Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१४०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
नापरमुपलभ्यते, तच्चेदभावेऽस्ति कथं न भाव इति; स्वग्राहिणि ज्ञाने प्रतिनियतेन रूपेणाप्रतिभासनाद. भाव इत्येतदपि न वक्तव्यम् , अत्यन्तपरोक्षचक्षुरादीनामप्यभावत्वापत्तः । किश्व, यद्यभावरूपो विनाशो हेतुमास्तदा हेतुभेदात्तद्भेदप्रसङ्गः, न चायमनुभूयते, अग्न्यभिघातादिहेतुभेदेऽपि घटनाशभेदाननुभवात् , तस्मादहेतुरयं निःस्वभावस्तुच्छोऽभ्युपगन्तव्यः, अग्निसंयोगादयस्तु काष्ठादिष्वङ्गारादिकमेव जनयन्ति, काष्ठादयः स्वरसत एव निरुध्यन्त इत्यनवद्यम् , किञ्च, स्वभावतो भावानां नश्वरत्वेऽपरब्यापारवैफल्यादनश्वरत्वे च तत्स्वभावस्यान्यथाकर्तुमशक्यत्वाद् व्यों नाशहेतुः; अथ स्वहेतुभिर्नियतकालस्थायिस्वभावः पदार्थो जनित इति नोत्पादानन्तरमेव विनष्टुमुत्सहते इति चेत् ? तर्हि तस्मिन् स्वभावे व्यवस्थितः कथमन्तेऽपि विनश्येत् , तथा चान्तेऽन्ते तावत्तावत्कालस्थायिस्वभावानपगमे सदा स्थाष्णुरेव स्यात्, स्वभावापरावृत्तावकिञ्चित्करैर्मुद्रादिभिस्तन्नाशायोगात् ; न च भवतामप्यकिञ्चित्करमपि मुद्रादिकमपेक्ष्य कथं प्रवाहो निवर्तत इति वाच्यम् , यतो न विशरारुक्षणव्यावृत्तोऽपरः प्रवाहो विद्यते यो निवर्तमानोऽकिञ्चित्करं मुद्रादिकमपेक्षत इति प्रतिजानीमहे, किन्तु परस्परविविक्तपूर्वापरक्षणा एव प्रवाहः, ते च स्वरसत एव निरुध्यन्त इति न कचिदकिश्चित्करापेक्षा निवृत्तिः, केवलं मुद्गप्रतिक्षिपति-स्वग्राहिणीनि । अत्यतं परोक्षाये चक्षुरादयस्तेऽपि स्वग्राहिणि ज्ञाने न प्रतिनियतेम रूपेण प्रतिभासन्ते इति तेषामप्युक्तनियमबलादभावत्वं प्रसज्यत इति निबंधहेतुमुपदर्शयति- अत्यन्तति । अपि च यो हि हेतुमान् तस्य हेतुभेदादु भेदो दृश्यते, यथा रक्तमृत्तिकादिप्रभवाद् घटादित: कृष्णमृत्तिकादिप्रभवस्य घटादेः, एवं च यदि ध्वंसो हेतुमान् स्यात्
हापि हेतुभेदाद् भेदो दृश्यते न च दृश्यते तथेति न ध्वंसो हेतुमान् इत्याह- किश्चेति । तद्भेदप्रसङ्गः विनाशभेदप्रसङ्गः। न चेति- हेतुभेदाभेदो ध्वंसस्य न चानुभूयत इत्यर्थः । अत्रैव हेतुमुपदर्शयति-- अग्न्यभिधातादीतिआदिपदान्मुद्रपातादेग्रहणम् , यादृश एव घटनाशोऽग्न्यभिघाततो जायमानो दृश्यते तादृश एव स मुद्रपातादितोऽपि जायमानो दृश्यत इति हेतुभेदेऽपि घटनाशभेदाननुभवान्न हेतुमान् विनाशः । पर्यायवादी विनाशस्य तुच्छरूपत्वाहेतुमत्त्वे उपसंहरति- तस्मादिति । अयं विनाशः । यदि ध्वंसो न हेतुमान् तहि सत्कारणत्वेन व्यवद्रियमाणानामग्निसंयोगादीनां किं प्रति जनकत्वमित्यपेक्षायामाह- अग्निसंयोगादयस्त्विति । ननु यद्यग्निसंयोगादिभ्यो न काष्ठादीनां निवृत्त्यात्मा ध्वंसो जनितस्तदा काष्ठादयः किमिति पूर्ववन्नोपलभ्यन्त इत्यत आह-काष्ठादय इति । स्वरसतः स्वभावतः, काष्ठादीनां स्वभाव एवायं यदुत द्वितीयक्षणनिरुद्धा भवन्ति, सत्तां नानुभवन्तीति यावत्, ततः स्वभावत एव निरुद्धयन्ते काष्टादयो न तदर्थमतिरिक्तविनाशलक्षणनिवृत्त्यपेक्षेति भावः । अपि च भावा यदि स्वभावत एव नवरास्तदा हेर्नु विनाऽपि विनश्यन्तीति तदर्थ हेतुन्यापारणं व्यर्थम् , यदि च स्वभावतोऽनश्वर स्वभावास्ते तर्हि तत्स्वभावपरावर्तनं केनापि कर्तुमशक्यमिति हेतुव्यापारणे तत्स्वभावान्यथाभावासम्भवाद् व्यर्थ एव नाश हेतुरित्याह-किञ्चेति । अनश्वरत्वे च स्वभावतो भावानामनश्वरत्वे च । तत्स्वभावस्य भावानामनश्वस्त्वस्वभावस्य । अन्यथा कर्तुं नश्वरस्वभावतां कर्तुम् । ननु स्वकारणसामय्या जायमानो भावो नियतकालस्थायिस्वभाव एव जन्यते, स यद्युत्पादानन्तरमेव नश्येत् नियतकालस्थायिस्वभावतेवास्य हीयेत, ततः स्वस्वभावान्यथानुपपत्त्या नियतकालावस्थानानन्तरमेव नश्यतीति न क्षणिकत्वं भावस्येति पराकूत प्रतिक्षेप्तुमुपन्यस्यति- अधति । यस्मिन् क्षणऽसौ भावो नश्यति तदव्यवहितपूर्वक्षणेऽप्यस्य नियतकालस्थायित्वमेव स्वभावः, तथा च यदि तदव्यवहितक्षणेऽसौ नश्येत् न तर्हि स्वभावोऽस्य भवेदिति नाशकालरवे. नाभिमतक्षणेऽपि नासौ नश्येत् . एवं च सति यदा यदाऽस्य नाशः सम्भावनीयस्तत्तदव्यवहितपूर्वक्षणे तत्स्वभावस्य तादवस्थ्यान्न तदा तदाऽस्य नाशो भवेदिति सदातनत्वमेवास्य प्रसज्यत इति समाधत्ते-तहाँति । तस्मिन् स्वभावे नियतकालस्थायिस्वभावे। यदा च स्वभावोऽस्य नियतकालस्थायिलक्षणो न केनापि परावर्तयितुं शक्यः, तदाऽकिञ्चिकरैर्मुद्रादिभिस्तनाशासम्भवात् सदातनत्वं परिहर्तुमशक्यमित्याह- स्वभावापरावृत्ताविति । तन्नाशायोगात् नियतकालस्थायिस्वभावपदार्थनाशासम्भवात् । 'नच' इत्यस्य वाच्यम्' इत्यनेनान्वयः । भवतामपि क्षणक्षयवादि

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210