________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
-----
१४५
"
33
""
"जीवो गुणपत्रिन्नो नयस्स दव्वट्ठिअस्स सामइयं । सो चेव पज्जवद्विअणयरस जीवरस एस गुणो ||" [ विशेषावश्यक नियुक्तिगाथा - २६४३ ] ॥ इत्यत्रै नयस्येतरा समानविषयत्व भौव्यमुद्भाव्य भिन्नाभिन्नद्रव्य पर्यायोभयग्राहके (क) नयद्वयवादिव्याख्यातृमतं भाष्यकृता निरस्तमिति चेत् ? तत्र किं सामायिकं गुणो द्रव्यं वा इति शुद्धगुणत्वद्रव्यत्वान्यतरप्रकारकजिज्ञासायां शुद्धद्रव्यास्तिक-पर्यायास्तिकन ययोरेवाश्रयणस्य युक्तत्वात्, अवान्तरभेदाश्रयणे तादृशजिज्ञासाया अनिवृत्तिप्रसङ्गादिति बोध्यम् । अत एवैकैकस्योभयविषयकत्वाभ्युपगमे संयोगस्योक्तजिज्ञासाऽनिवर्तकाधिकविषयानुपकत्वेनानतिप्रयोजनत्वमेव दोषो भाष्यकृतोद्भावितः, अन्यथा तु प्रत्येकमेकैकविषयत्वेऽप्युभयोर्मिलनस्य स्यात्कारलाञ्छनेन सम्यक्त्वापादनं यत् प्रयोजनं तस्य प्रत्येकनियममाश्रित्य माष्यकृता जीवो गुणपडिवन्नो ० इत्यादिमाथाव्याख्याकर्तुः पर्यायार्थिको भिन्नद्रव्य पर्याय द्रव्यार्थिकोऽभिन्नद्रव्य-पर्यायोभयग्राहक इत्येवं भिन्नाभिन्नद्रव्य पर्यायोभयग्राहकद्रव्यार्थिक पर्यायार्थिकनयद्वयवादिनो मर्त कथं प्रतिक्षिप्तमिति शङ्कते - कथमिति - अस्य 'निरस्तम्' इत्यनेनान्वयः । जीवो० इति - " जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकम् । स एव च पर्यवार्थिकनयस्य जीवस्यैष गुणः ' ॥ इति संस्कृतम् । अत्र एतगाथा व्याख्याने । एकैकेति -- द्रव्यार्थिको नयः पर्यायार्थिकनयासमानविषय एव पर्यायार्थिको नयो द्रव्यार्थिकनयासमानविषय एवेत्येवमुद्धा - व्येत्यर्थः । भिन्नति - प्रत्येकं भिन्नद्रव्यपर्यायोभयग्राहकमभिन्नद्रव्य पर्यायोभयग्राहकं यन्त्रयद्वयं तद्वादी यो व्याख्याता तस्य मतमित्यर्थः । " जीवो गुणपडिवो." इति गाथा यादृशजिज्ञासानिवृत्त्यर्थमुपदिष्टा सा जिज्ञासा शुद्धद्रव्यास्तिकनयाश्रयणेन शुद्धपर्यायास्तिकनयाश्रयणेन चोक्तगाथाव्याख्यानत एव निवर्तयितुं शक्या नान्यथेत्यतो द्रव्य-पर्यायोभयविषयकद्रव्यार्थिक- पर्यायार्थिकनयावान्तरन्याश्रयणेन व्याख्यानं नास्या युक्तमित्याशयेनैव भाष्यकृता तन्मतं व्युदस्तमिति समाधत्ते - तत्रेति- “ जीवो गुणपडिवन्नो ० " इति गाथाव्याख्यायामित्यर्थः । तादशजिज्ञासायाः शुद्धगुणत्व द्रव्यत्वान्यतरप्रकारकजिज्ञासायाः, स्वविषयसिद्धयैव जिज्ञासानिवृत्तिः प्रकृतजिज्ञासाविषयश्च शुद्धगुणत्व द्रव्यत्वान्यतर प्रकारकसामायिकविशेष्यकज्ञानम्, तच 'गुणः सामायिकं द्रव्यं सामायिकम्' इत्येवंरूपमेव नतु जीवभिन्नगुणः सामायिक जीवाभिन्नगुणः सामायिकम् ' इत्येवंरूपमिति तादृशज्ञानजनकाचान्तरन्याश्रित व्याख्यानस्योक्तजिज्ञासानिवर्तकतद्विषयसिद्धयनङ्गत्वेन युक्तत्वमित्याशयवतो भाध्यकृतो भिन्नाभिन्नद्रव्य पर्यायोभयग्राहकनयद्वयवादिव्याख्यातृमतखण्डनं नायुक्तमित्यर्थः । अत एव अवान्तरनयभेदाश्रयणेन व्याख्यानस्योक्तजिज्ञासाविषयसिद्ध्यनाधायकत्वेनो रू जिज्ञासानिवर्तकत्वाभावादेव । एकै कस्य प्रत्येकं द्रव्यार्थिकस्य पर्यायार्थिकस्य च । उभयविषयकत्वाभ्युपगमे द्रव्य-पर्यायोभयविषयकत्वाभ्युपगमे । संयोगस्य द्रव्यनयविषये पर्यायनयविषयसंयोजनस्य पर्यायनयविषये द्रव्यनयविषयसंयोजनस्य च । 'विषयानुपकत्वेन' इत्यस्य स्थाने 'विषयानुमापकत्वेन ' इति पाठः ' विषयाधायकत्वेन ' इति वा पाठो भवितुमर्हति उक्तजिज्ञासाया अनिवर्तको योऽधिकविषयस्तदनुमापकत्वेन तदाधायकत्वेन वेत्यर्थः । अनतिप्रयोजनत्वमेव विशिष्टप्रयोजनत्वाभाव एव, यदि संयोजनेऽकृते उक्तजिज्ञासा न निवर्तेत, कृते च संयोजने सा निवर्तेत तदा संयोगस्य विशिष्टप्रयोजनत्वं स्यात्, न चैवम् कृते संयोजने योऽधिकविषयः स जिज्ञासाया अनिवर्तक एवैत्यर्थः, 'अनतिप्रयोजनत्वमेव ' इत्येवकारेण सामान्यतो निष्प्रयोजनत्वस्य व्यवच्छेदः, सामान्यतो निष्प्रयोजनत्वस्य संयोगेऽभावादेव न तद्दोषतया भाष्यकृतोद्भावितमित्यर्थः । अथवा "विषयानुपधायकत्वेन ' " इत्येव पाठः, 'जिज्ञासानिवर्तक इत्यत्र जिज्ञासानिवर्तक' इत्यकारप्रश्छेषो न कार्यः, तथा वैकस्योभयविषयकत्वाभ्युपगमे संयोजनेऽप्युभयविषयकत्वमेव भवति, तच स्वभावत एव प्राप्तमिति संयोगस्योभयनयमेलनस्य जिज्ञासानिवर्तको योऽधिकविषय:- प्रत्येकनयविषयातिरिक्तविषयस्तस्यानुपधायकत्वेन - असमर्पकत्वेन, अनतिप्रयोजनत्वमेव - विशिष्टप्रयोजनाभाववत्त्वमेव दोषो भाष्यकृतोद्भावित इत्यर्थः । अन्यथा उक्तरीत्या निरुक्तजिज्ञासाऽनिवर्त करवेनानतिप्रयोजनत्वस्य दोषत्वं संयोगेऽनभ्युपेत्य सामान्यतो निष्प्रयोजनत्वस्य दोषतयोपगमे । सामान्यतो निष्प्रयोजनत्वस्य तत्राभावादेव तस्य दोषत्वं न सम्भवतीत्यवगतये एकैकस्योभयविषयकत्वाभ्युपगमेऽपि संयोगस्य सप्रयोजनत्वमुपपादयति- प्रत्येकमिति - केवलस्य द्रव्यार्थिकस्य द्रव्यमात्रविषयकत्वं केवलस्य पर्यायार्थिकस्य पर्यायमात्रविषयक -
१९