Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
कार्येण येनायव्यापार विनैव न तज्जन्यत इति, न च व्यापारमन्तरेणार्थक्रिया नोपपत्तिमती, व्यापारेणैव व्यभिचारादिति विभावनीयम् । अथानष्टात् कारणादुपजायमाने कार्ये कार्य-कारणयोः सहभावप्रसक्तिः, नष्टाञ्च कारणात् कार्योत्पत्त्यभ्युपगमे तृतीयक्षणे तत्प्रसङ्गः, तथाहि-प्रथमे क्षणे कारण. सत्ता, द्वितीये तद्विनाशः, तृतीये च कार्योत्पत्तिरिति चेत् ? न-यथैव कारणविनाशस्तत्सत्तापूर्वको नष्टाद् भवति तथैव तत्समानकालं कार्य नष्टात् कारणाद् भविष्यतीति दोषाभावात् ; बतैवं विनाशोऽपि हेतुमान् स्यादिति चेत् ? न-नीरूपत्वेन तत्र हेतुव्यापार(रा)सम्भवात् , तदुपन्यासस्यात्र व्यवधायककालासम्भवदर्शनार्थत्वात् , ततो द्वितीयक्षणे कारणं नश्यति कार्य चोपजायत इति कुतस्तयोः सहभाव. प्रसक्तिः , तदुक्तम्-~"अनष्टाज्जायते कार्य हेतुश्चान्योऽपि तत्क्षणम् । क्षणिकत्वात् स्वभावेन तेन नास्ति सह स्थितिः" ॥
] इति । अत्र चाविद्धकर्णोद्योतकरादिभियंदुक्तं " यदि तुलान्तयो मनोन्नमनवत् कार्योत्पत्तिकाल एव कारण विनाशस्तदा कार्यकारणभावो न भवेत् , यतः कारणस्य विनाशः कारणोत्पाद एव " उत्पाद एक कारणमित्याशयः । येन अपराधेन । तत् कार्यम् । व्यापारेणैवेति- व्यापारोऽपि अर्थक्रियैत्र, स च व्यापारमन्तरेणैव भवतीति व्यापारमन्तरेणार्थक्रिया न भवतीति नियमस्तत्रैव व्यभिचारान्न सम्भवतीत्यर्थः। ननु क्षणभङ्गपक्षे नष्टादमष्टाद वा कारणात् कार्यजन्मनो न सम्भवः, यतः प्रथमक्षण एव कारणमनष्टमिति तदानीमेव यदि कार्यजन्मोपेयते तदा यदैव कारणमुत्पद्यते तदैव कार्यमप्युत्पद्यत इति स्यात्, न चैवं सम्भवति- सहभाविनोः सव्येतरगोविषाणयोरिव कार्यकारणभावाभावात् , नष्टात् कारणात् कार्यजन्म तु प्रथमक्षणे कारणमुत्पद्यते द्वितीयक्षणे विनश्यतीति द्वितीयक्षणे तनष्टमतस्तृतीयक्षणे ततो नष्टात् स्यात्, एवं सति कारणव्यक्ति- कार्यव्यक्तधोरेकेन क्षणेन व्यवधानादव्यवहितकारण कार्यक्षणपरम्परालक्षणसन्तति. रुत्सन्ना स्यादिति शङ्कते- अथेति । तत्प्रसङ्गः कार्योत्पत्तिप्रसङ्गः। तृतीयक्षणे कार्योत्पत्तिप्रसकमेव भावयति-तथाहीति । तद्विनाशः कारणविनाशः । नष्टात् कारणात् कार्यात्पत्त्यभ्युपगम एव, एवमपि द्वितीयक्षण गुव कायजन्म, यथा ध्वंसं प्रति प्रतियोगिनः कारणत्वमिति नष्टात् कारणात् तद्धसो भवन्नपि द्वितीयक्षण एव भवति तथैव नष्टात् कारणाद् भवदपि कार्य द्वितीयक्षण एव भवतीत्येवमुपगमे दोषाभावादिति समाधत्ते-नेति । तत्सत्तापूर्वका कारणसत्तापूर्वकः । तत्समानकालं कारणविनाशसमकालम् । नन्वहेतुको विनाशो भावोत्पत्त्यनन्तरमेव भवतीति सिद्धान्तः क्षणभङ्गवादिनो विनाशस्य हेतुमत्त्वाभ्युपगमे भज्यतेति शङ्कते- बतैवमिति-बतेति खेदे, खिद्यते मे मनः सूक्ष्मेक्षणविदग्धस्यापि परस्यैवं खसिद्धान्तविरुद्धं प्रलपतः किमयं बुद्धिच्यामोह इति भावयतः । एवं विनाशस्य कारणसत्तापूर्वकत्वाभ्युपगमे । समाधत्तेनेति । नीरूपत्वेन तुच्छत्वेन । तत्र ध्वंसे । यदि हेतुव्यापारी वसे नास्ति तहिं कथं दृष्टान्ततया तदुपन्यास इत्यत आह-तदुपन्यासस्येति । अत्र कारण कायोः, यथा कारण-तद्विनाशयोर्न व्यवधायकः कालस्तथा कारण-कार्ययोरपि न व्यवधायकः काल इत्यवगत्यर्थमेव तदुपन्यास इति । एवं च सति यत् सिद्धं तदाह- तत इति । तयोः कारणकार्ययोः । उक्तार्थे वृद्धधौद्धवचनसंवादमाह- तदुक्तमिति । “अनष्टाजायते कार्यम्" इति पयस्वारस्यात् 'यथैव.' इत्यादिप्रन्थोऽपि 'यथैव कारणविनाशस्तत्सत्तापूर्वकोऽनष्टाद्भवति तथैव तत्समानकालं कार्यमनष्टात् कारणाद् भविष्यतीति दोषाभावाद' इत्येवंरूपोऽवसेयः, तदवतरणेऽपि 'नष्टाद्' इत्यस्य स्थाने 'अनष्टाद्' इत्येव वाच्यमिति बोध्यम् , 'हेतुश्चान्योऽपि तत्क्षणम्' इत्यस्य स्थाने हेतुर्नान्वेति तत्क्षणम्' इति पाठो युक्तः, तस्य कार्याधिकरणक्षणं हेतुर्न संबनातीत्यर्थः। अत्र च इत्थं क्षणिकवाद्युपगतपदार्थतत्त्वे पुनः । 'यदुक्तम्' इत्यस्य 'निरस्तम्' इत्यनेनान्वयः । अविद्धकर्णाद्युक्तिमेवोल्लिखति-यदीत्यादिना। तुलान्तयोः तुलाकोटयोः । नमनोन्नमनयत् अधिकगुरुत्ववन्मीयमानधान्यादिसम्बन्धाद् यदैवैककोटेनमनं तदैव तदल्पप्रमाणवस्तुसम्बन्धादपरकोटेरुन्नमन मिति समकालीनत्वं नमनोनमनयोः, एवमेव यदा कार्यात्पत्तिस्तदैव कारण

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210