________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
१३७
नवेति सन्देहनिराकरणेनास्य प्रामाण्यसिद्धेविषयातिरेकस्यै(स्ये)व सन्देहापाकरणस्यापि प्रामाण्य निबन्धनत्वात् , न च सविकल्पत्वादेवास्या अप्रामाण्यं, नीलमनुभवामीति विकल्पादविकल्पनीलानुभवस्य सौगतैरिव पूर्वदृष्टं पश्यामीति विकल्पात् , अविकल्पात् तु यद्रुपशब्दानुभवस्यास्माभिः कल्पयितुं शक्यस्वादिति जाग्रत्कत्वं प्रत्यभिज्ञाने कथं क्षणिकपर्यायसिद्धिरित्याशङ्कायामाह
यथा लून-पुनर्जातनखादावेकतामतिः।
तथैव क्षणसादृश्याद् घटादौ द्रव्यगोचरा ॥ १७ ॥ नयामृत०-यथेति । यथा लून पुनर्जातनखादौ भेदाग्रहात् , एकतामतिः- स एवायं नखः' इत्याद्यभेदाभिमानात , तथैव क्षणसादृश्यात्-सदृशापरापरक्षणोत्पत्तिरूपदोषात् , घटादौ द्रव्यगोचरैकतामतिर्भवेत्, तथा च प्रत्यभिज्ञाया भ्रान्तत्वान्न क्षणिकत्वसिद्धिप्रतिबन्धकत्वमिति भावः, न च लून. पुनर्जातनखादौ विच्छेदाभिज्ञैर्भेदग्रहणादस्तु तत्राभेदग्रहो भ्रमः, अत्र तु नैवमिति वैषम्यमिति वाच्यम् , अवगतविच्छेदानामपि प्रमातृणां समानवर्ण-संस्थान-प्रमाणेषु केशादिषु तदन्येषामिव प्रत्यक्षेण भेदनिश्चयाभावात, आनुमानिकभेदनिश्चयस्य चात्रापि साम्यात.नच विकल्पवशादनुभवस्य विषयव्यवस्था दर्शयति-तथाऽपीति- प्रमेयानतिरेकेऽपीयर्थः । अस्य प्रत्यभिज्ञानस्य । विषयातिरेकस्येव प्रमाणान्तरविषयभिन्न विषयकत्वस्येव । सन्देहापाकरणस्यापि सन्देहनिवर्तकत्वस्यापि । ननु निर्विकल्पकप्रत्यक्षमेव प्रमाणम्, प्रत्यभिज्ञा तु सविकल्पात्मिकाऽतो न प्रमाणमित्याशय प्रतिक्षिपति-न चति । अस्याः प्रत्यभिज्ञायाः। निषेधे हेतुमाह-नीलमनभवामीति- अनुभवरूपविकल्पद्वारा निर्विकल्पस्य प्रामाण्यं सौगतैरिष्यते, ततो विकल्पस्य साक्षादप्रामाण्येऽपि स्वजनकनिर्विकल्पकानुभवव्यापारविधया प्रामाण्यम् , तत एव यत्र विकल्पस्तत्र विकल्पात् कार्यानिर्विकल्पकस्यानुमित्यात्मककल्पनमिति नीलमनुभवामीति विकल्पादविकल्पस्यानुभवस्य सौगतैर्यथा कल्पना क्रियते तथा मीमांसकादिभिरपि पूर्वदृष्टं पझ्यामीति विकल्पादविकल्पस्यात्रुट्यपशब्दायनुभवस्य कल्पयितुं शक्यत्वादित्यर्थः । “विकल्पात् , अविकल्पा तु यद्रूपशब्दा. द्यनुभवस्यास्माभिः" इत्यस्य स्थाने 'विकल्पादविकल्पात्रुट्यपशब्दाद्यनुभवस्यास्माभिः' इति पाठो युक्तः । तथा च पूर्वापरैकत्वग्राहिणि प्रत्यभिज्ञाने सति क्षणिकपर्यायसिद्धिन स्यादेवेत्याह-इति जाग्रदिति- अत्र 'जाग्रत्कत्वं प्रत्यभिज्ञाने. इत्यस्य स्थाने 'जाग्रत्यैकत्वप्रत्यभिज्ञाने' इति पाठो युक्तः ॥ विवृणोति-यथेतीति । भेदाग्रहात् लूनेन नखादिना पुनर्जातनखादेभेदस्य ज्ञानाभायात् । 'मानात्
तैथव' इत्यस्य स्थाने 'मानस्तथैव' इति पाठो युक्तः, । 'एकतामतिः' इति मूलस्य विवरणम् -'स एवायं नखः' इत्याद्यभेदाभिमान इति, 'अभिमानः' इत्यनेनोक्त ज्ञानस्य भ्रमत्वमाविष्कृतम्, भ्रमस्य दोषजन्यत्वमिति नियमेन भेदाग्रहस्य कारणत्वमत्र दोषविधयेति बोध्यम् । तथा च सदृशापरापरक्षणोत्पत्तिलपदोषजन्यत्वेन दृष्टान्त-दान्तिकयोवैषम्यमाशय प्रतिक्षिपतिन चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । विच्छेदाभिरिति- यादप्रमाण इदानीन्तननखादिस्ताहकप्रमाणः पूर्वनखादिविनष्ट इत्येवं विच्छेदाभि रित्यर्थः । भेदग्रहणात् पूर्वानुभूतनखादितो वर्तमाननखादेर्भेदस्य ग्रहणात् । तत्र लूनपुनर्जातनखादौ । अभेदग्रहः विच्छेदानभिज्ञस्य भेदामहरूपदोषात् पूर्वानुभूतनखादितो वर्तमाननखादेरभेदग्रहः । भ्रमोऽस्तु भ्रमात्मको भवतु नाम । अत्र तु स एवायं घट इत्यादिप्रत्यभिज्ञायां पुनः । नैवं न कोऽपि पूर्वघटो नष्टोऽन्य एवेदानोन्तनघट इत्येवं विच्छेदाभिज्ञः समस्ति यस्य मेदग्रहो भवेदपि, ततो न पूर्वापरघटेकत्वादिज्ञानं भ्रमः । निषेधहेतुमाह-अवगतविच्छेदानामपीति । तदन्येषामिव अनवगतबिच्छेदानां प्रमातृणामिव । ननु लून-पुनर्जातनख-केशादौ प्रत्यक्षात्मकभेदनिश्चयाभावेऽप्यनुमित्यात्मकभेदनिश्चयः समस्त्येवेत्यत आह-आनुमानिति । अत्रापि प्रत्यभिज्ञानविषयघटादावपि । किञ्च, सोऽयं घट इति प्रत्यभिज्ञानात्मकविकल्पबलान्निर्विकल्पकोऽप्यनुट्यपघटादिगोचर इत्यत्र न प्रमाणमस्ति समानविषयकनिर्विकल्पकमन्तरेणापि वासनादितो विकल्पस्य सम्भवादित्याह-न चेति- अस्य 'सङ्गच्छते' इत्यनेनान्वयः । विषयव्यवस्था यद्विषयको
१८