Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१४२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
मुख्यतयोत्पत्तित्वेन सहेतुकत्वव्यवहारः, नाशत्वेन चाभावमुख्यतयाऽहेतुकत्वव्यवहारः, उत्पत्तिव्यवहार विकल्पसमनन्तरप्रत्यक्षं चाद्यान्तक्षण योरेव, परेषां प्रागभाव-ध्वंसप्रत्यक्षयोः प्रतियोगिव्याप्यसन्निकर्षाणां हेतुत्वकल्पनापेक्षया अस्माकमुत्पत्ति-ध्वंसनिश्चये विलक्षणहेतुताकल्पन एव लाघवात् , अत एव भ्रान्तिकारणविगमादन्ते प्रत्यक्ष निबन्धनः क्षणक्षयनिश्चय उत्पद्यत इति सौगत इति दिक् ।
इदं च शुद्धपर्यायास्तिकनयमतम् , तदवान्तरभेदास्तु यावदपश्चिमविकल्पनिर्वचनं द्रव्यार्थिकावा. न्तरभेदवत् न्यायसिद्धा नानाविधा अभ्युपगन्तव्याः। अथैवं पश्चिमविकल्पनिर्वचनतया माध्यमिकदर्शनप्रवर्तक एवम्भूत एव शुद्धपर्यायार्थिकः स्यात् , इध्यते चर्जुसूत्रोऽपि शुद्धपर्यायाथिक इति कथमिय व्यवस्थेति चेत् ? क्षणिकविषयताव्यापकपर्यायविषयताशाली शुद्धपर्यायार्थिक इति परिभाषाश्रयणादिति साफल्यमचतीति तद्रूपेणाहेतुक एवं ध्वस इति तन्नाहेतुकत्व व्यवहारो घटत इति विवेकः । ननु क्षणक्षयमते विशरारुक्षणप्रवाहलक्षणसन्ततिरूपे द्रव्येऽभ्युपगम्यमाने प्रतिक्षणमुत्तरपर्यायस्थोत्पत्तिः पूर्वपर्यायस्य च विनाश इति किमित्युत्पत्तिविनाशव्यवहार-विकल्पो प्रतिक्षणं न भवतः, व्यवहर्तव्यस्य विकल्प्यस्य च प्रतिक्षणमेव भावेन तादृशव्यवहारविकल्पानुगुणाविकल्पात्मकसमनन्तरप्रत्यक्षस्यापि प्रतिक्षणं सम्भवात् , सन्ततेराधक्षण एवोत्पत्तिव्यवहार विकल्पो सन्ततेरन्त्यक्षण एव च नाशविकल्प-व्यवहारावित्यपि कथमित्यत आह-उत्पत्तीति - अत्र 'उत्पत्तिव्यवहार-विकल्पसमनन्तरप्रत्यक्षं चाद्यातक्षणयोरेव' इत्यस्य स्थाने ' उत्पत्ति-विनाशव्यवहार-विकल्पहेतुसमनन्तरप्रत्यक्षं चाद्यान्त्यक्षणयोरेव' इति पाठो युक्तः, तदर्थश्च-उत्पत्ति-विनाशयोयों व्यवहार-विकल्पौ तयोर्हेतुर्यत् समनन्तरप्रत्यक्षं तच्चाद्यान्त्यक्षणयोरेव सन्ततेराद्यान्त्यक्षणयोरेव, सन्ततेराद्यक्षणे उत्पत्तिव्यवहार-विकल्पहेतुसमनन्तरप्रत्यक्षं भवति, ततः सन्ततेराधक्षणाव्यवहितोत्तरक्षणे उत्पत्तिव्यवहारविकल्पौ भवतः, सन्ततेरन्त्यक्षणे विनाशव्यवहार-विकल्पहेतुसमनन्तरप्रत्यक्षं भवति, ततः सन्ततेरन्त्यक्षणाव्यवहितोत्तरक्षणे नाशव्यवहार-विकल्पो भवत इति । ननूत्पत्तिनिश्चयं प्रति सन्तत्याचक्षणभाविसमनन्तरप्रत्यक्षस्य कारणत्वम् , विनाशनिश्चयं प्रति सन्तत्यन्त्यक्षणोपजातसमनन्तरप्रत्यक्षस्य च कारणत्वमित्येवं कार्यकारणभावकल्पने पर्यायवादिनो गौरवं स्यादित्यत आह-परेषामिति- स्थिरवादिनां नैयायिकादीनामित्यर्थः। 'प्रतियोगिव्याप्यसन्निकर्षाणाम' इत्यस्य स्थाने 'प्रतियोगि. तस्याप्येतरयावत्प्रतियोग्युपलम्भकसन्निकर्षादीनाम्' इति पाठः समीचीनः, अत्र प्रतियोग्युपलम्भकयत्किञ्चित्सन्निकर्षादिसत्त्वे प्रागभाचादिप्रत्यक्षं न भवतीत्यतो यावदिति, प्रतियोगिनो घटादेः प्रत्यक्षे विषयविधया प्रतियोग्यपि कारणमिति यावत्प्रतियोग्युपलम्भकसन्निकर्षादिमध्ये प्रतियोगिनोऽपि प्रवेशः स्यात्, न च प्रतियोगी स्वप्रागभावध्वंसप्रत्यक्षे कारणमिति प्रतियोगीतरत्वं यावत्प्रतियोग्युपलम्भके विशेषणम् , एवमपि प्रतियोगिप्रत्यक्षे प्रतियोगिना सहेन्द्रियसन्निकर्षा-ऽऽलोकसंयोग-महत्त्वोद्भतरूपादिसम्बन्धानामपि कारणत्वेन प्रतियोगीतरयावत्प्रतियोग्युपलम्भकमध्ये तेषामपि प्रवेशः, न च ते प्रागभाव-ध्वंसप्रत्यक्ष कारणमतः प्रतियोगिव्याप्येतरत्वं यावत्प्रतियोग्युपलम्भके विशेषणम् , प्रतियोगिना सहेन्द्रियसन्निकर्षादयश्च प्रतियोगिव्याप्या एवेति तेषां वारणमिति बोध्यम् । अस्माकम् क्षणक्षयवादिनाम् । उत्पत्तिध्वंसनिश्चये उत्पत्तिनिश्चये ध्वंसनिश्चये च । विलक्षणेति-सन्तत्याचक्षणोत्पन्नसमनन्तरप्रत्यक्षस्योत्पत्तिनिश्चयं प्रति हेतुताकल्पने सन्तत्यन्त्यक्षणोत्पन्नसमनन्तरप्रत्यक्षस्य ध्वंसनिश्चयं प्रति हेतुताकल्पने च लाघवादित्यर्थः । अत एव सन्तत्यन्त्यक्षणोत्पन्नसमनन्तरप्रत्यक्षस्य ध्वंसनिश्चयं प्रति हेतुत्वादेव ! भ्रान्तिकारणविगमात् अभेदभ्रमकारणस्य स्वानन्तरसुसदृशोत्पादस्य विगमात् । अन्ते सन्ततेरन्त्यक्षणे । प्रत्यक्षनिबन्धनः क्षणिकस्वलक्षणप्रत्यक्षात्मकसमनन्तरप्रत्यक्षनिबन्धनः । इति सौगतः एवं बौद्धः, अभ्युपगच्छतीति शेषः ।
इदं च अनन्तरोपवर्णितं च, एतावता शुद्धपर्यायास्तिकनयसामान्यमतमुपदर्शितम् , अन्तिम विकल्पनिर्वचनपर्यन्तं तु नानाप्रकारा युक्तिसिद्धाः शुद्धपर्यायास्तिकनयावान्तरभेदाः स्वीकर्तव्या यथा द्रव्यार्थिकनयान्तरभेदा अपश्चिमविकल्पनिर्वचनं यावत् स्वीकृता भवन्तीत्याह- तदवान्तरभेदास्त्विति- शुद्धपर्यायास्तिकनयावान्तरभेदाः पुनः, अस्य 'न्यायसिद्धा नानाविधा अभ्युपगन्तव्याः' इत्यनेनान्वयः । तटस्थः शङ्कते-अथैवमिति । एवं पश्चिमविकल्पमन्त्यविशेषं विहायान्यविशेषेष्वपि द्रव्यार्थिकनयप्रवृत्त्युपगमे, तथा चान्त्यविशेषातिरिक्तविशेषः स्वविशेषापेक्षया सामान्यमिति द्रव्यनयविषयः स्वसामान्यापेक्षया

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210