________________
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
विद्यमानेतरवर्णप्रतिषेधाद् भ्रान्तत्वम् , अनुद्भूतत्वेनेतराविवक्षणात् तब्युदासेऽतात्पर्यात् , उद्भूतवर्णविवक्षाया एवाभिलापादिव्यवहारहेतुत्वात्, कृष्णादिपदस्योद्भूतकृष्णादिपरत्वाद् वा, अतात्पर्यज्ञं प्रत्येतस्याबोधत्वेनाप्रामाण्येऽपि तात्पर्यज्ञं प्रति प्रामाण्यात् , लोकव्यवहारानुकूलविवक्षाप्रयुक्तत्वेन च भावसत्यत्वाविरोधात्, अत एव 'पीतो भ्रमरः' इति न व्यवहारतो भावसत्यम् , लोकव्यवहाराननुकूलत्वात् , नापि निश्चयतः, पञ्चवर्णपर्याप्तिमति पञ्चवर्णप्रकारत्वाभावेनावधारणाक्षमत्वादित्यसत्यमेवेति दिक् ॥२७॥
ननु 'कृष्णो भ्रमरः' इति वाक्यवत् ‘पञ्चवर्णो भ्रमरः' इति वाक्यमपि कथं न व्यवहारनयानुरोधि ? तस्यापि लोकव्यवहारानुकूलत्वात् , आगमबोधितार्थेऽपि व्युत्पन्नलोकस्य व्यवहारदर्शनात् , लोकबाधितार्थबोधकवाक्यस्याव्यवहारकत्वे च ' आत्मा न रूपवान्' इत्यादिवाक्यस्याप्यव्यवहारकत्वाकारणात् । अस्य व्यवहारनयस्य। ननु 'कृष्णो भ्रमरः' इति यज्ज्ञानं तद् भ्रमरे कृष्णत्वमवभासयत् तत्र विद्यमानमपि कृष्णेतरवर्ण प्रतिक्षिपतीति भ्रान्तं तत् स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । कृष्णेतरवर्णस्य भ्रमरे सतोऽप्यनुद्भूतत्वेन विवक्षाभावादेव कृष्णवर्णप्रकारकत्रमरविशेष्यकं तज्ज्ञानम्, न तु कृष्णेतरवर्णाभावस्तत्र प्रतिभासते इति नास्य भ्रमत्वं तज्ज्ञानकारणीभूत कृष्णो भ्रमर 'इतिवाक्यप्रयोक्तुभ्रमरे कृष्पोतरवर्ण प्रतिषेधे तात्पर्याभावेन तत्र तत्प्रतिभासस्य वक्तुमशक्यत्वादिति निषेधहेतुमुपदर्शयति- अनुद्भतत्वेनेति । इतराविवक्षणात् कृष्णेतरवर्णाविवक्षणात् । तद्वयुदासे कृष्णेतरवर्णप्रतिषेधे । अतात्पर्यात 'कृष्णो भ्रमरः' इति वक्तुस्तात्पर्याभावात् । ननु यदि भ्रमरे कृष्णेतरवर्णो विद्यते तानुभूतोऽपि स यदि विवक्ष्यत तर्हि 'शुक्लो भ्रमरः, रक्तो भ्रमरः' इत्याद्यभिलापः स्यादेवेत्यत आह- उद्भतेति- तथा चानुद्धतवर्णविवक्षाऽपि यदि कस्यचित् स्यात् तदाप्यभिलापादिव्यवहारस्वरूपायोग्य न्या तयाऽनुद्भूतवर्णाभिलापादिव्यवहारो न स्यादेवेत्यर्थः । अथवा 'कृष्णो भ्रमरः' इत्यत्र कृष्णपदमुद्भुतकृष्णपरम् , तथा चोद्भूतकृष्णेतरोद्भूतरूपस्य व्युदासेऽपि न प्रमत्वं भ्रमरे कृष्णेतरोद्धृतरूपाभावादित्याह-कृष्णादिपदस्येति । य प्रतिपत्ता 'कृष्णो भ्रमरः' इत्यत्र 'कृष्णपदमुद्भूतकृष्णबोधनेच्छयोचरितम् ' इत्येवं तात्पर्य नावधारयति तस्योद्भूतकृष्णत्वप्रकारकभ्रमरविशेष्यकबोधस्योक्तवाक्यादजायमानत्वेन जायमानस्य च कृष्णेतररूपप्रतिक्षेपसंवलितकृष्णत्वबोधस्याप्रमात्वेनाप्रमात्मकोक्तबोधजनकत्वात् तमतात्पर्य प्रतिपत्तारं प्रत्युक्तवाक्यस्या प्रामाण्येऽपि यः प्रतिपत्ताऽत्र 'कृष्णपदमुद्भूतकृष्णबोधनेच्छयोच्चरितम्' इत्येवं तात्पर्यमवधारयितुं शक्नोति तस्योक्तवाक्यत उद्धृत कृष्णत्वप्रकारकभ्रमरविशेष्यकबोधस्य प्रमात्मकस्य जायमानत्वेन तादृशप्रमात्मकबोधजनकस्योक्तवाक्यस्य तं तात्पर्यज्ञ प्रतिपत्तारं प्रति प्रामाण्यं निराकुलमेवेलाह- अतात्पर्यनमिति । एतस्य 'कृष्णो भ्रमरः' इति वाक्यस्य । 'अबोधत्वेन' इति स्थाने 'अबोधकत्लेन' इति पाठो युक्तः, तस्य 'प्रमात्मकबोधजनकत्वाभावेन' इत्यर्थः । लोकेति- लोकस्य यो भ्रमरस्य कृष्णत्वेन व्यवहारस्तस्थानुकूला या विवक्षा- उद्भुतकृष्ण वर्णविवक्षा तत्प्रयुक्तत्वेन तजन्यत्वेन 'कृष्णो भ्रमरः' इति वाक्यस्य भावसत्यत्वाविरोधात् , भ्रमरस्य पञ्चवर्णत्वेऽपि कृष्णरूपमेव तत्रोद्भुतं न तु पीतादिकमित्युक्तविवक्षा वस्त्ववलम्बिनीति तजन्यस्योक्तवाक्यस्य भावसत्यत्वाविरोधाभावादित्यर्थः । अत एव लोकव्यवहारानुकूलविवक्षाप्रयुक्तत्वस्य भावसत्यत्वनियामकत्वादेव । नाऽपि निश्चयत इति- निश्च यनयतोऽपि 'पीतो भ्रमरः' इति वाक्यं न भावसत्यमित्यर्थः । तत्र हेतुमाह-पञ्चवर्णपर्याप्तिमतीति- भ्रमर इति शेषः । अवधारणाक्षमत्वादिति- कृष्णो भ्रमरः' इत्यत्र कृष्णपदस्योद्वतकृष्णपरत्वेन 'कृष्ण एवं भ्रमरः' इत्यवधारणं सम्भवति, भ्रमरस्य पञ्चवर्णत्वेऽपि कृष्णस्यैवोद्भूतत्वादिति भवति तस्य निश्चयतोऽपि प्रामाण्यम् , तथा 'पञ्चवर्णो भ्रमरः' इत्यत्राऽपि 'भ्रमरः पञ्चवर्ण एवं' इत्यधारणं सम्भवति, पञ्चवर्णपर्याप्तिमति भ्रमरे पञ्चवर्णलक्षणप्रकारस्यावधारणोपपत्तेः, 'पीतो भ्रमरः' इत्यत्र 'पीत एव भ्रमरः' इत्यवधारणं न सम्भवति, पञ्चवर्णपर्याप्तिमत्येकवर्णमात्रपर्याप्तरसम्भवात् , अतो व्यवहारतो निश्चयतश्चासत्यमेव 'पीतो भ्रमरः । इति वाक्यमित्यर्थः ॥ २७ ॥
अष्टाविंशतितमं पद्यमवतारयति-नन्वित्यादिना । तस्यापि 'पञ्चवर्णो भ्रमरः' इति वाक्यस्यापि । ननु रथ्यापुरुषादिस्वरूपलोकव्यवहारानुकूलत्वं 'पञ्चवर्णो मरः' इति वाक्यस्य नास्तीत्यत आह-आगमेति-भ्रमरगतपञ्चवर्णात्मकोऽर्थ आगमबोधितस्तस्मिन्नपि । व्युत्पन्नलोकस्य आगमार्थावबोधलक्षणव्युत्पत्तिमत: परीक्षकादिलोकस्य । ननु यद्यपि भ्रमर. गतपञ्चवर्णलक्षणोऽर्थ आगमबोधितस्तथाऽपि स लोकबाधितः, लोके 'पञ्चवर्णो भ्रमरो न' इत्येवं बाधदर्शनात् , तथा च