________________
१५०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
RELA
-
."
तत्प्रसिद्धिश्च सामान्य-विशेषाद्युभयाश्रया ।
तदन्यतरसन्यासे व्यवहारो हि दुर्घटः ॥ २१॥ नयामृत०-तत्प्रसिद्धिश्च- लोकप्रसिद्धिश्च, सामान्य विशेषाधुभयाश्रया-सामान्यविशेष-नित्यानित्यत्व भेदाभेदाधुभयावलम्बिनी, हि- यतः, तेषां मध्ये, अन्यतरस्य- एकस्यापि, सन्न्यासे-परित्यागे, व्यवहारो दुर्घटः, सामान्याद्यभावे अनुगत प्रतीत्यादेः, विशेषाद्यभावे च व्यावृत्त्यादिबुध्यादेरसम्भवादित्यर्थः । तथा च सामान्य विशेषोभयस्वीकर्तृजातीयैकदेशबोधत्वं नैगमत्वमिति लक्षणं लब्धम् । अथानेन स्वतन्त्रसामान्य-विशेषोभयाभ्युपगमे कणादवद् दुर्नयत्वम् , शबलतदभ्युपगमे च प्रमाणत्वमेव, यथास्थानं इत्यर्थः । लोकप्रसिद्धार्थापगन्तृत्वलक्षणेऽर्थे तद्भक्त्वशब्दो न मुख्यवृत्त्या प्रवर्तते तदधिकरणकभवनवत्त्वलक्षणार्थ एव तस्य मुख्यवृत्तेः सम्भवादन आह- पारिभाषिकमिति- जैनसिद्धान्तरहस्यजन्तत्र सङ्कतितस्तद्भवत्वशब्दस्तेन लौकिकप्रभवत्वशब्दस्य या उक्तार्थे आधुनिकसतलक्षणा परिभाषा तद्विषय इत्यर्थः । तत तत्प्रभवत्वमित्यों ज्ञातव्य इत्यर्थः ॥ २० ॥
लोकप्रसिद्धिरेव किमर्थाश्रयेत्यपेक्षायामकविंशतितम पद्यमाह-तत्प्रसिद्धिश्चेति । विवृणोति-तत्प्रसिद्धिश्चेति । अनुगतप्रतीत्यादेरित्यस्यासम्भवादित्यनेनान्वयः । 'सामान्यायभावे' इत्यत्रादिपदानित्यत्वा-ऽभेदादेरुपग्रहः । 'अनुगतप्रतीत्यादेः' इत्यत्रादिपदात् प्रत्यभिज्ञानादेर्ग्रहणम् । 'विशेषाद्यमावे' इत्यत्रादिपदादनित्यत्व भेदादेः परिग्रहः । 'व्यावृत्त्यादि' इत्यत्रादिपदाद्वं स-प्रागभावादेर्ग्रहणम् । 'बुद्ध्यादेः' इत्यादिपदाद् धंस-प्रागभाव-भेदादिप्रतीत्यादेः सङ्ग्रहणम् । तथा च सामान्यविशेषोभ याश्रया लोकप्रसिद्धिोकप्रसिद्धार्थापगन्तृत्वलक्षणनिगमप्रभवत्ववागमनय इति व्यवस्थितौ च । सामान्येति-एतेन नित्यत्वा-ऽनित्यत्वोभ यस्त्रीकर्तृजातीयैकदेशबोधलं भेदाभेदोभयस्वीकर्तृजातीयैकदेशप्रभवत्वमित्यादिकमपि नैगमलक्षणमवसेयम् , जातिघटित लक्षण करणाद् यो नैगमविशेषो नित्यत्वं प्रधानतयाऽवमाहते भनित्यत्वमेव वा प्रधानतयोररीकरोति भेदमेव वा प्रधानतयाऽभ्युपैति अभेदमेव वा तथा स्वीकरोति सामान्यमेव विशेषमेव वाऽभ्युपैति, तेषु सर्वेषु सामान्योभयस्त्रीकर्तृत्वस्य नित्यत्वानिस्यत्वोभयस्वी कर्तृत्वादेरभावेऽपि न क्षतिः, या नैगमव्यक्ति: सामान्य विशेषं चाभ्युपैति सा सामान्य-विशेषोभयस्वीकत्री तत्तिर्न यत्वावान्तरजातिगमत्वजातिस्तद्वान् एकदेशविषयको बोधोऽखिल एवं नयात्मा बोधस्तत्वं सर्वेषु नयेषु वर्तत इति लक्षणसमन्वयः; नयत्वजातिमादाय सङ्ग्रहादिः नयेष्वतिव्याप्तिवारणाय जातिर्नयत्वावान्तरजातित्वैन प्रवेशनीया, न तु सामान्य-विशेषोभयस्वीकर्तृमात्रवृत्तित्वन जातिप्रवेशः समुचितः, तथा सति नैगमत्व जातेरपि सामान्य-विशेषोभयस्वीकर्तृनैगमव्यक्तिव्यतिरिक्तनित्यत्वा-ऽनित्यत्वोभयस्वीकर्तृनगमव्यक्तिवृत्तित्वेन सामान्य-विशेषोभयस्त्रीकर्तृमात्रवृत्तित्वस्थाभावेनासाहः प्रसज्ये तेति बोध्यम् , नयस्त्रावान्तरत्वं च नयत्वव्याप्यत्वमात्रमिह विवक्षितं न तु नयत्वव्याप्यत्वे सति नयत्वाव्याप्याव्याप्यत्वं नैगमवावान्तरजातेहणेऽपि क्षल्यभावात्, नयत्वव्याप्यत्वमपि नयत्वन्यूनवृत्तित्वमेवात्राभिमतं न तु नयत्वाभाववदवृत्तित्वरूपम् , तेन नयत्वस्य नयत्वाभाववदवृत्तित्वलक्षणनयत्वव्याप्यस्वस्य सत्त्वेऽपि न तदादाय नयान्तरेष्वतिव्याप्तिः, नयत्वन्यूनवृतित्वमपि नयत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमेव विवक्षितं न तु नयत्वसमानाधिकरणखे सति नैगमत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वरूपम् , सामान्यविशेषोभयस्वीकर्तवृत्तित्वस्य जातिविशेषणतयोपात्तत्वेन तत एव नयावृत्तिनातेस्रहणासम्भवात् , इत्थं च यत्किञ्चिन्नयावृत्ति सामान्य विशेषोभयस्वीकर्तृवृत्तिजातिमदेकदेशविषयकशेषत्वं नगमत्वमित्येवमपि नैगमनयलक्षणाभिधानं युक्तमेव, यत्किञ्चिनयावृत्तित्वाभावादेव नयत्व जातेग्रहणासम्भवात्, 'शाब्दबोधविशेषा एक नयबोधाः' इत्यस्य 'श्रुतप्रमाणपरिच्छिन्नार्थकदेशाव. गाह्यभिप्रायविशेषो नयः' इति नयसामान्यलक्षणानुगमनबलादादरणे श्रुतत्वस्य ज्ञानत्वव्याप्यजातेरपि निखिलनयवर्तिन्या यत्किविनयावृत्तित्वाभावादेव ग्रहणासम्भवान्न तामादायातिप्रसक्तिः, प्रमाणभात्रवृत्तिप्रमाणत्वजातेयसामान्यावर्तिन्या: सामान्य-विशेषोभयस्वी कर्तृप्रमाणवर्तिन्या यत्किञ्चिन्नयावृत्तित्वेन सङ्ग्रहेऽपि तजातिमान् वस्तुबोध एव न लेकदेशबोध इत्येतावतैव तामुपादायापि नातिव्याप्तिः, एतत्पक्षे मतिज्ञानत्वं नयवृत्त्ये न तामुपादायाप्यतिव्याप्तिः, यदि चैकदेशावगाहिमतिज्ञानविशेषोऽपि नय इति मतिज्ञानत्वमपि नयवृत्ति भवति, तच श्रमात्मकन यज्ञामावृत्यपीति तदुपादानेन मतिज्ञानविशेषे नयान्तरेऽतिध्याप्तिरिति भवति परीक्षकाणां मतिस्तदा नयत्वाभाववदवृत्तित्वरूप नयत्वव्याप्यत्वमेव जातावुपादेयम् , नयत्ववारणाय च नयत्व