तिः स्यादित्यत आह- सहश्चेति- अस्य 'उपादेयः' इत्यनेमान्वयः । 'सेन न' इत्यस्य ‘अव्याप्तिः' इत्यनेनान्वयः । सामान्यविधेरसङ्ग्रहात् सामान्यविधानतो विशेषविनिर्मोकलक्षणसट्ग्रहाभावात् । तत्स्थलेति- प्रस्थकस्थलेत्यर्थः । तत्त्वार्थभाष्योक्तं सङ्ग्रहलक्षणमुपदर्शयति- अर्थानामिति । सामान्य-विशेषोभयात्मकानां सामान्य-विशेषयोः स्वरूपसनिविष्टयोयः सामान्यात्मक एकदेशोऽशस्तस्य स्वीकार सङ्ग्रह इत्यर्थ निरुक्तभाष्यवचनपर्यवसितार्थमुपदर्शयति- अत्रेति । तयोः सामान्य विशेषयोः। सग्रहणं नामकरूपेण ग्रहणम्, तत् प्रकृते सामान्यरूपेण सामान्यस्य विशेषस्य च ग्रहणम्, ग्रहणमप्यत्र स्वीकारस्वरूपमित्यभिसन्धानेनाइ- सामान्यैकदेशस्वीकार इति- सामान्यरूपी य एकदेशस्तदात्मना सामान्य-विशेषयोःखीकारो न तु विशेषस्य विशेषात्मनाऽपि खोकार इत्यर्थः ।