________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
१४९
द्रव्यपदार्थस्यैव प्रतिक्षेपात् । यदि चैवमपि 'एकानुपयुक्त एक द्रव्यावश्यकम् ' इत्यत्रानुपयोगस्य विषयनियन्त्रितत्वेनाथै क्यादुद्देश्य विधेयभावानुपपत्तिरिति विभाव्यते, यथा द्रव्यावश्यकपदं द्रव्यावश्यकत्वेन व्यवहर्तव्यम् , परं विवरणपरतया चैतत् योजनीयमिति न कश्चिद् दोष इत्यालोचयामः ।। १८ ।। उक्तानुभयनयभेदानेव विशिष्य लक्षयितुं नामग्राहं सहामि
नैगमः सङ्गहश्चैव व्यवहार सूत्रको ।
शब्दः समभिरूढाख्य एवम्भूतश्च सप्त ते ॥१९॥ नयामृत-नैगम इति स्पष्टः, ते-मूलनयप्रभेदाः ॥ १९ ॥ तत्रादौ नैगमलक्षणमाह
निगमेषु भवो बोधो, नैगमस्तत्र कीर्तितः ।
तद्भवत्वं पुनलोकप्रसिद्धार्थोपगन्तृता ॥ २० ॥ नयामृत-निगमेबिति-निगमेषु- लोकेषु भवो बोधो नैगमनयः, तत्र- तेषु मध्ये कीर्तितः, तद्भवत्वं च तदाश्रयेणोत्पत्तिकत्वम् , ज्ञानरूपस्य नयस्यात्मन्येव शब्दरूपस्य च भाषावर्गणायामेवोत्पत्तेः, किन्तु लोकप्रसिद्धार्थोपगन्तृता- लोकप्रसिद्धार्थकस्वीकर्तृत्वम् , पारिभाषिकं तदित्यर्थः ॥ २० ॥ स्यादित्यत आह- यदि चैवमपीति । एवमपि अनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचाराद् द्रव्यावश्यकमित्येवं सम्भवेऽपि । 'एकानुपयुक्तः' इत्यस्य स्थाने 'एकोऽनुपयुक्तः' इति पाठो युक्तः । विषयनियन्त्रितत्वेन प्रतिनियतविषयघटितमूर्तिकत्वेन । अर्थक्यात् य एव एकोऽनुपयुक्त इत्यस्यार्थः स एव एक द्रव्यावश्यकमित्यस्याप्यर्थ इत्यर्थक्यात् । 'यथा द्रव्यावश्यकपदम्' इत्यस्य स्थाने 'तदा द्रव्यावश्यकपदम्' इति पाठो युक्तः, 'व्यवहर्तव्यम. परं' इत्यस्य स्थाने ' व्यवहर्तव्यपरम् , ' इति पाठो युक्तः, 'चैतत्' इत्यस्य स्थाने 'वैतत् ' इति पाठो युक्तः, तथा च एकोऽनुपयुक्तवर्तमानावश्यकपर्यायो द्रव्यावश्यकत्वेन व्यवहर्तव्य इत्येवमनुपयुक्त-द्रव्यावश्यकपदयोरथै क्याभावादुद्देश्य-विधेयभावः सम्भवति । वा अथवा । 'एक द्रव्यावश्यकम् ' इत्यस्य विवरणम्- 'एकोऽनुपयुक्तः' इति, यथा'पति' इत्यस्य पाकं करोति' इति वित्रियमाणस्य विवरणेन सहाथै क्यमनुकूलतामेवावति, अर्थभेदे विवरण-विव्रिय. माणभावस्यैवाभावादित्येवमभ्युपगमे न कश्चिद् दोष इत्येवं यशोविजयोपाध्याया वयमालोचयाम इत्यर्थः । 'आलोचयामः" इत्युक्त्या मदेकपरिशीलितोऽयमभिनयः पन्था मद्न्याध्ययनपटुभिरेवासादयितुं शक्यो नान्ये नेत्यर्थोऽभिव्यज्यते ॥ १८ ॥
एकोनविंशतितमं पद्यमवतारयति-उक्तानिति । यद्यपि य एवं मूल कारः स एवात्रवृत्तिकारस्तथापि मूलकर्तृतो भेदमेव विवरणकरणवेलायामात्मनि वृत्तिकारो मनुते, तेन 'सगृहामि' इत्यस्य स्थाने 'सङ्ग्रहाति' इति पाठो युक्तः । श्लोकार्थस्य स्पष्टत्वान्नात्र विवरणं वितन्यत इत्याशयेनाह-नैगम इति स्पष्ट इति ॥ १९ ॥
विशतितमं पद्यमवतारयति-तत्रेति- उक्तेषु सप्तसु मध्य इत्यर्थः । विवृणोति-निगमेग्वितीति । तेषु मध्ये नैगमादिनयेषु सप्तसु मध्ये। तद्भवत्वं निगमभवत्वम् । न तदाश्रयेणोत्पत्तिकत्वं न लोकाश्रयेणोत्पत्तिमत्वम् , लोकाधिकरणकोत्पत्तिमत्त्वं नेति यावत् 1 'तद्भवत्वं च' इति स्थाने 'तद्भवत्वं न' इति पाठ एव समुचितः, तमवलम्ब्यायमर्थ उपदर्शितः। निषेधे हेतुमाह- ज्ञानरूपस्येति-नयो हि ज्ञानरूपः शब्दरूपथ, तत्र ज्ञानरूपस्य नयस्यात्मन्येवाधिकरणे उत्पत्तेः, शब्दरूपस्य च नयस्य भाषावणात्मकाधिकरण एवोत्पतेः, लोकेष्वधिकरणेषु कस्यापि नयस्योत्पत्तेरभावालोकाधिकरणकोत्पत्तिमत्त्वलक्षणं लोकोद्भवत्वं न यस्य न सम्भवतीत्यर्थः । तर्हि किं तद्भवत्वमिति पृच्छतिकिन्विति । उत्तरयति-लोकप्रसिद्धार्थोपगन्तृतेति- अस्य मूलस्य विवरणम् - लोकप्रसिद्धार्थस्वीकर्तृत्वमिति-लोकप्रसिद्धो यः सामान्यात्मा विशेषात्मा च परस्परं भिन्नोऽर्थस्तत्स्वीकर्तृत्वम् , तच्च मस्मिन् नये स नयो नैगम