Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 169
________________ मयामृततरहिणी-सरक्रिणीतरणिभ्यां समलङ्कतो नयोपदेशः। १४३ गृहाण; नन्वेवं शुद्धद्रव्यार्थिकपर्यायार्थिकयोरितरेतरविषयप्रतिक्षेपकत्वेन समुदितद्रव्यलक्षणासाहित्वेन मिथ्याष्टित्वमवान्तरतद्भेदानां च वैपरीत्येन सम्यगृहष्ठित्वं स्यादिति यथाश्रुतशुद्धाशुद्धविवेकानुपपत्तिरिति चेत् ? इदमित्थमेव जात्या शुद्धाशुद्धत्वैकान्तस्य वादिनैव प्रतिक्षिप्तत्वात् , यो नयोपयोगः स्वार्थे इतरनयार्थसंयोजनायां व्यापिपर्ति तस्य तावत्याऽपेक्षया सम्यग्दृष्टित्वस्य, यथाश्रुतार्थप्रवाह प्रवृत्तस्य तथोपयोगवैकल्येन मिथ्यादृष्टित्वस्य च सम्प्रदायसिद्धत्वात् , तदुक्तम्--- " दव्वं पजवविउअं दवविजुत्ता य पजवा णस्थि । उपपाय-छिइ-भंगा हंदि दविअलक्खणं एयं ।। एए पुण संगहओ पाडिकमलक्खणं दुविण्हं पि । तम्हा मिच्छट्ठिी पत्तेयं दो वि मूलनया ॥ ण य तइओ अस्थि णओ न य सम्मत्तं न तेसु पडिपन्नं । जेण दुवे एगन्ते विभजमाणा अणेगन्ते ॥ जह एए तह अन्ने पत्तेयं दुनया नया सवे । हंदि हु.मूलनयाणं पनवणे वावडा ते वि ॥ सन्त्रणयसमूहम्मि वि त्थि गओ उभयवायपण्णवओ। मूलनयाण उ आणं पत्तेयविसेसि बिति ।" [सम्मतिप्रथमकाण्डे गाथा:--१२, १३, १४, १५, १६ ] ति ॥ विशेष इति पर्यायनय विषयः, तथा च तद्विषयको नयः पीयार्थिन यावान्तर भेदो द्रव्यनयविषयविषयकत्वादशुद्धपर्यायास्तिक एव भवेदिति पश्चिमस्यान्त्यस्य विकल्पस्य विशेषस्य निर्वचनतया निरूपणप्रवणत्वेन माध्यमिकदेशनप्रर्वतकः शून्यवादिमतप्रवर्तक एवम्भूतनय एव शुद्ध पर्यायार्थिको भवेत् , न तु अजुसूत्रादय इत्यर्थः । भवत्येवमेवेत्यत आह- इष्यते चेति-- अभ्युपगम्यते चेत्यर्थः । इयं व्यवस्था ऋजुसूत्रादीनामशेषाणामपि शुद्धपर्यायास्तिकनयावान्तर भेदत्वेन प्ररूपणारूपा व्यवस्था । सा तु तदेवोधपोत यदि ऋजुसूत्रादीनामपि शुद्धपर्यायास्तिकत्वं भवेत् , शुद्धस्यैव हि शुद्धावान्तरभेदत्वं न त्वशुद्धस्थेत्याशयः । समाचते-क्षणिकेति-शुद्धपर्यायार्थिकपदस्य सामान्यानात्मकविशेषायगाहिनये निरूढा वृत्ति त्राश्रिता येन ऋजुसूत्रादौ तत्प्रवृत्तिनैव भवेत् , किन्तु क्षणिकनिष्नविषयताव्यापपर्यायनिष्ठविषयताशालिनि नये आधुनिकसङ्केतित एव शुद्धपर्यायार्थिकशब्दः, तथा च ऋजुसूत्रादयः सऽपि न ग्रा: क्षणिकमेव पर्यायमभ्युपयन्तीति ते क्षणिकनिष्ठविषयताव्यापकपयोनिष्ठविषयताशालिन इति शुद्धपर्यायार्थिकपदव्यपदेश्या भवन्तीति परिभाषाश्रयणाच्छुद्धपर्यायार्थिकतयाऽवान्तरभेदा भवन्ति ऋजुसूत्रादयस्तैन निरुक्तव्यवस्था सूपपादेवेति, नन्ववं परिभाषाश्रयणाजुसूत्रादयः शुद्धपर्यायार्थिका अपि वस्तुस्थित्याऽशुद्धपर्यायार्थिका एव, किन्रबेवम्भूतनय एव शुद्धपर्यायार्थिकः, एवं महासामान्यसत्तामात्रमाही परसङ्ग्रह एवं शुद्धद्रव्यार्थिकः, अपरसङ्गहनेगमादयस्त्वशुद्धद्रव्याथिका ग्य, एवं च शुद्धद्रब्यार्थिकः, पर्याय नाभ्युपगच्छतीति तस्य ध्रौव्यमात्रग्राहित्वं नोत्पादव्ययग्राहित्वम् , शुद्धपर्यायार्थिकस्य त्वैवम्भूतस्य न द्रव्याभ्युपगमः किन्तु स पर्यायमात्रग्राहित्वादुत्पादव्ययोभयग्राह्येव न ध्रौव्य माहीति " गुणपर्यायवद् द्रव्यम्" नित्त्वार्थसूत्रम्-- ५-३७] इति यत् समुदितद्रव्यलक्षण तदाहित्वं द्रव्यप्रतिक्षेपकस्य शुद्ध पर्यायार्थिकस्य नास्ति पर्यायप्रतिक्षेपिणः शुद्धद्रव्यार्थिकस्य च नास्तिीति तयोमिथ्या दृष्टित्वं स्यात् , तदधान्तरभेदास्तु द्रव्यमप्युपयन्ति पर्यायमपीति समुदितद्रव्यलक्षणप्राहिण इति तेषां सम्यग्दृष्टित्वं प्रसज्येतत्यतो यथाश्रतशुद्धा-ऽशद्धविवेकोऽनुपपन्न इत्याशङ्कते- नन्वेवमिति । अवान्तरतद्भेदानां शुद्धद्रव्यार्थिशुद्धपर्यायाथिकावान्तरभेदानाम् । वैपरीत्येन इतरेतरविषयाप्रतिक्षेपकत्वेन समुदितद्रव्यलक्षणमाहित्येन । यथाश्रतेति- स सम्यग्दृष्टिः स शुद्धनयः, यो मिथ्यावृष्टिः सोऽशुद्धनय इत्येवं यथाश्रतो यः शुद्धविवेकस्तस्यानुपपत्तिः, प्रत्युत यो मिथ्या दृष्टिः स शुद्धः, यश्च सम्यग्दृष्टिः सोऽशद्ध इत्येवायातम् । समाचते- इदमित्थमेवेति- भवता शुद्धाशुद्धविवेकानुपपत्ति प्रदर्शनं यत् कृतं तत् तथैवेत्यर्थः । न चैवं स्वकपोलकल्पितत्वं श्रीसिद्धसेन दिवाकर सूरिसम्मतोऽयमर्थ इत्यावेदनायाह-जात्येति- विषयविनिमोकण तत्तन्नयजात्यपेक्षयैव । तस्य मयोपयोगस्य । तावत्याऽपक्षया स्वाय इतरनयार्थसंयोजनापेक्षया । यथाश्रुतेति- केवलस्वस्वार्थमात्रावगाहनप्रवृत्तस्येत्यर्थः । तथोपयोगवैकल्येन स्वार्थे इतरनयार्थसयोजनोपयोगवैकल्येन । उत्तार्थे सम्मतिगाथापच के संवादकतयोपदर्शयति-तदुक्तमिति । दब्वं० इति- " द्रव्य पर्यववियुक्तं द्रव्यवियुक्ताश्च पर्यवा न सन्ति । उत्पाद-स्थितिमा हन्दि द्रव्यलक्षणमेतत् ॥ १ ॥ एते पुन: सङ्ग्रहतः प्रत्येकमलक्षणं द्वयोरपि । तस्मान्मिथ्यादृष्टी द्वावपि मूलनयो॥ २॥ न च तृतीयोऽस्ति नयो न च सम्यक्त्वं न तयोः प्रतिपन्नम् । येन द्वावेकान्तौ

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210