Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 167
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । रादिना रहिता सामग्री अविभक्तं कार्य सम्पादयति, तत्सन्निधाने तु विभक्त कार्यान्तरं जनयतीति विशेषः, न तु मुद्रादयः कारणसामर्थ्य खण्डयतीति । अथायं विकल्पोऽतिप्रसञ्जकत्वादसारः, तथाहिउत्पादेऽप्येवं शक्यत एव वक्तुम्--स्वभावतो ह्युत्पत्तिस्वभावस्य न किञ्चिदुत्पत्तिहेतुभिः, तत्तत्स्वभावतयैव समुत्पादात् , अनुत्पत्तिस्वभावस्य तु व्यर्था उत्पत्तिहेतवः, तथा चान्यथात्वस्य कर्तुमशक्यत्वात् , भैवम्-अभूत्वाभवनलक्षणायामुत्पत्तौ च भावगर्भायां हेतोरकिञ्चित्करस्वस्येष्टापत्तेः, उत्पत्तिस्वभावभावीति मुखीभूते कारणकलापे कार्यकारित्वव्यपदेशहेतौ अकिश्चित्करत्ववचनस्य च व्याहतत्वात् , उत्पत्ति-ध्वंसस्वभावात्मको भात्रः सहेतुक एव, उत्पत्ति-ध्वंसयोः सांवृतयोस्त्वहेतुः, कथं ? केवलं भाव. नामपि । पर्यायवादी प्रतिक्षेपहेतुमुपदर्शयति- यत इति । ते च परस्परविविक्तपूर्वापरक्षणाश्च । यदि निरुक्तलक्षणप्रवाहः स्वभावत एव निरुद्धयते तर्हि मुद्रादीनां क उपयोग इत्यपक्षायामाह-केवलमितिः। तत्सन्निधाने तु मुद्रादिसन्निधाने पुनः । द्रव्यवादी पर्यायवादिनं प्रति प्रतिबन्दी गृह्णन् शङ्कते- अथेति । अयं विकल्पः 'किञ्च स्वभावतो भावानां नश्वरत्वे' इत्यादिना दर्शितो विकल्पः । अतिप्रसञ्जकत्वात् उत्पादस्य सहेतुकत्वं त्वयाऽप्युपेयते, तत्राप्युक्तविकल्पप्रसरादुत्पादहेतुवैयर्थ्यप्रसङ्गलक्षणातिप्रसङ्गहेतुत्वात् । उत्पादहेतुवैयर्थ्यप्रसङ्गलक्षणातिप्रसङ्गमेव भावयति-तथाहीति । 'तत्तस्वभावतयैव' इत्यस्य स्थाने 'तत्स्वभावतयैव' इति पाठो युक्तः, उत्पत्तिस्वभावतयैवेति तदर्थः । यद्यनुत्पत्तिस्वभावो भावस्तदा कारणसहस्तव्यापारणेनाप्युत्पत्तिस्वभावो न भवितुमर्हतीत्युत्पत्तिहेतूनां वैयर्थ्यमित्याह-अनुत्पत्तिस्वभावस्य स्विति । 'तथा चान्यथात्वस्य' इति स्थाने 'तथात्वान्यथात्वस्य, तत्स्वभावान्यथात्वस्य' इति वा पाठः समीचीनः, पाठदयेऽपि अनुत्पत्तिस्वभावान्यथात्वस्येत्येवार्थः । पर्यायवादी समाधत्ते-- मैवमिति । 'च भावगर्भायाम्' इत्यस्य स्थाने 'चाभावगर्भायाम्' इति पाठो युक्तः, य उत्पद्यते स उत्पत्तिस्वभाव एव, तनोत्पत्तिरभूत्वाभवनलक्षणाऽभावगर्भा यतोऽभवनमभाव एव तत्र सन्निविष्टः, तस्यां च हेतोरकिञ्चित्करत्वस्येष्टापत्तेः, तत्र हेतोरकिञ्चित्करत्वेन तदापादनस्येष्टत्वादित्यर्थः । तत्र हेतुमाह-उत्पत्तीति- अत्र “उत्पत्तिस्वभावभावीति मुखीभूते" इत्यस्य स्थाने " उत्पत्तिस्वभावभावित्वात् तस्याः, तदुन्मुखीभूते” इति पाठः सङ्गतिमङ्गति, तदर्थस्तु-तस्थाः अभूत्वाभवनलक्षणाया उत्पत्तेः, भावस्य य उत्पत्तिस्वभावस्तद्धावित्वात् , एवमपि उत्पत्तिहेतावुत्पत्तिस्वभावभावोन्मुखीभूते कारणकलापे, कार्यकारित्वव्यपदेशहेती उत्पत्तिस्वभावभावोन्मुखे कारणकलापे सति अयं कारणकलापः कार्यकारीति व्यपदे निरुक्तकारणकलापाभावे कार्यकारोति व्यपदेशो न भवतीत्यन्वय.व्यतिरेकाभ्यां कार्यकारित्वव्यपदेशात्मककार्यकारिणि निरुक्तकारणकलापै, अकिञ्चित्करत्ववचनस्य 'स्वभावतो ह्युत्पत्तिस्वभावस्य न किश्चिदुत्पत्तिहेतुभिः' इति वचनस्य, व्याहतत्वात् अर्थकारिण्यर्थकारित्वाभाववचनस्य वन्ध्या पुत्रवतीतिवचनवद् व्याहतत्वादित्यर्थः । पर्यायवादी स्वविचारनिश्यूतमर्थमुपदर्शयति-- उत्पत्तीति- 'भावः' इत्युक्त्या तत्र हेतुळयापारसाफल्यमावेदितम्, अभाव तु तुच्छरूपे शश शुङ्गादाविव हेतुव्यापारस्य वैफल्यम्, नहि हेतुसहस्रव्यापारेऽप्यभावो भावो भवितुमईतीति भवनप्रयोजकस्य हेतोस्तत्र वैफल्यमेवेत्याशयः । ननु ,सस्वभावस्य भावस्य सहेतुकत्वाभ्युपगमे नितुको ध्वंस इति वचनमसङ्गतं भवतः प्रसज्यत इत्यत आहउत्पत्तिध्वंसयोरिति । "सांवतयोस्त्वहेतः, कथम?" इत्यस्य स्थाने “सांवृतयोस्त्वहेतुत्वकथनम्" इति पाठः समीचीन:, भावस्वरूपा योत्पत्तिः भावस्वरूपो यो ध्वंसस्तयोः सहेतुकत्वमेव, किन्तु सांवृतयो:-- कल्पितयोस्तुत्पत्तिध्वंसयोरहेतुत्वकथनमित्यर्थः । ननु यदि सांवृतयोरुत्पत्तिविनाशयोर्द्वयोरप्यहेतुत्वकथनं तर्हि किमित्युत्पत्तेः संहतुकत्वव्यवहारो नाशस्य चाहेतुकत्वव्यवहारः, अहेतुकत्वाविशेषे सांवृतमोईयोरप्यहेतुकत्वव्यवहार एव समुचित:, भावात्मकयोश्च तयोः सहेतुकत्वाविशेष सहेतुकाचव्यवहार एव वा समुचित इत्यत आह-केवलमिति- किनित्वत्यर्थः । भावेति-अभूत्वाभवनलक्षणा योत्पत्तिस्तस्यामभूत्वेत्यनेनाभावांशो यः सन्निविष्टस्तस्मिस्तुच्छरूपे कारकव्यापारो न सफल इत्यभावांशमुपादाय तत्र तोरकिञ्चित्करत्वेनाहेतुकत्वम् , यश्च तत्र भवनांशो भावरूपस्तत्र सन्निविष्टस्तत्र हेतुव्यापारः सफल एवेति तदंशमुपादायोत्पत्तेः सहेतुकत्वमपि सम्भवतीति तदेशमुख्यतया तदुत्पत्तित्वं तेन सहेतुकत्वव्यवहार उत्पत्तौ घटते, नाशस्य तु न लक्षणस्वरूपसन्निविष्टो भावांशः किन्तु निवृत्तिस्वरूपतुच्छत्वमेव ध्वंसत्वं तेनाभावस्य मुख्यतया तत्र हेतुव्यापारः कथञ्चिदपि न

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210