Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
गता:-पर्यायार्थिकाः, ऋजुसूत्रादयश्चत्वारः पर्यायार्थिका वादिनः, शब्दादयत्रय एव च क्षमाश्रमणानामिति निर्गलितोऽर्थः । ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात् तदा उक्तम् “ उजुसुयस्स एगे अणुवउत्ते एग दवावस्सयं पुहत्ते णेच्छइ [ अनुयोगद्वारसूत्र- १४ ] इति सूत्रं विरुध्येतेति सैद्धान्तिकाः । तार्किकानुसारिणस्तु अतीता-ऽनागत-परकीय भेद-पृथक्त्वपरित्यागाहजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीय. वर्तमानवस्तुन एवोपगमानास्य तुल्यांश-ध्रुवांशलक्षणद्रव्याभ्युपगमः, अत एव नाश्यासद्घटितभूतभावि. पर्यायकारणत्वरूपद्रव्यत्वाभ्युगमोऽपि, अध्रुवधर्माधारांशद्रव्यमपि नास्य विषयः शब्दनयेष्यतिप्रसङ्गात् । उक्तसूत्रं त्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचारात् समाधेयम् , पर्यायार्थिकेन मुख्यमते इति निर्गलितार्थ दर्शयति-ऋजुसूत्रादय इति । नगमादयस्त्रयो द्रव्यार्थिकाः शब्दादयस्त्रयः पर्यायार्थिका इत्यत्रो. भयेषामपि सम्प्रतिपत्तिः, केवलमृजुसूत्रे पर्यायार्थिकत्वं तार्किका अभ्युपगच्छति, सैद्धान्तिकास्तु तत्र द्रव्यार्थिकत्वमभ्युपयन्ति, तत्र क्षणिकपर्यायमात्राभ्युपगन्तु:सूत्रस्य पर्यायार्थिकत्वं बुद्धिपथमारोहति, द्रव्यार्थिकत्वं तु तस्य कथं सैद्धान्तिकैराश्रितमित्यपेक्षायामाह-ऋजुसूत्र इति। 'उकम्' इत्यस्य 'सूत्रम्' इत्यनेनान्वयः। सूत्रमुल्लिखति- उजु० इति" ऋजुसूत्रस्यैकोऽनुपयुक्त एकं द्रव्यावश्यक पृथक्त्वं नेच्छति" इति संस्कृतम्, इदं सूत्र व्यावश्यकाभ्युपगन्तृत्वमृजुसूत्रस्य प्रतिपादयति, तस्य विरोध ऋजुसूत्रस्य द्रव्यार्थिकत्वानभ्युपगमे इति अजुसूत्रस्य द्रव्यार्थिकत्वमुक्तसूत्रानुरोधादभ्युपगन्तव्यमिति सैद्धान्तिका वदन्तीत्यर्थः । ननूक्तसूत्रं तार्किकाणामपि मान्यमेवेति कथं द्रव्यार्थिकत्वं तस्य तार्किका नाभ्युपगच्छन्तीत्यत आह-तार्किकानुसारिणस्त्विति । अतीतेति- अतीतादीनां परित्यागस्तदनभ्युपगम एव । यद्यतीतादय ऋजुसूत्रेण परित्यज्यन्ते तर्हि तत्परित्यागस्तेन किमुपेयते इत्यपेक्षायामाह-स्वकार्येति- अतीतो विनष्टत्वादनागतस्तदानीमभावात् परकीयधनादिकं. परतन्त्रत्वान्न स्वकार्यसाधकं किन्तु स्वकार्यसाधकं स्वकीयं वर्तमानमेव वस्त्विति स्वकार्यसाथकत्वेन स्वकीयवर्तमानवस्तुन एवं ऋजुसूत्रेणाभ्युपगमादित्यर्थः । नास्येति- अस्य- ऋजुसूत्रस्थ, 'तुल्यांशलक्षणद्रव्यं गोत्वादितिर्थक्सामान्य समानाकारपरिणतिलक्षणम्, ध्रुवांशलक्षणद्रव्यं मृत्पिण्डशरावोदचनाद्यनुगतं कालत्रयानुगामि मृद्रव्यम्' इत्युक्तद्रव्यद्वयस्याभ्युपगमो न, तथा च निरुक्तद्रव्याभ्युपगन्तुने यस्यैव द्रव्यार्थिकत्वम्, मिरुक्तद्रव्याभ्युपगन्तृत्वाभावाजुसूत्रस्य न द्रव्यार्थिकत्वमित्यर्थः । अत एवं स्वकी यवर्तमानवस्तुमात्राभ्युपगन्तृत्वादेव । 'नाश्य' इति स्थाने 'नास्य' इति पाठो युकः, अस्य ऋजुसूत्रस्य, भूत-भाविनोर्वर्तमानकालेऽसत्त्वादसद् यद् भूतं भावि च तटितं यदु भूतपर्यायकारणत्वरूप यच भाविपर्यायकारणस्वरूपं द्रव्यत्वं तस्याभ्युपगमोऽपि नेत्यर्थः। अध्रवेति- अध्रव अनित्या ये धर्मास्तेषामाधारभूतो यो वस्रवंशस्तदात्मकदव्यमपि ऋजुसूत्रस्य न विषय इत्यर्थः । यद्यध्रवधर्माशद्रव्यविषयकत्वमृजुसूत्रस्याभ्युपगम्य द्रव्यार्थिकत्वं तदा शब्दनयेषु शब्दसमभिरूढैवम्भूतेषु तथाभ्युपगमतो द्रव्यार्थिकत्वं प्रसज्येतेत्यर्थः, तदेवं यद् यद् द्रव्यपदेन व्यपदिश्यते तस्य सर्वस्य न ऋजुसूत्रविषयत्वमिति द्रव्यमानविषयकत्वाभावाजुसूत्रस्य न द्रव्यार्थिकत्वमित्याशयः। ऋजुसूत्रस्य द्रव्यार्थिकत्वानभ्युपगमे "उजुसूयस्स." इति सूत्रविरोधः सैद्धान्तिकैर्य उद्भाव्यते तं परिहरति-उकसुत्र विति- 'अनुपयोगो द्रव्यम्' इति वचनादनुपयोग एक द्रव्यम् , तमुपादाय वर्तमानावश्यकपर्याय एव द्रव्यपदस्योपचारो गौणवृत्तिः, ततोऽद्रव्येऽपि वर्तमानावश्यकपर्याये द्रव्यपदप्रयोगस्तेम ऋजुसूत्रस्य वास्तविकद्रव्यविषयकत्वाभावेन द्रव्यार्थिकत्वाभावेऽपि वर्तमानावश्यकपर्यायानुपयोगरूपोपचरितद्रव्यविषयकत्वं सम्भवतीति नोक्तसूत्रविरोध इत्यर्थः । ननूक्तलक्षणद्रव्यविषयकत्वमपि पर्यायार्थिकस्य तस्य कथम् ? तत्त्वे पर्यायाथिकत्वमेव तस्य न स्याद् द्रव्याप्रतिक्षेपकत्वादित्यत आह-पर्यायार्थिनेति । 'मुख्यद्रव्यपदार्थस्यैव' इत्येवकारेणोषचरितद्रव्यपदार्थस्य व्यव. च्छेदः, तेनोपचरितद्रव्यपदार्थाप्रतिक्षेपकत्वेऽपि पर्यायार्थिकत्वस्य न हानिः । ननु अन्यविषयकानुपयोगो नान्यस्य द्रव्यम्, नहि घटानुग्योगो द्रव्यपटः, किन्तु घटविषयकानुपयोगो घटद्रव्यमिति, तथा च ‘एकोऽनुपयुक्तः' इत्यत्र वर्तमानावश्यकपर्यायविषयकानुपयोग एव 'अनुपयोग' इत्यनेनाभिमतः, द्रव्यावश्यकमपि वर्तमानावश्यकपर्यायविषयकानुपयोग इति, तथा चार्थक्याद् यथा घटो घट इत्येवमुद्देश्य-विधेयभावो न भवति तथा प्रकृतेऽप्यर्थेक्यादुद्देश्य-विधेयभावानुपपत्तिः

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210