________________
१३८
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
सङ्गच्छते; किश्च, सोऽयमित्याकारयोरन्योऽन्यानुप्रवेशेन भाने परोक्षापरोक्षरूपमेकं ज्ञानं स्यादन्योन्याननुप्रवेशेन च भाने प्रतिभासद्वयं परस्परविविक्तमायातमिति प्रतिभास्यस्यापि भेद एव ध्रुवः, न चात्रुट्यद्रूपतया प्रतिभासात् प्रतिभास्यस्यैकत्वम् , पूर्वदृष्टाग्रतिभासनेन त्रुट्यद्रूपतायो विद्युदादाविव स्तम्भादावपि तुल्यत्वात् , अविरतोपलब्धिरूपायाश्चात्रुट्यद्रूपताया अगृहीतभेदान्यान्यविषयत्वेनाप्युपपत्तिरिति दिक् ।
ननु तथापि विनाशस्य सहेतुकत्वात् तद्धत्वभावादेव कियत्कालं स्थैर्योपपत्तौ न घटादेः क्षणिकत्वमिति चेत् ? न-विनाशस्य सहेतुकताया एवासिद्धेः, तथाहि-इन्धनादीनामग्निसंयोगावस्थायां त्रितयमुपलभ्यते-तदेवेन्धनादि, कश्चिद् विकारोऽङ्गारादिः, तुच्छरूपश्चाभावः कल्पनाज्ञानप्रतिभासी, तत्राग्न्यादीनां क व्यापार इति वक्तव्यम्, न तावदिन्धनादिजन्मनि स्वहेतुत एव तेषामुत्पत्तेः, नायगारादौ विवादाभावात् . किन्त्वग्न्यादिभ्योऽङ्गाराद्युत्पत्ताविन्धनादेरनिवृत्तत्वात् तथैवोपलब्ध्यादि. प्रसङ्गः, अङ्गारादेरेवेन्धनादिनिवृत्तिरूपत्वात् तद्ग्रहे न तदुपलब्धिरिति चेत् ? न-तस्य निवृत्तित्वे साध. विकल्पस्तद्विषयको निर्विकल्पक इति विकल्पस्य पूर्वापरकत्वावगाहित्वे निर्विकल्पमपि पूर्वापरैकत्वावगाहीत्येवं विषयव्यवस्था । अपि च, सोऽयमिति यदेकं ज्ञानं तस्य स इत्याकारोऽयमित्याकारश्च, तत्र स इत्याकारो यद्ययमित्याकारानुप्रवेशेन मासते, अयमित्याकारश्च स इत्याकारानुप्रवेशेन च भासते तदा प्रतिभासविवेकाभावात् स इत्याकारांशेऽपि ज्ञानं परोक्षमपरोक्षं च, अयमित्याकारेऽपि तथा, यतः स इति परोक्षाकारस्तद्वत्त्वात् परोक्षत्वम् , तस्यैव चायमिति प्रत्यक्षाकारानुप्रवेशात् प्रत्यक्षाकारत्वमपि, तदाकारबत्त्यात् प्रत्यक्षत्वमपि, एवमयमिति प्रत्यक्षाकारस्तद्वत्त्वात् प्रत्यक्षत्वम् , तस्यैव च स इति परोक्षाकारानुप्रवेशात् परोक्षाकारत्वमपि, तदाकारवत्त्वात् परोक्षत्वमपीति; यद्युक्ताकारयोरन्योऽन्याननुप्रवेशेन भानं तदा स श्त्याकारकं यज्ज्ञानं न तस्यायमियाकारः, यचायमित्याकारकं ज्ञानं न तस्य स इत्याकार इति परोक्षप्रतिभास्येकं ज्ञानं प्रत्यक्षप्रतिभासि च ज्ञानान्तरमित्येवं ज्ञानद्वयमापनम् , तथा च तत्प्रतिभास्यस्य विषयस्यापि भेद इति नोक्तप्रत्यभिज्ञानबलात् पूर्वापरकत्वसिद्धिरित्याह-किञ्चेति-अन्योऽन्यानुप्रवेशेन भाने परोक्षापरोक्षरूपं यदेकज्ञान प्राप्तं तद्विरुद्धधर्माध्यासान संभवति, अन्योऽन्याननुप्रवेशेन भाने यदर्थ प्रत्यभिज्ञानप्रमाणाश्रयणं तदभिलषितं न सिध्यतीत्याशयः। प्रतिभासस्य भेदेऽपि प्रतिभास्यस्य विषयस्यात्रुट्यदूपतया प्रतिभासादेकत्वमित्यपि नास्ति, यदाऽयमिति वर्तमानकालवृत्तितया प्रतिभासते तदा न पूर्वकालवृत्तितया, यदा च पूर्वकालवृत्तितया स इति प्रतिभासते तदा न वर्तमानकालवृत्तितयेति विद्युदादीनामिव स्तम्भादीनामपि त्रव्यदपतयैव प्रतिभासादित्याह-न चेति । अत्रुट्यद्रपतया पूर्वापरकालाविच्छिन्नरूपतया, एकज्ञाने पूर्वरूपं वर्तमानरूपं च यदि प्रतिभासेत सदा पूर्वापरकालाविच्छेदलक्षणात्रुट्यदूपताप्रतिभासनं शक्येताभ्युपगन्तुम् , न चैवमित्याशयः। ननु स्तम्भादिकं कियत्कालमविरतमुपलभ्यते न तु विद्यदादिकमित्यविरतोपलब्धिलक्षणात्रुट्याद्रपता स्तम्भादावस्ति न तु सा विद्युदादावित्यस्ति विशेषः, तलादेव प्रतिभास्यस्यैकत्वं स्यादित्यत आह- अविरतोपलब्धिरूपायाश्चेति-अगृहीतेति- यद्यपि प्रतिक्षणं स्तम्भादीनामन्यान्यभाव इति पूर्वक्षणवृत्तिस्तम्भादिव्यक्तिभ्य उत्तरोत्तरक्षणवतिनीनां स्तम्भादिव्यक्तीनां भेद एव तथापि सौसादृश्यदोषात् स भेदो न गृह्यत इत्यगृहीतभेदा या अन्या अन्यास्तम्भादिव्यक्तयस्तद्विषयकत्वेनाप्युक्तस्वरूपायां अत्रुट्यद्रुपताया उपपत्तिरिति नातः प्रतिभास्यस्यैकत्वमित्यर्थः।
द्रव्यवादी शङ्कते-नन्विति । तथापि उक्तदिशा प्रत्यभिज्ञाया अप्रामाण्यसमर्थनेऽपि । तद्धत्वभावादव विनाशहेत्वभावादेव । कियत्कालं यावन्न विनाशहेतुसमवधानं तावत्कालम् । पर्यायवादी समाधत्ते-नेति । विनाशस्य सहेतुकरवाभावमेव भावयति-तथाहीति । तेषाम् इन्धनादीनाम् । विवादाभावादिति-अस्न्यादीनामङ्गारादौ व्यापार इत्यतोऽरन्यादिभ्योऽजारादीनामुत्पाद इति यदीध्यते तदाऽस्मदादिभिरप्यग्न्यादिभ्योऽझारादीनामुत्पाद इष्यत एवेति तथोपगमे विवादाभावादित्यर्थः। यदि नास्ति विवादस्तत्किमित्थमस्माभिरुपदर्शिते भवद्भिस्तूष्णीम्भूय स्थातव्यमिति पृच्छतिकिन्विति । एवमुपगमे भवत्पक्षे दोषान्तरोपदर्शने सावकाशा एव वयमित्युत्तरयति-- अग्न्यादिभ्य इति । तथैव पूर्ववदेव । तहहे अङ्गारादिलक्षणेन्धनादिनिवृत्तिप्रहे । तदुपलब्धिः इन्धनाद्यपलब्धिः। तस्य अङ्गारादेः । निवृत्तित्वे इन्धनादि