________________
१४४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
तस्मादितरनयार्थविषयसंयोजनोपयोगमुख्य-गौणत या स्व-परार्थग्राहिणामवान्तरभेदानां सम्यगदृष्टित्वं युज्यते, न तु स्वतन्त्रकल्पितोभयविषयग्राहिणां नैगमभेदामिति प्रतिपत्तव्यम् , अत एवं
द्रव्याथिकनय-" परिणामो ह्यन्तिरगमनं, न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्त द्विदामिष्टः ।।" [
] इति पर्यायास्तिकनये च-" सत्पर्यायेण विनाशः प्रादुर्भावोऽसता च पर्यायतः । द्रव्याणां परिणामः प्रोक्तः खलु पर्यवा न यस्थ ॥" [
] इति यत् परिणामलक्षणं परिणामपदव्याख्यायामुक्तं तदुपपद्यते, पूर्वत्र विशिष्टरूपेणोत्पाद-भङ्गयोः पर्याय. लक्षणस्योत्तरत्र चाधारतया धौव्यस्य द्रव्यलक्षणस्य संयोजनयोभयोरपि सम्यग्दृष्टित्वसिद्धेः, कथं तर्हिविभज्यमानावनेकान्तौ ॥ ३॥ यथैतौ तथाऽन्ये प्रत्येकं दुर्नया नयाः सर्वे ! हंदि हु मूलनययोः प्रज्ञापने व्यापृतास्तेऽपि ॥ ४॥ सर्वनय समूहेऽपि नास्ति नय उभयवादप्रज्ञापकः । मूलनययोस्त्वाज्ञां प्रत्येकविशेषितां ब्रवीति ॥५॥" इति संस्कृतम् ॥ केषाभिनयावान्तरभेदानां सम्यग्दृष्टित्वं केषाञ्चिच्छ मिथ्याष्टित्वं निगमनयन्नाह- तस्मादिति- इतरन यस्य योऽर्थस्तस्य विषये-स्वविषये यः संयोजनोपयोग:-संयोजनव्यापारस्तेन या मुख्यगौणता स्वविषयस्य मुख्यतयाऽवगाहन. मितरनयविषयस्य गौणतयाऽवगाहनं तया, स्वपराग्राहिणां स्वविषयस्य परनयविषयस्य च ग्राहिणाम् , मूलनयावान्तरभेदानां सम्यग्दृष्टित्वं युज्यते युक्त्या घटते, ये च नैगम भेदा न्यायादिनयमूलीभूता: स्वतन्त्रं- परस्परमत्यन्तभिन्नमत एव कल्पितं न तु वस्तुस्थित्या वस्त्वंशतया व्यवस्थितं यदुमय- सामान्यविशेषोभयं तद्रूपविषयस्य ग्राहिणस्तेषां नैगमविशेषाणां सम्यग्दृष्टित्वं न तु युज्यते, मिथ्यादृष्टय एव ते इति ज्ञातव्यमित्यर्थः । अत एवेति- 'अत एव इति यत् परिणामलक्षणं परिणामपदव्याख्यायामुक्तं तदुपपद्यते' इति सम्बन्धः, अत एव स्वविषये इतरनयविषयसंयोजनतो नयानां सम्यग्दृष्टित्वस्य युक्तत्वादेव। 'द्रव्यार्थिकनय' इत्यस्य स्थाने 'द्रव्यार्थिकनये' इति पाठो युक्तः, एतदुक्तिश्च 'परिणामो हार्थान्तरगमनम्' इति पद्यं द्रव्यार्थिकनयाभिप्रेतपरिणामलक्षणप्रतिपादकमित्यावेदनाय । तद्विदां परिणामस्वरूपज्ञानां द्रव्यार्थिकनयरहस्यज्ञानां वा, हि यतः, अर्थान्तरगमनं मृद्रव्यस्यैव घटादिलक्षणार्थान्तररूपेण गमनं मृद्रव्यमेव घटादिरूपं भवतीति यावत् , तदेव परिणाम इष्टः, सर्वथा व्यवस्थानं मृद्रव्यरूपतयैव सर्वदाऽवस्थानम् , सर्वथा विनाशः घटपर्यायभवनसमये मृहाव्यस्य मृद्राव्यरूपतयाऽपि विनाश एतद् द्वितयमपि परिणामो न चेष्ट इत्यर्थः । इति एवंस्वरूपम्, अस्य 'यत् परिणामलक्षणम्' इत्यनेनान्वयः, 'पर्यायास्तिकनये च' इत्यस्य 'इति यत् परिणामलक्षणम्' इत्यनेनान्वयः। पर्यायास्तिकनयाभिमतपरिणामलक्षण प्रतिपादक “सत्पर्यायेण" इत्यादि पद्यम् । 'पर्यायतः' इत्यस्य स्थाने 'पर्यायण' इति पाठः, 'खलु, पर्यवा नयस्य' इत्यस्य स्थाने 'खलु पर्यवनयस्य' इति पाठश्च युक्तः । पर्यवनयस्य पर्यायार्थिकनयस्य, ‘मते' इति शेषः । खल निश्चयेन । द्रव्याणां सत्यपर्यायण विनाशः मृदादिद्रव्याणां पूर्व यः सत्पयायो मृत्पिण्डादिलक्षणस्तद्रमेण विनाशः, असता च पर्यायेण पूर्वमविद्यमानो यो घटादिलक्षणपर्यायस्तद्रपेण, प्रादुर्भा T: आविर्भावः पूर्वपर्यायो नश्यति उत्तरपर्यायश्च प्रादुर्भवति, योऽयं पूर्वपर्यायविनाश उत्तरपर्यायप्रादुर्भावश्च स परिणामः प्रोक्तः प्रकर्षण कथितः । कुत्रेदं लक्षण नयभेदेन परिणामस्योपवर्णितमित्यपेक्षायामाह- परिणामपदव्याख्यायामुक्तमिति । तत् नयभेदेनोपदर्शितं परिणामलक्षणम् । अत एवोपपद्यते' इति यदुक्तं तदेव भावयति-पूर्वत्रेति- द्रव्यार्थिकनयाभिप्रेते परिणामो ह्यान्तरगमनम्' इति परिणामलक्षणे इत्यर्थः, विशिष्टरूपेणोत्पाद-भड्नयोः पर्यायलक्षणस्य संयोजनयत्यन्वयः, अर्थान्तरगमनं तदैव घटते मृद्रव्यस्यैव सतः पृथुबुनोदराद्याकारणोत्पादो मृत्पिण्डायाकारेण भङ्गश्च भवेत् , उत्पाद-भती च पर्यायलक्षणमिति तस्य द्रव्यार्थिकनयविषय या संयोजना तया द्रव्याधिकनयस्य सम्यग्दृष्टित्वसिद्धः, उत्तरत्र पर्यायार्थिकनयाभिप्रेते ' सत्पर्यायण विनाशः' इत्यादिपरिणामलक्षणे । च पुनः । आधारतया ध्रौव्यस्य द्रव्यलक्षणस्य 'द्रव्याणाम्' इत्युक्त्या पूर्वपर्यायविनाशोत्तरषायोत्यादयोराधारतया ध्रौव्यात्मकं द्रव्यं प्रतीयते, तथा च ध्रौव्यस्य द्रव्यलक्षणस्याधारतया या पर्यायनयविषये संयोजना तया पर्यायार्थिकन यस्य सम्यग्दृष्टित्वसिद्धेरित्येवमभयोव्याधिकपर्यायार्थिकनययोः सम्यादृष्टित्वसिद्धरित्यर्थः । ननु यदि द्रव्य-पर्यायनयावान्तरभेदानां मुख्य-गौणतया स्वपरार्थनाहित्वेन सम्यग्दृष्टित्वं तदा द्रव्यार्थिक-पर्यायार्थिकनययोद्धयोरपि समानविषयत्वमायातमिति तयोरसमानविषयत्व