________________
१५६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
उपचारबाहुल्यं विवृणोति--
दह्यते गिरिरध्वासौ, याति स्रवति कुण्डिका ।
इत्यादिपचारोऽस्मिन्, बाहुल्येनोपलभ्यते ॥ २६ ॥ नयामृत-दह्यत इति । 'असौ गिरिदह्यते' अत्र गिरिपदस्य गिरिस्थतृणादौ लक्षणा, भूयोदग्धत्वप्रतीतिः प्रयोजनम् । 'असावध्वा याति' अनाध्वपदस्याध्वनि गच्छति पुरुषसमुदाये लक्षणा, नैरन्तर्यप्रतीतिः प्रयोजनम् । 'कुण्डिका स्रवति' इत्यत्र कुण्डिकापदस्य कुण्डिकास्थजले लक्षणा, निविडस्वप्रतीतिः प्रयोजनम् । सर्वत्रोद्देश्यप्रतीतिर्लक्ष्यार्थे मुख्यार्थाभेदाध्यवसायात्मकव्यञ्जनामहिम्ना व्युत्पत्तिमहिना वेति विवेचितमन्यत्रेत्यादिरूपचारः- गौणः, अस्मिन्- व्यवहारनये, बाहुल्येन- इतरनया. पेक्षया भूनोपलभ्यते ॥ २६ ॥ विस्तृतार्थ विवृणोति
विस्तृतार्थों विशेषस्थ, प्राधान्यादेष लौकिकः।
पञ्चवर्णादिभृङ्गादौ, श्यामत्वादिविनिश्चयात् ॥ २७ ॥ नयामृत०-विस्तृतार्थ इति । विशेषस्य प्राधान्यादेष विस्तृतार्थः, तत्प्राधान्यं च व्यक्तिष्वेवो. पयुक्ततया सङ्केताश्रयणादिना बोध्यम् , तथा वस्तुतः पञ्चवर्णावयवारब्धशरीरत्वेन पञ्चवर्णादिमति भृङ्गादौ श्यामत्वादेरेव विनिश्चयादेष लौकिका, यथा हि लोको निश्चयतः पञ्चवर्णेऽपि भ्रमरे कृष्णवर्णत्वमेवाङ्गीकरोति तथाऽयमपीत्यस्य लौकिकसमत्वमिति नयविदः। न च ' कृष्णो भ्रमरः' इत्यत्र
rarminurunni..wwmarronment............... ट्विंशतितमं पद्यमवतारयति-उपचारेति । विवृणोति- दह्यत इतीति । अत्र असौ गिरिर्दह्यत इति वाक्ये, घटकत्वं सप्तम्यर्थः, एवमग्रेऽपि । गिरिपदस्य गिरिस्थतृणादौ लक्षणा अनादितात्पर्यमूलकलक्षणालक्षणनिरूढलक्षणा न, किन्तु प्रयोजनवलक्षणास्वरूपाऽऽधुनिक्येवातः प्रयोजनमत्र वक्तव्यमित्यपेक्षायामाह-भूय इति। अत्र असावध्वा यातीति वाक्ये, 'निबिडत्वप्रतीतिः अस्य स्थाने 'अनिविडत्वप्रतीतिः' इति पाठः, यत इयमनिबिडा प्रशिथिलावयवा कुण्डिका अत एतनिहितं जलं बहिनिर्गच्छतीति । ननु लक्षणया वृत्त्या गिरिस्थतृणादीनामेव प्रतीतिरुपजायते, भूयोदग्धत्वादौ च गिरिपदादेन शक्ति वि लक्षणेति तत्प्रतीतिलक्षणं प्रयोजनं केन भवतीत्यपेक्षायामाह-सर्वत्रेति-दह्यते गिरिरित्याद्यपचरितयाक्यमात्रे इत्यर्थः । उद्देश्येति- उद्देश्या यदर्थ लाक्षणिकपदघटितवाक्योचारणं सा, सा चासौ प्रतीतिश्चोद्देश्यप्रतीतिः, प्रयोजनीभूता दग्धत्वादिप्रतीतिः । लक्ष्यार्थे गिरिस्थतृणादिरूपे, मुख्यार्थस्य- गिर्यादेः, अभेदाध्यवसाय:- अभेदारोपः, तदात्मिका या व्यजनावृत्तिस्तन्महिम्ना- तत्सामथ्र्थेन । वा अथवा, व्युत्पत्तिः- शब्दविशेषसमभिव्याहारलक्षणाकाहाज्ञानस्य शाब्दबोधविशेष प्रति कारणत्वज्ञानलक्षणा, तन्महिम्ना- तबलात्, नाक्तेभ्यो वाक्येभ्यः सर्वस्य प्रतिपत्तुरविशेषेण भूयोदग्धत्वप्रतीत्यादिरुपजायते, किन्तु शेमुषीबिशेषशालिन एवं प्रमातुरुक्तवाक्येभ्यो निरुक्तव्युत्पत्तिबलात् तथाप्रतीतिरुपजायते, तथा च व्यञ्जनावृत्त्युपगमे व्यन्जनाख्यवृत्त्यैवोद्देश्यप्रतीतिः, तदनभ्युपगमे चोक्तव्युत्पत्तिबलात् । एतद्विशेषप्रतिपत्तये विशेषजिज्ञासुभिरेतद्रहस्यावेदकं ग्रन्थान्तरमवलोकनीयमित्युपदेशाभिप्रायगाह-इति विवेचितमन्यत्रेति-'विवेचितमन्यत्रेत्यादिपचारः' इत्यस्य स्थाने 'विवेचितमन्यत्र, इत्यादिरुपचारः' इति पाठो बोध्यः, अन्यत् स्पष्टम् ॥ २६ ॥
विवृणोति-विस्तृतार्थ इतीति । एषः व्यवहारनयः, एवमग्रेऽपि, तत्प्राधान्यं च विशेषप्राधान्यं च, अस्य 'बोध्यम्' इत्यनेनान्वयः। लौकिक: लौकिकसमः । व्यवहारन यस्य लौकिक्रसमत्वमेव भावयति-यथा हीति । लोकः निश्चयनयानभिज्ञोऽपरीक्षको जनः, अस्य 'अजीकरोति' इत्यनेनान्वयः । निश्चयतः निश्चयनयेन, यद्यपि निश्चयनयेन भ्रमरः पञ्चवर्णस्तथापि व्यवहारो लौकिको व्यवहारनयमाश्रित्यैव प्रवर्तत इति व्यवहारकनिवद्धचेता लोको भ्रमरे कृष्णवर्णश्वमेव यथा स्वीकरोतीत्यर्थः । तथाऽयमपीति- व्यवहारोऽपि भ्रमरे कृष्णवर्णत्वमेव स्वीकरोतीत्यर्थः। इति एतस्मात्