Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 165
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । काभावात्, मिथोऽनुपलम्भनियमस्य तत्साधकत्वे अन्योन्याश्रयात् । 'अव्यक्तस्वात्मरूपविकारान्तरो ध्वंसः ' इत्यनुद्बोध्यम्, बुद्ध्यादीनामात्मरूपविकारापत्तौ प्रमाणाभावात्, प्रदीपादे श्राव्यक्तरूपस्य विकारस्य कार्यविशेषादर्शनेनासिद्धेः । किञ्च भावान्तरस्य प्रध्वंसत्वे तद्विनाशात् घटाद्युन्मज्जनप्रसङ्गः, घटप्रागभाव-तद्धं खानाधारकालस्य घटाधारत्वव्याप्यत्वात् ; न च कपालादेर्भावरूपतेव ध्वस्ता नाऽभावात्मकतेति नायं दोषः, धर्मिप्रच्यवे धर्मप्रच्यवात् निराश्रयधर्मावस्थानायोगात् कपालादिकार्यपरम्परायामेव घटध्वंसत्व स्वीकारात् नायं दोष इति चेत् ? न एवं सति घटध्वंसत्वस्य व्यासज्यवृत्तित्वे यावदाश्रयमानं विनाऽमानप्रसङ्गात्; तस्मात् तुच्छरूप एवं ध्वंस इत्यवशिष्यते, तत्र च कारकव्यापारासम्भव एव, हेतुमत्त्वे तस्य भावत्वप्रसङ्गात् भवनधर्मा हि भावः, अङ्कुरादावपि भावशब्दप्रवृत्तिनिमित्तं निवृत्तिरूपत्वे । नन्वङ्गाराद्युपलम्भे इन्धनादिकं नोपलभ्यते, इन्धनाद्युपलम्भेऽङ्गारादिकं नोपलभ्यत इत्यतोऽङ्गार/दिकमिन्धनादिनिवृत्तिरूपमुपेयत इत्यत आह-मिथोऽनुपलम्भनियमस्येति । तत्साधकत्वे निवृत्तिरूपत्वसाधकत्वे । अन्योन्या. श्रयादिति-अङ्गारादिजन्मनि कथमिन्धनं नोपलभ्यते इति पृच्छायामङ्गारादिकं यत इन्धनादिनिवृत्तिरूपम् कथमङ्गारादिकमिन्धनादिनिवृत्तिरूपमिति पृच्छायां यतोऽङ्गारादिजन्मनि इन्धनादिकं नोपलभ्यत इत्येवमुत्तरबितरणेऽन्योऽन्याश्रयस्य स्पष्टं प्रतीतेरित्याशयः। स्वस्वरूपाव्यक्तविकारो ध्वंस इति मतमुद्भाव्य प्रतिक्षिपति - अव्यक्तेति । बुद्ध्यादीनां यदा विनाशो भवति तदानीं बुद्धयादिरूपो विकारो नोपलभ्यत इत्यनुपलभ्यमानाव्य क्तबुद्धयादिरूपविकारे प्रमाणाभावेन बुद्धयादीनामुक्तस्वरूपध्वंसानापत्तेरित्याह- बुद्धयादीनामिति । एवं प्रदीपादेरप्युक्तविकारे प्रमाणाभावेन तदात्मकध्वंसाभावापत्तिरित्याहप्रदीपादेश्चेति । अभावाभावस्य प्रथमाभावप्रतियोगिस्वरूपत्वेन घटादिध्वंसध्वंसस्य घटादिस्वरूपतया घटादिध्वंसस्य कपालादिभावस्वरूपत्वे कपालादिध्वंसाद्धटाद्युन्मज्जनप्रसङ्गान्न ध्वंसस्य भावान्तरस्वरूपत्वमित्याह- किश्चेति । तद्विनाशात् कपालादिस्वरूपघटादिध्वंस विनाशात् । कथं भावान्तररूपतद्भूसविनाशात् तदुन्मज्जनप्रसङ्ग इत्यपेक्षायामाह - घटप्रागभावेति । तद्ध्वंसेति- घटध्वंसेत्यर्थः । 'कालस्य ' इति स्थाने ' कालत्वस्य' इति पाठः, भावप्रधानो वा निर्देश:, व्याप्तिश्च यत्र घटप्रागभाव-तद्ध्वंसानाधारकालत्वं तत्र घटाधारत्वमित्येवंरूपा । ननु कपालादेर्या घटध्वंसादिरूपता सा कपालादिनाशेऽपि न नश्यतीति घटादिध्वंसरूपताया नाशाभावान्न घटाद्युन्मज्जनप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति-न चेति । भावरूपतैव कपालादिभावात्मकतेव । ध्वस्ता कपालादिनाशाद् विनष्टा, 1 नाभावात्मकता कपालादेर्घटादिध्वंसामकता न विनष्टा । इति एतस्माद्धेतोः । नायं दोषः घटाद्युन्मज्जनप्रसङ्गरूपो दोषो न । प्रतिक्षेपे हेतुमाह - घर्मि - प्रच्यव इति कपालाद्यात्मकधर्मिणो नाशे सति धर्मस्य घटादिध्वंसरूपत्वस्यापि विनाशात् निराश्रयस्याधाररहितस्य धर्मस्यावस्थानासम्भवादित्यर्थः । ननु कपालं यथा घटध्वंसरूपं तथा कपालानन्तरं यत्कार्ये तदपि घटध्वंसरूपम्, एवं तत्काय निन्तर कायमपीत्येवं कपालादिकार्यपरम्परायामेव घटध्वंसत्वस्य स्वीकारेण कपालविनाशेऽपि तदनन्तर कार्यस्य विद्यमानत्वेन तदात्मना घटध्वंसस्य विद्यमानतया घटध्वंसध्वंसाभावान्न घटोन्मज्जनप्रसङ्ग इत्याशङ्कते - कपालादीति । यदि 'कपालादिकार्येषु प्रत्येकं परिसमाप्तं घटध्वंसत्वं तदैकस्य कपालादिरूपकार्यस्य नाशे तदात्मना घटध्वंसस्यापि नाशः स्यादिति घटोन्मज्जन प्रसङ्गः स्यादेव यदि च कपालादिपरम्परित कार्यसमूहेष्वेव पर्याप्तं घटध्वंसत्वं तदा व्यासज्यवृत्तेस्तस्य यावदाश्रयप्रत्यक्षे सत्येव प्रत्यक्ष भवेत्, व्यासज्यवृत्तिधर्मप्रत्यक्षं प्रति यावदाश्रयप्रत्यक्षस्य हेतुत्वात्, तथा च मुद्गरपाततः कपालकदम्बके जाते सति घटो ध्वस्त इत्येवंरूपेण घटध्वंसस्य तत्त्वेन यत् प्रत्यक्षं भवति तन्न स्यादिति समाधत्ते नेति । एवं सति कपालादिकार्यपरम्परायामेव घटध्वंसस्वस्य स्वीकारे सति । तस्मात् भावान्तरस्य ध्वंसरूपत्वासम्भवात् । तत्र च तुच्छरूपध्वंसे च । यदि च तुच्छरूपेऽपि ध्वंसे कारकव्यापारोऽभ्युपगम्यते तदा तुच्छरूपत्वमेव तस्य न स्यात् किन्तु हेतुमत्त्व भवनधर्मकस्य ध्वंसस्य भावत्वमेव स्यात्, अन्यत्राप्यङ्कुरादौ भवनधर्मरूपभाव शब्द प्रवृत्तिनिमित्तबलादेव भावशब्दप्रवृत्तिः, भवनं च हेतुमति ध्वंसेऽपि समस्तीति तत्रापि भावशब्द एव प्रवर्तेत नाभाव इत्याह- हेतुमत्त्वे इतिकारणवत्त्व इत्यर्थः । तस्य ध्वंसस्य । तचेत् भवनं चेत् । अभावे ध्वंसे । अस्ति वर्तते । कथं न भावः ध्वंसः कथं न भावशब्दप्रतिपाद्यः स्यात् अपि तु स्यादेवेत्यर्थः । प्रतिनियतेन रूपेण स्वग्राहिणि ज्ञाने यत् प्रतिभासते तस्यैव भावत्वं स्वीक्रियते, न च ध्वंसः प्रतिनियतेन रूपेण स्वग्राहिणि ज्ञाने प्रतिभासतेऽतो नास्य भावत्वमित्याशङ्कय १३९

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210