Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 171
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । ----- १४५ " 33 "" "जीवो गुणपत्रिन्नो नयस्स दव्वट्ठिअस्स सामइयं । सो चेव पज्जवद्विअणयरस जीवरस एस गुणो ||" [ विशेषावश्यक नियुक्तिगाथा - २६४३ ] ॥ इत्यत्रै नयस्येतरा समानविषयत्व भौव्यमुद्भाव्य भिन्नाभिन्नद्रव्य पर्यायोभयग्राहके (क) नयद्वयवादिव्याख्यातृमतं भाष्यकृता निरस्तमिति चेत् ? तत्र किं सामायिकं गुणो द्रव्यं वा इति शुद्धगुणत्वद्रव्यत्वान्यतरप्रकारकजिज्ञासायां शुद्धद्रव्यास्तिक-पर्यायास्तिकन ययोरेवाश्रयणस्य युक्तत्वात्, अवान्तरभेदाश्रयणे तादृशजिज्ञासाया अनिवृत्तिप्रसङ्गादिति बोध्यम् । अत एवैकैकस्योभयविषयकत्वाभ्युपगमे संयोगस्योक्तजिज्ञासाऽनिवर्तकाधिकविषयानुपकत्वेनानतिप्रयोजनत्वमेव दोषो भाष्यकृतोद्भावितः, अन्यथा तु प्रत्येकमेकैकविषयत्वेऽप्युभयोर्मिलनस्य स्यात्कारलाञ्छनेन सम्यक्त्वापादनं यत् प्रयोजनं तस्य प्रत्येकनियममाश्रित्य माष्यकृता जीवो गुणपडिवन्नो ० इत्यादिमाथाव्याख्याकर्तुः पर्यायार्थिको भिन्नद्रव्य पर्याय द्रव्यार्थिकोऽभिन्नद्रव्य-पर्यायोभयग्राहक इत्येवं भिन्नाभिन्नद्रव्य पर्यायोभयग्राहकद्रव्यार्थिक पर्यायार्थिकनयद्वयवादिनो मर्त कथं प्रतिक्षिप्तमिति शङ्कते - कथमिति - अस्य 'निरस्तम्' इत्यनेनान्वयः । जीवो० इति - " जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकम् । स एव च पर्यवार्थिकनयस्य जीवस्यैष गुणः ' ॥ इति संस्कृतम् । अत्र एतगाथा व्याख्याने । एकैकेति -- द्रव्यार्थिको नयः पर्यायार्थिकनयासमानविषय एव पर्यायार्थिको नयो द्रव्यार्थिकनयासमानविषय एवेत्येवमुद्धा - व्येत्यर्थः । भिन्नति - प्रत्येकं भिन्नद्रव्यपर्यायोभयग्राहकमभिन्नद्रव्य पर्यायोभयग्राहकं यन्त्रयद्वयं तद्वादी यो व्याख्याता तस्य मतमित्यर्थः । " जीवो गुणपडिवो." इति गाथा यादृशजिज्ञासानिवृत्त्यर्थमुपदिष्टा सा जिज्ञासा शुद्धद्रव्यास्तिकनयाश्रयणेन शुद्धपर्यायास्तिकनयाश्रयणेन चोक्तगाथाव्याख्यानत एव निवर्तयितुं शक्या नान्यथेत्यतो द्रव्य-पर्यायोभयविषयकद्रव्यार्थिक- पर्यायार्थिकनयावान्तरन्याश्रयणेन व्याख्यानं नास्या युक्तमित्याशयेनैव भाष्यकृता तन्मतं व्युदस्तमिति समाधत्ते - तत्रेति- “ जीवो गुणपडिवन्नो ० " इति गाथाव्याख्यायामित्यर्थः । तादशजिज्ञासायाः शुद्धगुणत्व द्रव्यत्वान्यतरप्रकारकजिज्ञासायाः, स्वविषयसिद्धयैव जिज्ञासानिवृत्तिः प्रकृतजिज्ञासाविषयश्च शुद्धगुणत्व द्रव्यत्वान्यतर प्रकारकसामायिकविशेष्यकज्ञानम्, तच 'गुणः सामायिकं द्रव्यं सामायिकम्' इत्येवंरूपमेव नतु जीवभिन्नगुणः सामायिक जीवाभिन्नगुणः सामायिकम् ' इत्येवंरूपमिति तादृशज्ञानजनकाचान्तरन्याश्रित व्याख्यानस्योक्तजिज्ञासानिवर्तकतद्विषयसिद्धयनङ्गत्वेन युक्तत्वमित्याशयवतो भाध्यकृतो भिन्नाभिन्नद्रव्य पर्यायोभयग्राहकनयद्वयवादिव्याख्यातृमतखण्डनं नायुक्तमित्यर्थः । अत एव अवान्तरनयभेदाश्रयणेन व्याख्यानस्योक्तजिज्ञासाविषयसिद्ध्यनाधायकत्वेनो रू जिज्ञासानिवर्तकत्वाभावादेव । एकै कस्य प्रत्येकं द्रव्यार्थिकस्य पर्यायार्थिकस्य च । उभयविषयकत्वाभ्युपगमे द्रव्य-पर्यायोभयविषयकत्वाभ्युपगमे । संयोगस्य द्रव्यनयविषये पर्यायनयविषयसंयोजनस्य पर्यायनयविषये द्रव्यनयविषयसंयोजनस्य च । 'विषयानुपकत्वेन' इत्यस्य स्थाने 'विषयानुमापकत्वेन ' इति पाठः ' विषयाधायकत्वेन ' इति वा पाठो भवितुमर्हति उक्तजिज्ञासाया अनिवर्तको योऽधिकविषयस्तदनुमापकत्वेन तदाधायकत्वेन वेत्यर्थः । अनतिप्रयोजनत्वमेव विशिष्टप्रयोजनत्वाभाव एव, यदि संयोजनेऽकृते उक्तजिज्ञासा न निवर्तेत, कृते च संयोजने सा निवर्तेत तदा संयोगस्य विशिष्टप्रयोजनत्वं स्यात्, न चैवम् कृते संयोजने योऽधिकविषयः स जिज्ञासाया अनिवर्तक एवैत्यर्थः, 'अनतिप्रयोजनत्वमेव ' इत्येवकारेण सामान्यतो निष्प्रयोजनत्वस्य व्यवच्छेदः, सामान्यतो निष्प्रयोजनत्वस्य संयोगेऽभावादेव न तद्दोषतया भाष्यकृतोद्भावितमित्यर्थः । अथवा "विषयानुपधायकत्वेन ' " इत्येव पाठः, 'जिज्ञासानिवर्तक इत्यत्र जिज्ञासानिवर्तक' इत्यकारप्रश्छेषो न कार्यः, तथा वैकस्योभयविषयकत्वाभ्युपगमे संयोजनेऽप्युभयविषयकत्वमेव भवति, तच स्वभावत एव प्राप्तमिति संयोगस्योभयनयमेलनस्य जिज्ञासानिवर्तको योऽधिकविषय:- प्रत्येकनयविषयातिरिक्तविषयस्तस्यानुपधायकत्वेन - असमर्पकत्वेन, अनतिप्रयोजनत्वमेव - विशिष्टप्रयोजनाभाववत्त्वमेव दोषो भाष्यकृतोद्भावित इत्यर्थः । अन्यथा उक्तरीत्या निरुक्तजिज्ञासाऽनिवर्त करवेनानतिप्रयोजनत्वस्य दोषत्वं संयोगेऽनभ्युपेत्य सामान्यतो निष्प्रयोजनत्वस्य दोषतयोपगमे । सामान्यतो निष्प्रयोजनत्वस्य तत्राभावादेव तस्य दोषत्वं न सम्भवतीत्यवगतये एकैकस्योभयविषयकत्वाभ्युपगमेऽपि संयोगस्य सप्रयोजनत्वमुपपादयति- प्रत्येकमिति - केवलस्य द्रव्यार्थिकस्य द्रव्यमात्रविषयकत्वं केवलस्य पर्यायार्थिकस्य पर्यायमात्रविषयक - १९

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210