________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
काभावात्, मिथोऽनुपलम्भनियमस्य तत्साधकत्वे अन्योन्याश्रयात् । 'अव्यक्तस्वात्मरूपविकारान्तरो ध्वंसः ' इत्यनुद्बोध्यम्, बुद्ध्यादीनामात्मरूपविकारापत्तौ प्रमाणाभावात्, प्रदीपादे श्राव्यक्तरूपस्य विकारस्य कार्यविशेषादर्शनेनासिद्धेः । किञ्च भावान्तरस्य प्रध्वंसत्वे तद्विनाशात् घटाद्युन्मज्जनप्रसङ्गः, घटप्रागभाव-तद्धं खानाधारकालस्य घटाधारत्वव्याप्यत्वात् ; न च कपालादेर्भावरूपतेव ध्वस्ता नाऽभावात्मकतेति नायं दोषः, धर्मिप्रच्यवे धर्मप्रच्यवात् निराश्रयधर्मावस्थानायोगात् कपालादिकार्यपरम्परायामेव घटध्वंसत्व स्वीकारात् नायं दोष इति चेत् ? न एवं सति घटध्वंसत्वस्य व्यासज्यवृत्तित्वे यावदाश्रयमानं विनाऽमानप्रसङ्गात्; तस्मात् तुच्छरूप एवं ध्वंस इत्यवशिष्यते, तत्र च कारकव्यापारासम्भव एव, हेतुमत्त्वे तस्य भावत्वप्रसङ्गात् भवनधर्मा हि भावः, अङ्कुरादावपि भावशब्दप्रवृत्तिनिमित्तं निवृत्तिरूपत्वे । नन्वङ्गाराद्युपलम्भे इन्धनादिकं नोपलभ्यते, इन्धनाद्युपलम्भेऽङ्गारादिकं नोपलभ्यत इत्यतोऽङ्गार/दिकमिन्धनादिनिवृत्तिरूपमुपेयत इत्यत आह-मिथोऽनुपलम्भनियमस्येति । तत्साधकत्वे निवृत्तिरूपत्वसाधकत्वे । अन्योन्या. श्रयादिति-अङ्गारादिजन्मनि कथमिन्धनं नोपलभ्यते इति पृच्छायामङ्गारादिकं यत इन्धनादिनिवृत्तिरूपम् कथमङ्गारादिकमिन्धनादिनिवृत्तिरूपमिति पृच्छायां यतोऽङ्गारादिजन्मनि इन्धनादिकं नोपलभ्यत इत्येवमुत्तरबितरणेऽन्योऽन्याश्रयस्य स्पष्टं प्रतीतेरित्याशयः। स्वस्वरूपाव्यक्तविकारो ध्वंस इति मतमुद्भाव्य प्रतिक्षिपति - अव्यक्तेति । बुद्ध्यादीनां यदा विनाशो भवति तदानीं बुद्धयादिरूपो विकारो नोपलभ्यत इत्यनुपलभ्यमानाव्य क्तबुद्धयादिरूपविकारे प्रमाणाभावेन बुद्धयादीनामुक्तस्वरूपध्वंसानापत्तेरित्याह- बुद्धयादीनामिति । एवं प्रदीपादेरप्युक्तविकारे प्रमाणाभावेन तदात्मकध्वंसाभावापत्तिरित्याहप्रदीपादेश्चेति । अभावाभावस्य प्रथमाभावप्रतियोगिस्वरूपत्वेन घटादिध्वंसध्वंसस्य घटादिस्वरूपतया घटादिध्वंसस्य कपालादिभावस्वरूपत्वे कपालादिध्वंसाद्धटाद्युन्मज्जनप्रसङ्गान्न ध्वंसस्य भावान्तरस्वरूपत्वमित्याह- किश्चेति । तद्विनाशात् कपालादिस्वरूपघटादिध्वंस विनाशात् । कथं भावान्तररूपतद्भूसविनाशात् तदुन्मज्जनप्रसङ्ग इत्यपेक्षायामाह - घटप्रागभावेति । तद्ध्वंसेति- घटध्वंसेत्यर्थः । 'कालस्य ' इति स्थाने ' कालत्वस्य' इति पाठः, भावप्रधानो वा निर्देश:, व्याप्तिश्च यत्र घटप्रागभाव-तद्ध्वंसानाधारकालत्वं तत्र घटाधारत्वमित्येवंरूपा । ननु कपालादेर्या घटध्वंसादिरूपता सा कपालादिनाशेऽपि न नश्यतीति घटादिध्वंसरूपताया नाशाभावान्न घटाद्युन्मज्जनप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति-न चेति । भावरूपतैव कपालादिभावात्मकतेव । ध्वस्ता कपालादिनाशाद् विनष्टा, 1 नाभावात्मकता कपालादेर्घटादिध्वंसामकता न विनष्टा । इति एतस्माद्धेतोः । नायं दोषः घटाद्युन्मज्जनप्रसङ्गरूपो दोषो न । प्रतिक्षेपे हेतुमाह - घर्मि - प्रच्यव इति कपालाद्यात्मकधर्मिणो नाशे सति धर्मस्य घटादिध्वंसरूपत्वस्यापि विनाशात् निराश्रयस्याधाररहितस्य धर्मस्यावस्थानासम्भवादित्यर्थः । ननु कपालं यथा घटध्वंसरूपं तथा कपालानन्तरं यत्कार्ये तदपि घटध्वंसरूपम्, एवं तत्काय निन्तर कायमपीत्येवं कपालादिकार्यपरम्परायामेव घटध्वंसत्वस्य स्वीकारेण कपालविनाशेऽपि तदनन्तर कार्यस्य विद्यमानत्वेन तदात्मना घटध्वंसस्य विद्यमानतया घटध्वंसध्वंसाभावान्न घटोन्मज्जनप्रसङ्ग इत्याशङ्कते - कपालादीति । यदि 'कपालादिकार्येषु प्रत्येकं परिसमाप्तं घटध्वंसत्वं तदैकस्य कपालादिरूपकार्यस्य नाशे तदात्मना घटध्वंसस्यापि नाशः स्यादिति घटोन्मज्जन प्रसङ्गः स्यादेव यदि च कपालादिपरम्परित कार्यसमूहेष्वेव पर्याप्तं घटध्वंसत्वं तदा व्यासज्यवृत्तेस्तस्य यावदाश्रयप्रत्यक्षे सत्येव प्रत्यक्ष भवेत्, व्यासज्यवृत्तिधर्मप्रत्यक्षं प्रति यावदाश्रयप्रत्यक्षस्य हेतुत्वात्, तथा च मुद्गरपाततः कपालकदम्बके जाते सति घटो ध्वस्त इत्येवंरूपेण घटध्वंसस्य तत्त्वेन यत् प्रत्यक्षं भवति तन्न स्यादिति समाधत्ते नेति । एवं सति कपालादिकार्यपरम्परायामेव घटध्वंसस्वस्य स्वीकारे सति । तस्मात् भावान्तरस्य ध्वंसरूपत्वासम्भवात् । तत्र च तुच्छरूपध्वंसे च । यदि च तुच्छरूपेऽपि ध्वंसे कारकव्यापारोऽभ्युपगम्यते तदा तुच्छरूपत्वमेव तस्य न स्यात् किन्तु हेतुमत्त्व भवनधर्मकस्य ध्वंसस्य भावत्वमेव स्यात्, अन्यत्राप्यङ्कुरादौ भवनधर्मरूपभाव शब्द प्रवृत्तिनिमित्तबलादेव भावशब्दप्रवृत्तिः, भवनं च हेतुमति ध्वंसेऽपि समस्तीति तत्रापि भावशब्द एव प्रवर्तेत नाभाव इत्याह- हेतुमत्त्वे इतिकारणवत्त्व इत्यर्थः । तस्य ध्वंसस्य । तचेत् भवनं चेत् । अभावे ध्वंसे । अस्ति वर्तते । कथं न भावः ध्वंसः कथं न भावशब्दप्रतिपाद्यः स्यात् अपि तु स्यादेवेत्यर्थः । प्रतिनियतेन रूपेण स्वग्राहिणि ज्ञाने यत् प्रतिभासते तस्यैव भावत्वं स्वीक्रियते, न च ध्वंसः प्रतिनियतेन रूपेण स्वग्राहिणि ज्ञाने प्रतिभासतेऽतो नास्य भावत्वमित्याशङ्कय
१३९