________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
१५३
भावांश एव च प्रत्यक्षादिप्रमाणप्रवृत्तेस्तन्मात्रत्वमेव स्वीकुरुते, घटादिविशेषविकल्पस्त्वविद्योपजनित एवेति मन्यते, अतव्यावृत्तिव्यवहारोऽप्यस्य प्रतियोगिसापेक्षत्वेन कल्पनामूल एव, अयं चाशुद्धसङ्ग्रहविषयः, एवं तदवान्तरभेदास्तु यद्यत्सामान्यान्तर्भावेन विधिव्यवहार प्रवर्तयन्ति तत्तत्सामान्यैकदेशस्वीकारिणो द्रष्टव्याः । ताहशतादृशसङ्ग्रहनय विचारे च तत्तदवान्तरधर्माकारश्रुतिनिश्रितं मतिज्ञानमपि जायत एव 'रूपविशेषवान् मणिः पद्मरागः' इत्युपदेशार्थप्रतिसन्धानानन्तरं चाक्षुषोपयोगे पद्मरागाकारमिव प्रत्यक्षमिति कार्यविशेषादपि तद्विशेष इति दिक् ।। २२ ॥ सङ्ग्रहावान्तरभेदैरेव सङ्ग्राह्यार्थ[ व्यवहार भेदमुपदर्शयति--
एक-द्वि-त्रि-चतुः-पञ्च-षड्भेदा जीवगोचराः।
भेदाभ्यामस्य सामान्य विशेषाभ्यामुदीरिताः ॥ २३ ॥ नयामृत-एकेति-चेतनत्वेन जीव एकः, त्रस-स्थावरत्वाभ्यां द्विविधः, पुंवेद-स्त्रीवेद नपुंसकवेदैत्रिविधः, देव-मनुष्य-तिर्यग-नारकगतिभेदैश्चतुर्विधः, एकेन्द्रिय द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियभेदात् पञ्चविधः, पृथ्वीकाया-ऽप्काय-तेजस्काय-वायुकाय-वनस्पतिकाय-त्रसकायभेदात् षड्विधः, इत्येवं ये जीवगोचराः सङ्ग्रहप्रकारा उदीरिताः सिद्धान्ते तेऽस्य- सङ्ग्रहन यस्य सामान्य-विशेषाभ्यां-सामान्यसङ्ग्रह-विशेषसङ्ग्रहलक्षणाभ्यां भेदाभ्यामवगन्तव्याः ॥ २३ ॥ सामान्यवत् विशेषस्यापि वस्त्वंशतया कथं न तस्य विशेषरूपेण स्वीकारः, सामान्यरूपेणैव तस्य स्वीकारे किं निमित्त. मित्यपेक्षायामाह-अयमिति--सह ग्रहनय इत्यर्थः, अस्य 'स्वीकरोति' इत्यनेनान्वयः । हि यतः, भवनानन्तरत्वात् भवनं भावः सत्तालक्षणमहासामान्यं तदनन्तरत्वादभिन्नत्वात् । भावांश एव च सत्तास्वरूपांश एव पुनः । प्रत्यक्षादिप्रमाणप्रवृत्तेः प्रत्यक्षादिप्रमाणे भावांश एव भासतेऽतः प्रत्यक्षादिप्रमाणस्य भावांश एव प्रवृत्त: । 'तन्मात्रत्वमेव' इत्यत्र 'घटादीनाम्' इत्यस्यान्वयः, तेन घटादीनां तन्मात्रत्वमेव भावमानत्वमेव सत्तामात्रस्वरूपत्वमेव, मात्रपदेन भावातिरिक्तस्वरूपत्वस्य व्यवच्छेदः। ननु यदि सल-प्रहनयो घटादीनां भावमात्रस्वरूपत्वमेव स्वीकरोति तर्हि 'घटः, पटः, मठः' इत्यादिबोधस्तन्मते न स्याद् घटत्वादीनां विशेषाणां तन्मतेऽभावादित्यत आह- घटादिविशेषविकल्पस्विति । अखण्डमेव वस्तुतत्त्वं यद् यत् सखण्डमन्यापेक्षाश्रयणेन व्यवहियते तत् तत् कल्पितमेवैतन्मतेऽतो घटोऽघटायावृत्त इति व्यवहारोऽपि प्रतियोगिसापेक्षत्वेन कल्पित एवेत्याह-अतद्वयावृत्तिव्यवहारोऽपीति । अस्य सङ्ग्रहस्य । घटत्वमघटव्यावृत्तिरूपं सामान्यं सदाश्रयणेन योऽयमघटव्यावृत्तिव्यवहारः सोऽशुद्धसङ्ग्रहस्य विषयो, न शुद्धसङ्ग्रहस्य, तस्य विशेषमानासंस्पर्शादित्याह-अयं चेति । अथवा योऽयं सामान्यैकदेशस्वीकारलक्षण: सङ्ग्रह इदानीमुपदर्शित: सोऽशद्धसङ्ग्रहविषयो ज्ञेयः, यतोऽत्र यस्य सामान्यस्य यो विशेषस्तस्य विशेषस्य तत्सामान्यात्मना स्वीकार इति तदा घटते यदि सामान्य-विशेषभावाश्रयणं स्यादित्येवमशुद्धत्वमत्र, एतदभिप्रायेणैवाह-एवमिति । अत एव 'सवैकदेशसङ्ग्रहणम्' इत्यत्र 'सर्वम्' इत्यस्य सामान्यमित्येव व्याख्यातं न तु महासामान्यमिति, तथा चावान्तरसामान्यगोचरोऽपि सङ्ग्रहो लक्ष्यतयाऽत्राभिमत इत्यवान्तरसामान्यस्य विशेषरूपत्वमपीत्यशद्धत्वम् , तेन तद्विषयकस्यापि सङ्ग्रहस्याशुद्धत्वं बोध्यम् । तवान्तरभेदास्तु अशुद्धसङ्ग्रहावान्तरभेदाः पुनः, अस्य 'प्रवर्तयन्ति' इत्यनेन 'द्रष्टव्याः' इत्यनेन चान्वयः । यद्य
सामान्येति-मृत्सामान्यान्तर्भावेण घट-शरावोदञ्चनादीनां विधिव्यवहारं 'घट-शराबोदश्चनादयो मृदेव' इत्येवं व्यवहारं पृथिवीसामान्यान्तविण घटपटादीनां विधिव्यवहारं 'घट-पटादयः पृथिव्येव' इत्येवं व्यवहार प्रवर्तयन्ति, ये सङ्ग्रहविशेषास्ते मृत्पृथिव्यादिसामान्यैकदेशस्वीकारिणो द्रष्टव्या इत्यर्थः । उक्तनयविचारस्य श्रुतनिश्रितमतिज्ञानेऽप्युपयोग दर्शयति-तादृशेति । 'तत्तदवान्तरधर्माकारश्रुतिनिश्रितम्' इत्यस्य स्थाने 'तत्तदवान्तरधर्माकारं श्रुतनिश्रितम्' इति पाठो युक्तः । उक्तार्थदादाय कार्यविशेषात् कारणविशेषसिद्धि दृष्टान्तावष्टम्भेन दर्शयति-रूपविशेषवानिति । चाक्षुषोपयोगे रूपविशेषवन्मणिना सह चक्षुषः साम्मुख्यादिलक्षणचाक्षुषोपयोगे सति ॥ २२ ॥
२०