Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
सबदवेसु" [विशेषावश्यकनियुक्तिगाथा-२१८३ ] त्ति, नियुक्तिप्रतीकपर्यालोचनायां तु विनिश्चितार्थप्रापकत्वमस्य लक्षणं लभ्यते, विनिश्चितार्थप्राप्तिश्चास्य सामान्यानभ्युपगमे सति विशेषाभ्युपगमात् , अत एव विशेषेणाव हीयते निराक्रियते सामान्यमनेनेति निरुत्युपपत्तिः, जलाहरणाद्युपयोगिनो घटादिविशेषानेवायमङ्गीकरोति, न तु सामान्यं तस्यार्थक्रियाऽहेतुत्वात् , नहि 'गां बधान' इत्युक्ते कश्चिद् गोत्वं बद्धमध्यवस्यति, अनुगतव्यवहारश्चान्यापोहादिनाऽप्युपपत्स्यते, अखण्डाभावनिवेशाच्च नान्योन्याश्रयः, अस्तु वा सर्वत्र शब्दानुगमादेवानुगतत्वव्यवहारः, कारणत्व-व्यायादावित्थमेवाभ्युपमगादित्यादिकं प्रपस्चितमन्यत्र ॥ २५ ॥ तम्, विशेषेण विशेषरूपेण निश्चितस्यार्थस्य प्रापकत्वं विनिश्चितार्थप्रापकत्वं तदस्य व्यवहारस्य लक्षणं निरुक्तनियुक्तिप्रतीकपर्यालोचनायां कृतायां लभ्यत इत्यर्थः। विनिश्चितार्थप्रापकत्वं कथं व्यवहारस्येत्यपेक्षायामाह-विनिश्चितार्थप्राप्तिश्चेति ।
- व्यवहारस्य । अत एव सामान्यानभ्युपगमे सति विशेषाभ्युपगमतो व्यवहारस्य विनिश्चितार्थप्रापकत्वादेव । विशेषेण स्वाभ्युपगमविशेषेण, अनेन विशेषाभ्युपगमो व्यवहारस्यायाति । अनेन व्यवहाराख्यनयेन । निरुत्युपपत्तिः व्यवहारपदनिर्वाचनमुपपद्यते, यदि व्यवहारः सामान्यमभ्युपेयाद् विशेष वा नाभ्युपगच्छेत् तदा निरुक्तव्यवहारपदनिरुक्तिनोपपना स्यादित्यर्थः। अस्य सहेतुकं विशेषाभ्युपगमन सामाम्यानभ्युपगमनं च दर्शयति-जलेति- व्यवहारो हि लोकयात्रानिर्वाहक इति लोकव्यवहारो यादृशेनार्थेन सम्पद्यते तमर्थमुररीकरोति यश्चार्थो न व्यवहारसम्पादकस्तं च तिरस्करोति घटादिव्यक्तिलक्षणविशेषेभ्य एव जलाहरणादिलक्षणलोकव्यवहार उपजायत इति जलाहरणाद्युपयोगिनो घटादिविशेषानेवायं व्यवहारनयोऽङ्गीकरोति । एवकारलभ्यमेवार्थमाह-न तु सामान्यमिति- सामान्यं पुनर्व्यवहारो नाझीकरोति, यत एव सामान्य न लोकव्यवहारोपयोगि तत एव न तत्स्वीकरोतीत्यावेदनायाह-तस्येति- सामान्यस्येत्यर्थः । अर्थक्रियाकारित्वाभावात् जलाहरणादिलक्षणार्थक्रियाकारित्वाभावात् । अर्थक्रियाकारित्वाभावमेव सामान्यस्य व्यवस्थापयतिनहीति-अस्य 'अध्यवस्यति' इत्यनेनान्वयः। ननु यदि सामान्यमर्थक्रियाकारि न भवेदनुगतव्यवहारस्तदेकनिवन्धनो न स्यादित्यत आह- अनुगतव्यवहारश्चेति । ननु अन्यापोहो गोभिन्न भिन्नत्वम्, तत्र यत्किञ्चिद्गोभिन्नं गोव्यक्त्यन्तरं तद्भिन्नत्वं न तस्यां गवीत्यतोऽस्य नानुगतत्वम्, यदि च तत्र गोत्वावच्छिन्न प्रतियोगिताको भेदो निविशते तदा गोत्वावच्छिन्नप्रतियोगिताकभेदवती या यत्किञ्चिदश्वव्यक्तिस्तद्भिन्नत्वं गवादिभिन्ने तदश्वव्यक्तिभिने पदार्थान्तरेऽपीति तत्रापि
हारः स्यात् तद्वारणाय गोत्वावच्छिन्नप्रतियोगिताकभेदावच्छिन्न प्रतियोगिताकभेदो यागाऽपोहः, तत्र प्रविष्ट गोत्वं पुनरप्यगोव्यावृत्तिरूपम् , तत्राप्युक्तदिशा प्रविष्टं गोत्वमगोव्यावृत्तिरूपमित्येवं दिशाऽनवस्थाप्रसङ्गः, स एवागोऽपोहो यदि स्वशरीरसन्निविष्टगोत्वमपि तदा स्वस्यैव स्वापक्षणादात्माश्रयः, यदि च तत्र प्रविष्टा गोव्यक्तयो गौगोरित्यनु. गतव्यवहारविषया एवेति गोत्वमपोहशरीरसन्निविष्टं गौरित्यनुगतव्यवहारविषयत्वं तदोक्तापोहस्य निरुक्तानुगतव्यवहारापेक्षणान्निरुक्तानुगतव्यवहारस्य च निरुक्तान्यापोहापेक्षणादन्योऽन्याश्रय इत्यत आह-अखण्डाभावनिवेशाच्चेति- यावत्यो जगति गोव्यक्तयस्तद्धेदकूटावच्छिन्न प्रतियोगिताकभेद एवागोपोहः, स च तादृशभेदकूटावच्छिन्न प्रतियोगिताकभेदत्वेन रूपेण नाम्यापोहस्वरूपतयाऽभ्युपगम्यते येन निरुक्तभेदकूटस्यासर्वज्ञदुज्ञेयत्वेन तदवच्छिन्न प्रतियोगिताकभेदस्याप्यसर्वज्ञदुज्ञेयत्वं स्यात्, किन्त्वेकस्य तस्य तद्यते: स्वरूपतो भानस्याभ्युपगमेन तद्व्यक्तिरूपतयैवानुगतव्यवहारे भानम्, प्रतियोगिविशेषितरूपेणैव सन्निविष्टस्याभावस्य स्वरूपतो भानं निषिद्धं न तु तयक्त्यात्मनाऽखण्डस्य, तथा चाखण्डस्य निरुतभेदरूपाभावस्यान्यापोहस्वरूपे निवेशात् पुनरन्योन्याश्रयो न भवतीत्यर्थः । अथवा सर्वासु गोव्यक्तिले प्रत्येक गोपदस्य सङ्केतलक्षणशक्तिरूपसम्बन्ध इति तेन सम्बन्धेन गोशब्द एव सर्वत्रानुगत इति सङ्केतलक्षणसम्बन्धबलाच्छन्दानुगमादेवानुगतत्व. व्यवहार इत्याह- अस्तु वेति । जातिमन्तराऽप्यनुगतत्वव्यवहार: सामान्यवादिनामप्यभिमत एव, कथमन्यथा 'दण्डः कारणम् , बहिः कारणम्,' इति कारणत्वस्य जातिस्वरूपस्याभावेऽप्यनुगत कारणत्वव्यवहारः, व्याप्यत्वस्य जातिरूपस्याभावेऽपि 'धूमो व्याप्यः, आलोको व्याप्यः' इत्येवमनुगतव्याप्यत्वव्यवहार इत्याह- कारणत्वेति । इत्थमेवाभ्युपगमात् शब्दानुगमादेवानुगतत्वव्यवहारोपगमादित्यर्थः ॥ २५॥

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210