________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपदेशः ।
नैगम व्यवहारयोरपेक्षया यथाऽस्य शुद्धत्वं तथाह
उपचारा विशेषाश्च, नैगम-व्यवहारयोः।
इष्टा ह्यनेन नेष्यन्ते, शुद्धार्थपक्षपातिना ॥ २४ ॥ नयामृत०-उपचारा इति । उपचारा- गौणव्यवहाराः, विशेषाश्च- तत्तघ्यावृत्तिरूपाः, नैगमव्यवहारयोः, इष्टाः, शुद्धार्थपक्षपातिना- एतदुभ यापेक्षया खविषयोत्कर्षाभिमानिना, हि- निश्चितम् , अनेन- सङ्ग्रहनयेन, नेष्यन्ते, तथा च नैगम-व्यवहारसम्मतोपचार-विशेषानवलम्बित्वादस्य शुद्धत्वं स्वसमवायोचितोपचारविशेषयोः कचिदवलम्बनेनापि नापोद्यत इति भावः ॥ २४ ॥
व्यवहारं लक्षयति. उपचारेण बहुलो विस्तृतार्थश्च लौकिकः।।
यो बोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः॥ २५ ॥ नयामृत०-उपचारेणेति । उपचारेण-गोण्या वृत्त्या, बहुलो- बाहुल्येन व्यवहारकारी, विस्तृतार्थ:- नानाव्यक्तिकशब्दसङ्केतग्रहणप्रवणः, लौकिक:-शब्द तदुपजीविप्रमाणातिरिक्तप्रमाणपक्षपाती, यो बोधः सोऽयं व्यवहाराख्यो नयः, बुधैर्लक्षितः, उपचारबहुलाधध्यवसायवृतिनयत्वव्याप्यजातिमत्त्वं लक्षणं तेन नाननुगम इत्यर्थः । " लौकिकसम उपचारप्रायो विस्तृताऽर्थो व्यवहारः" [ तत्त्वार्थसूत्र. अ० १, सूत्र-३५ ] इति तत्त्वार्थभाष्यमनुरुध्य इत्थं लक्षितम् , " वच्चइ विणिच्छिअत्थं व्यवहारो
त्रयोविंशतितमं पद्यमवतारयति-सङ्ग्राह्यार्थेति-संग्रहगृहीतार्थेत्यर्थः । विघृणोति- एकेतीति । मूलोक्तान् जीव. गोचराने कादिभेदान् स्पष्टयति-चेतनत्वेनेति । जीवगोचराः के ? इत्यपेक्षायामाह- सङ्ग्रहप्रकारा इति । कुत्रोदीरिता इत्याकाङ्क्षानिवृत्तये त्वाह-सिद्धान्त इति । अन्यत् स्पष्टम् ॥ २३ ॥
चतुर्विशतितमं पद्यमवतारयति-नेगमेति । अस्य सङ्ग्रहनयस्य । विवृणोति-उपचारा इतीति । एतदुभयापेक्षया नैगम-व्यवहारोभयापेक्षया । भावार्थमुपदर्शयति-तथा चेति-नैगम-व्यवहारोभयापेक्षया स्वविषयोत्कर्षाभिमानिनः सङ्ग्रहस्य नैगमन्यवहाराभीष्टोपचारविशेषानभ्युपगन्तृत्वे च सति । अस्य सङ्ग्रहन यस्य । 'शुद्धत्वम्' इत्यस्य 'नापोद्यते' इलनेनान्वयः, 'स्वसमवायोचित०' इति स्थाने 'स्वसमयोचित०' इति पाठः, स्वस्य- सङ्कहनयस्य, यः समय:-तद्विषयावबोधको राद्धान्तः, तदुचितौ- तदनुगुगौ यावुपचारविशेषो तयोः । क्वचित् स्वविषये कस्मिंश्चित् । अवलम्बनेनापि स्वीकरणेनापि । नापोद्यते न निषिद्धयते, यदि सामान्यत उपचार-विशेषयोरनभ्युपगम्तृत्वमेव सग्रहस्य शुद्धत्वमभिमतं स्यात् तदा स्वसमयोचितोपचारविशेषाभ्युपगमेनापि उक्तलक्षणं शुद्धत्वमस्यापोदितमेव स्यात् , न चैवम्, किन्तु नैगम-व्यवहाराभ्युपगतोपचारविशेषानभ्युपगन्तृत्वमेवास्य शुद्धत्वम्, तच्च स्वसमयोचितोपचारविशेषाभ्युप. गन्तृत्वेऽपि निराकुलमवतिष्ठत एवेत्यर्थः ॥ २४ ॥
व्यवहारलक्षकं पञ्चविंशतितमं पद्यमवतारयति- व्यवहारमिति । विवृणोति--उपचारेणेतीति । नानेति-भानाव्यक्तिषु यः शब्दस्य सङ्केतस्तस्य ग्रहणे समर्थ इत्यर्थः। शब्देति-शब्दात्मकं यत् प्रमाणे शब्दोपजीवि च यदनुमानादिक प्रमाणं ताभ्यामतिरिक्तं यत् प्रत्यक्षादि प्रमाण तत्पक्षे पतितुं शीलं यस्य तादृशः, प्रत्यक्षाद्यापामरसाधारणमान्य प्रमाणगृहीताभ्युपगमप्रवण इति यावत् । एवं च सति व्यवहारस्य किं लक्षणं सिद्धं भवतीत्यपेक्षायामाह-- उपचारेति-- उपचारबहुलायध्यवसायवृत्तित्वस्य जातिविशेषणतयोपन्यासान्नैगमस्वादिजातिव्युदासः, नयत्वव्याप्यत्वविशेषणोपादानानयत्व-ज्ञानत्वादिजातिव्युदासः । तेन जातिघटितलक्षणकरणेन । एतच लक्षणं तत्त्वार्थभाष्यानुसारीत्यावेदयति- लौकिकसमेति । नियुक्तिप्रन्थानुसारिव्यवहारलक्षणमाचेदयितुमाह-वच्चइ० इति- "व्रजति बिनिश्चितार्थ व्यवहारः सर्वद्रव्येषु" इति संस्कृ.