________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः ।
यो भावो विनाशशब्देनोच्यते, अयं च भावरूपत्वात् तात्त्विका साधनस्वभाव एव विनाशः कार्योत्पत्तिकाले च निवर्तत इति, कार्यभिन्न कालभावेन च सर्वकालमस्य सद्भावो भावस्यासत्त्वात् , यद्वा विनाशो. ऽस्य ( स्यास्तीति ) विनाशीति व्युत्पत्तेरविनाशिव्यावृत्तो भाव एवं नाश उच्यत इति न दोषः । तदेवं क्षणिकाः सर्वे स्वपर्यायाः, त एवार्थक्रियाकारित्वेन सत्या इति नियूंढम् ।। १६ ।।
नन्यस्मिन्नेवायं घट इति प्रत्यभिज्ञाऽनुपपत्तिः, भिन्नेषु घदक्षणेष्वेकत्वस्य प्रतिसन्धातुमशक्यत्वात्, न च प्रत्यभिज्ञा न प्रमाणम्, ___“ तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् " ॥ १ ॥ इति प्रमाणलक्षणयोगात्,
न च स्मृतिपूर्वकत्वात् स एवायमिति प्रत्यभिज्ञानस्य प्रत्यक्षत्वमयुक्तमिति शङ्कनीयम् , सत्संप्रयोगजत्वेन स्मरणपश्चाद्धाविनोऽप्यक्षजप्रत्य यस्य लोके प्रत्यक्षेण प्रसिद्धत्वात्, न च पूर्वापरकालसम्बन्धिद्रव्यस्यैकत्वात् कालस्य चाऽतीन्द्रियत्वात् प्रमेयानतिरेकादस्याप्रामाण्यमिति वाच्यम्, तथापि सोऽयं 'अपास्तम' इत्यनेनान्वयः । तेन ध्वंसस्य भावव्यतिरिक्तत्वस्याविधानेन, सांव्यवहारिककारणनिवृत्तिरूपत्वस्याभ्युपगमेन च। तेन द्वितीयक्षणोत्पत्तिकाले प्रथमक्षण निवृत्तिभावेन । अयं च विनाशशब्दवाच्य एकक्षणस्थो भावश्च । साधन. स्वभाव एवं कारणस्वभाव एव, कारणात्मैवेति यावत् । यदा च कारणस्वरूपोऽयं तात्त्विक्तो विनाश एकक्षणस्थ एव, कार्यकाले च नश्यति तदाऽस्थ नाशस्य कार्यभिन्नकाल एव भावेन कार्यकालेऽसत्त्वान्न सर्वकाले सद्भावः, कारणस्वरूपस्यास्य कारणस्य सर्वदाऽभावेऽस्यापि सर्वदाऽभावादित्याह-कार्यभिन्नकालभावेन चेति । 'सर्वकालमस्य' इति स्थाने 'न सर्वकालमस्य' इति पाठो युक्तः । अस्य साधनस्वभावस्य विनाशस्य । भावस्यासत्वात् साधनस्य सर्वकालमसत्वात् । भावत्यैव विनाशशब्दवाच्यत्वमतव्यावृत्तिमुखेन दर्शयति- यद्धति- यथा घटत्ववत्त्वं घटत्वमेव तथा विनाशित्वं विनाश एव, घटत्वादीनां यथाऽघटव्यावृत्त्यादिरूपत्वं तथा विनाशस्याप्यविनाशिव्यावृत्तिरूपत्वम्, पर्यायनये च भावा विनाशिन एवेति भवन्त्यविनाशिन्यावृत्ताः, तत्त्वादेव च नाशरूपत्वमेषां न तु नाशो नामातिरिक्त भावेभ्य इति हृदयम् । पर्यायार्थिकमते द्रव्यं नास्त्येव, पर्याया एव तु सत्या अर्थकियाकारित्वलक्षणसत्त्वयोगादित्युपसंहरति- तदेवमिति । त एव पर्याया एव । नियंदं सुव्यवस्थितम् ॥ १६ ॥
सप्तदशपद्यमवतारयति-नन्विति । 'नन्वस्मिन्नेवार्य' इत्यस्य स्थाने 'नन्वस्मिन् नये स एवायं' इति पाठो युक्तः । अस्मिन् नये पर्याथिकनये । प्रत्यभिज्ञानुपपत्तौ हेतुमुपदर्शयति-भिन्नेष्विति- एकसन्तानगता ये पूर्वोत्तरकालवर्तिनो घटक्षणास्तेऽन्योऽन्यं भिन्ना एव, तेष्वेकत्वस्थारातः प्रतिसन्धातुमशक्यत्वादित्यर्थः। ननु प्रत्यभिज्ञा न प्रमारूति तस्या अनुपपत्तिर्न दोषाव हेत्याशङ्कय प्रतिक्षिपति-न चेति । प्रमाणस्य यलक्षणमन्यन्त्र क्लप्तं तस्य प्रत्यभिज्ञायामपि सत्त्वेन प्रमाणलक्षणयोगात् प्रत्यभिज्ञायाः प्रामाग्यस्यावश्यं स्वीकरणीयत्वादिति निषेधहेतुमुपदर्शयति-तत्रेति । अधिगतार्थाधिगन्त. ज्ञानेऽतिव्याप्तिवारणाय 'अपूर्वार्थविज्ञानम्' इति । संशयेऽतिव्याप्तिवारणाय 'निश्वितम्' इति । बाधितार्थविषयके विभ्रमेऽतिव्याप्तिवारणाय 'बाधवर्जितम' इति । यश्च विपर्ययोऽसदर्थविषयकोऽपि स्वविषयेऽजातबाधः स बाधवर्जितो भवत्येवेति नजातिव्याप्तिवारणाय 'अदुष्टकारणारब्धम' इति । प्रत्यभिज्ञायाः प्रत्यक्षरूपत्वेन प्रामाण्यं मीमांसका अभ्युपगच्छन्ति, तत्र प्रत्यक्षत्वमसहमानस्य वादिन आशङ्कामुद्भाव्य प्रतिक्षिपति-न चेति- अस्य 'शङ्कनीयम्' इत्यनेना. न्वयः । निषेधे हेतुमाह-सत्संप्रयोगजत्वेनेति- सता वर्तमानेनार्थेन सहेन्द्रियस्य यः संप्रयोगः सन्निकर्षस्तजन्यत्वेनेत्यर्थः, इन्द्रियार्थसंप्रयोगजन्यज्ञानत्वं प्रत्यक्षस्य लक्षणम्, तच्च प्रत्यभिज्ञानेऽपि समस्तीति स्मरणपृष्ठभाविनोऽप्यस्य लोके प्रत्यक्षण प्रसिद्धत्वात् प्रत्यक्षत्वं स्त्रीकरणीयमित्यर्थः । पूर्वज्ञानेनोत्तरज्ञानेन च यदेव द्रव्यं विषयीक्रियते तदेव प्रत्यभि. ज्ञानेनापि विषयीक्रियते, कालस्त्वतीन्द्रियत्वादेव न प्रत्यभिज्ञाप्रत्यक्षविषय इति यदेव प्रमाणान्तरस्य प्रमेयं तदेवास्यापि प्रमेयमिति प्रमेयानतिरेकात् प्रत्यभिज्ञानस्य न प्रामाण्यामित्याशय प्रतिक्षिपति-न चेति- अस्य वाच्यम्' इत्यनेनान्वयः । अस्य प्रत्यभिज्ञानस्य । प्रमेयानतिरेकेऽपि मानान्तरानिवर्त्य संशयनिवर्तकत्वेन प्रत्यभिज्ञानस्य प्रामाण्यमिति निषेधहेतुमुप