________________
मयामृततरहिणी-सरक्रिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
१४३
गृहाण; नन्वेवं शुद्धद्रव्यार्थिकपर्यायार्थिकयोरितरेतरविषयप्रतिक्षेपकत्वेन समुदितद्रव्यलक्षणासाहित्वेन मिथ्याष्टित्वमवान्तरतद्भेदानां च वैपरीत्येन सम्यगृहष्ठित्वं स्यादिति यथाश्रुतशुद्धाशुद्धविवेकानुपपत्तिरिति चेत् ? इदमित्थमेव जात्या शुद्धाशुद्धत्वैकान्तस्य वादिनैव प्रतिक्षिप्तत्वात् , यो नयोपयोगः स्वार्थे इतरनयार्थसंयोजनायां व्यापिपर्ति तस्य तावत्याऽपेक्षया सम्यग्दृष्टित्वस्य, यथाश्रुतार्थप्रवाह प्रवृत्तस्य तथोपयोगवैकल्येन मिथ्यादृष्टित्वस्य च सम्प्रदायसिद्धत्वात् , तदुक्तम्---
" दव्वं पजवविउअं दवविजुत्ता य पजवा णस्थि । उपपाय-छिइ-भंगा हंदि दविअलक्खणं एयं ।। एए पुण संगहओ पाडिकमलक्खणं दुविण्हं पि । तम्हा मिच्छट्ठिी पत्तेयं दो वि मूलनया ॥ ण य तइओ अस्थि णओ न य सम्मत्तं न तेसु पडिपन्नं । जेण दुवे एगन्ते विभजमाणा अणेगन्ते ॥ जह एए तह अन्ने पत्तेयं दुनया नया सवे । हंदि हु.मूलनयाणं पनवणे वावडा ते वि ॥ सन्त्रणयसमूहम्मि वि त्थि गओ उभयवायपण्णवओ। मूलनयाण उ आणं पत्तेयविसेसि बिति ।"
[सम्मतिप्रथमकाण्डे गाथा:--१२, १३, १४, १५, १६ ] ति ॥ विशेष इति पर्यायनय विषयः, तथा च तद्विषयको नयः पीयार्थिन यावान्तर भेदो द्रव्यनयविषयविषयकत्वादशुद्धपर्यायास्तिक एव भवेदिति पश्चिमस्यान्त्यस्य विकल्पस्य विशेषस्य निर्वचनतया निरूपणप्रवणत्वेन माध्यमिकदेशनप्रर्वतकः शून्यवादिमतप्रवर्तक एवम्भूतनय एव शुद्ध पर्यायार्थिको भवेत् , न तु अजुसूत्रादय इत्यर्थः । भवत्येवमेवेत्यत आह- इष्यते चेति-- अभ्युपगम्यते चेत्यर्थः । इयं व्यवस्था ऋजुसूत्रादीनामशेषाणामपि शुद्धपर्यायास्तिकनयावान्तर भेदत्वेन प्ररूपणारूपा व्यवस्था । सा तु तदेवोधपोत यदि ऋजुसूत्रादीनामपि शुद्धपर्यायास्तिकत्वं भवेत् , शुद्धस्यैव हि शुद्धावान्तरभेदत्वं न त्वशुद्धस्थेत्याशयः । समाचते-क्षणिकेति-शुद्धपर्यायार्थिकपदस्य सामान्यानात्मकविशेषायगाहिनये निरूढा वृत्ति त्राश्रिता येन ऋजुसूत्रादौ तत्प्रवृत्तिनैव भवेत् , किन्तु क्षणिकनिष्नविषयताव्यापपर्यायनिष्ठविषयताशालिनि नये आधुनिकसङ्केतित एव शुद्धपर्यायार्थिकशब्दः, तथा च ऋजुसूत्रादयः सऽपि न ग्रा: क्षणिकमेव पर्यायमभ्युपयन्तीति ते क्षणिकनिष्ठविषयताव्यापकपयोनिष्ठविषयताशालिन इति शुद्धपर्यायार्थिकपदव्यपदेश्या भवन्तीति परिभाषाश्रयणाच्छुद्धपर्यायार्थिकतयाऽवान्तरभेदा भवन्ति ऋजुसूत्रादयस्तैन निरुक्तव्यवस्था सूपपादेवेति, नन्ववं परिभाषाश्रयणाजुसूत्रादयः शुद्धपर्यायार्थिका अपि वस्तुस्थित्याऽशुद्धपर्यायार्थिका एव, किन्रबेवम्भूतनय एव शुद्धपर्यायार्थिकः, एवं महासामान्यसत्तामात्रमाही परसङ्ग्रह एवं शुद्धद्रव्यार्थिकः, अपरसङ्गहनेगमादयस्त्वशुद्धद्रव्याथिका ग्य, एवं च शुद्धद्रब्यार्थिकः, पर्याय नाभ्युपगच्छतीति तस्य ध्रौव्यमात्रग्राहित्वं नोत्पादव्ययग्राहित्वम् , शुद्धपर्यायार्थिकस्य त्वैवम्भूतस्य न द्रव्याभ्युपगमः किन्तु स पर्यायमात्रग्राहित्वादुत्पादव्ययोभयग्राह्येव न ध्रौव्य माहीति " गुणपर्यायवद् द्रव्यम्" नित्त्वार्थसूत्रम्-- ५-३७] इति यत् समुदितद्रव्यलक्षण तदाहित्वं द्रव्यप्रतिक्षेपकस्य शुद्ध पर्यायार्थिकस्य नास्ति पर्यायप्रतिक्षेपिणः शुद्धद्रव्यार्थिकस्य च नास्तिीति तयोमिथ्या दृष्टित्वं स्यात् , तदधान्तरभेदास्तु द्रव्यमप्युपयन्ति पर्यायमपीति समुदितद्रव्यलक्षणप्राहिण इति तेषां सम्यग्दृष्टित्वं प्रसज्येतत्यतो यथाश्रतशुद्धा-ऽशद्धविवेकोऽनुपपन्न इत्याशङ्कते- नन्वेवमिति । अवान्तरतद्भेदानां शुद्धद्रव्यार्थिशुद्धपर्यायाथिकावान्तरभेदानाम् । वैपरीत्येन इतरेतरविषयाप्रतिक्षेपकत्वेन समुदितद्रव्यलक्षणमाहित्येन । यथाश्रतेति- स सम्यग्दृष्टिः स शुद्धनयः, यो मिथ्यावृष्टिः सोऽशुद्धनय इत्येवं यथाश्रतो यः शुद्धविवेकस्तस्यानुपपत्तिः, प्रत्युत यो मिथ्या दृष्टिः स शुद्धः, यश्च सम्यग्दृष्टिः सोऽशद्ध इत्येवायातम् । समाचते- इदमित्थमेवेति- भवता शुद्धाशुद्धविवेकानुपपत्ति प्रदर्शनं यत् कृतं तत् तथैवेत्यर्थः । न चैवं स्वकपोलकल्पितत्वं श्रीसिद्धसेन दिवाकर सूरिसम्मतोऽयमर्थ इत्यावेदनायाह-जात्येति- विषयविनिमोकण तत्तन्नयजात्यपेक्षयैव । तस्य मयोपयोगस्य । तावत्याऽपक्षया स्वाय इतरनयार्थसंयोजनापेक्षया । यथाश्रुतेति- केवलस्वस्वार्थमात्रावगाहनप्रवृत्तस्येत्यर्थः । तथोपयोगवैकल्येन स्वार्थे इतरनयार्थसयोजनोपयोगवैकल्येन ।
उत्तार्थे सम्मतिगाथापच के संवादकतयोपदर्शयति-तदुक्तमिति । दब्वं० इति- " द्रव्य पर्यववियुक्तं द्रव्यवियुक्ताश्च पर्यवा न सन्ति । उत्पाद-स्थितिमा हन्दि द्रव्यलक्षणमेतत् ॥ १ ॥ एते पुन: सङ्ग्रहतः प्रत्येकमलक्षणं द्वयोरपि । तस्मान्मिथ्यादृष्टी द्वावपि मूलनयो॥ २॥ न च तृतीयोऽस्ति नयो न च सम्यक्त्वं न तयोः प्रतिपन्नम् । येन द्वावेकान्तौ