Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 176
________________ १५० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । RELA - ." तत्प्रसिद्धिश्च सामान्य-विशेषाद्युभयाश्रया । तदन्यतरसन्यासे व्यवहारो हि दुर्घटः ॥ २१॥ नयामृत०-तत्प्रसिद्धिश्च- लोकप्रसिद्धिश्च, सामान्य विशेषाधुभयाश्रया-सामान्यविशेष-नित्यानित्यत्व भेदाभेदाधुभयावलम्बिनी, हि- यतः, तेषां मध्ये, अन्यतरस्य- एकस्यापि, सन्न्यासे-परित्यागे, व्यवहारो दुर्घटः, सामान्याद्यभावे अनुगत प्रतीत्यादेः, विशेषाद्यभावे च व्यावृत्त्यादिबुध्यादेरसम्भवादित्यर्थः । तथा च सामान्य विशेषोभयस्वीकर्तृजातीयैकदेशबोधत्वं नैगमत्वमिति लक्षणं लब्धम् । अथानेन स्वतन्त्रसामान्य-विशेषोभयाभ्युपगमे कणादवद् दुर्नयत्वम् , शबलतदभ्युपगमे च प्रमाणत्वमेव, यथास्थानं इत्यर्थः । लोकप्रसिद्धार्थापगन्तृत्वलक्षणेऽर्थे तद्भक्त्वशब्दो न मुख्यवृत्त्या प्रवर्तते तदधिकरणकभवनवत्त्वलक्षणार्थ एव तस्य मुख्यवृत्तेः सम्भवादन आह- पारिभाषिकमिति- जैनसिद्धान्तरहस्यजन्तत्र सङ्कतितस्तद्भवत्वशब्दस्तेन लौकिकप्रभवत्वशब्दस्य या उक्तार्थे आधुनिकसतलक्षणा परिभाषा तद्विषय इत्यर्थः । तत तत्प्रभवत्वमित्यों ज्ञातव्य इत्यर्थः ॥ २० ॥ लोकप्रसिद्धिरेव किमर्थाश्रयेत्यपेक्षायामकविंशतितम पद्यमाह-तत्प्रसिद्धिश्चेति । विवृणोति-तत्प्रसिद्धिश्चेति । अनुगतप्रतीत्यादेरित्यस्यासम्भवादित्यनेनान्वयः । 'सामान्यायभावे' इत्यत्रादिपदानित्यत्वा-ऽभेदादेरुपग्रहः । 'अनुगतप्रतीत्यादेः' इत्यत्रादिपदात् प्रत्यभिज्ञानादेर्ग्रहणम् । 'विशेषाद्यमावे' इत्यत्रादिपदादनित्यत्व भेदादेः परिग्रहः । 'व्यावृत्त्यादि' इत्यत्रादिपदाद्वं स-प्रागभावादेर्ग्रहणम् । 'बुद्ध्यादेः' इत्यादिपदाद् धंस-प्रागभाव-भेदादिप्रतीत्यादेः सङ्ग्रहणम् । तथा च सामान्यविशेषोभ याश्रया लोकप्रसिद्धिोकप्रसिद्धार्थापगन्तृत्वलक्षणनिगमप्रभवत्ववागमनय इति व्यवस्थितौ च । सामान्येति-एतेन नित्यत्वा-ऽनित्यत्वोभ यस्त्रीकर्तृजातीयैकदेशबोधलं भेदाभेदोभयस्वीकर्तृजातीयैकदेशप्रभवत्वमित्यादिकमपि नैगमलक्षणमवसेयम् , जातिघटित लक्षण करणाद् यो नैगमविशेषो नित्यत्वं प्रधानतयाऽवमाहते भनित्यत्वमेव वा प्रधानतयोररीकरोति भेदमेव वा प्रधानतयाऽभ्युपैति अभेदमेव वा तथा स्वीकरोति सामान्यमेव विशेषमेव वाऽभ्युपैति, तेषु सर्वेषु सामान्योभयस्त्रीकर्तृत्वस्य नित्यत्वानिस्यत्वोभयस्वी कर्तृत्वादेरभावेऽपि न क्षतिः, या नैगमव्यक्ति: सामान्य विशेषं चाभ्युपैति सा सामान्य-विशेषोभयस्वीकत्री तत्तिर्न यत्वावान्तरजातिगमत्वजातिस्तद्वान् एकदेशविषयको बोधोऽखिल एवं नयात्मा बोधस्तत्वं सर्वेषु नयेषु वर्तत इति लक्षणसमन्वयः; नयत्वजातिमादाय सङ्ग्रहादिः नयेष्वतिव्याप्तिवारणाय जातिर्नयत्वावान्तरजातित्वैन प्रवेशनीया, न तु सामान्य-विशेषोभयस्वीकर्तृमात्रवृत्तित्वन जातिप्रवेशः समुचितः, तथा सति नैगमत्व जातेरपि सामान्य-विशेषोभयस्वीकर्तृनैगमव्यक्तिव्यतिरिक्तनित्यत्वा-ऽनित्यत्वोभयस्वीकर्तृनगमव्यक्तिवृत्तित्वेन सामान्य-विशेषोभयस्त्रीकर्तृमात्रवृत्तित्वस्थाभावेनासाहः प्रसज्ये तेति बोध्यम् , नयस्त्रावान्तरत्वं च नयत्वव्याप्यत्वमात्रमिह विवक्षितं न तु नयत्वव्याप्यत्वे सति नयत्वाव्याप्याव्याप्यत्वं नैगमवावान्तरजातेहणेऽपि क्षल्यभावात्, नयत्वव्याप्यत्वमपि नयत्वन्यूनवृत्तित्वमेवात्राभिमतं न तु नयत्वाभाववदवृत्तित्वरूपम् , तेन नयत्वस्य नयत्वाभाववदवृत्तित्वलक्षणनयत्वव्याप्यस्वस्य सत्त्वेऽपि न तदादाय नयान्तरेष्वतिव्याप्तिः, नयत्वन्यूनवृतित्वमपि नयत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमेव विवक्षितं न तु नयत्वसमानाधिकरणखे सति नैगमत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वरूपम् , सामान्यविशेषोभयस्वीकर्तवृत्तित्वस्य जातिविशेषणतयोपात्तत्वेन तत एव नयावृत्तिनातेस्रहणासम्भवात् , इत्थं च यत्किञ्चिन्नयावृत्ति सामान्य विशेषोभयस्वीकर्तृवृत्तिजातिमदेकदेशविषयकशेषत्वं नगमत्वमित्येवमपि नैगमनयलक्षणाभिधानं युक्तमेव, यत्किञ्चिनयावृत्तित्वाभावादेव नयत्व जातेग्रहणासम्भवात्, 'शाब्दबोधविशेषा एक नयबोधाः' इत्यस्य 'श्रुतप्रमाणपरिच्छिन्नार्थकदेशाव. गाह्यभिप्रायविशेषो नयः' इति नयसामान्यलक्षणानुगमनबलादादरणे श्रुतत्वस्य ज्ञानत्वव्याप्यजातेरपि निखिलनयवर्तिन्या यत्किविनयावृत्तित्वाभावादेव ग्रहणासम्भवान्न तामादायातिप्रसक्तिः, प्रमाणभात्रवृत्तिप्रमाणत्वजातेयसामान्यावर्तिन्या: सामान्य-विशेषोभयस्वी कर्तृप्रमाणवर्तिन्या यत्किञ्चिन्नयावृत्तित्वेन सङ्ग्रहेऽपि तजातिमान् वस्तुबोध एव न लेकदेशबोध इत्येतावतैव तामुपादायापि नातिव्याप्तिः, एतत्पक्षे मतिज्ञानत्वं नयवृत्त्ये न तामुपादायाप्यतिव्याप्तिः, यदि चैकदेशावगाहिमतिज्ञानविशेषोऽपि नय इति मतिज्ञानत्वमपि नयवृत्ति भवति, तच श्रमात्मकन यज्ञामावृत्यपीति तदुपादानेन मतिज्ञानविशेषे नयान्तरेऽतिध्याप्तिरिति भवति परीक्षकाणां मतिस्तदा नयत्वाभाववदवृत्तित्वरूप नयत्वव्याप्यत्वमेव जातावुपादेयम् , नयत्ववारणाय च नयत्व

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210