________________
नयामततरहिणी-सरक्षिणीतरणिय समहतो गयोपदेशः।
विनाश" [
] इति वचनात् , एवं च कारणेन सह कार्यमुत्पन्न मिति प्राप्तम् , यदि च स एव विनाशस्तदा प्रथमेऽपि क्षणे न सत्ता भावस्य स्यात् , तदैव विनाशात् , भावस्यैव विनाशत्वे सर्वदा भावस्य सत्त्वं वा स्यात् , अन्यथा क्षणोत्तरं तन्नाशाभ्युपगमस्याप्रामाणिकत्वप्राप्तेः, अथ कारणोत्पादात् कारणविनाशो भिन्नस्तदा कृतकत्वस्वभावत्वमनित्यत्वस्य न भवेत् , उत्पाद-विनाशयोस्तादात्म्यसम्बन्ध एव तस्य वक्तुं शक्यत्वात् , व्यतिरिक्त च नाशे समुत्पन्ने न भावस्य निवृत्तिरिति कथं क्षणिकत्वम् "इति तन्निरस्तम् , यतो द्विविधो विनाश:-संव्यवहारार्थस्तात्विकश्व, आद्यो भावनिवृत्तिरूप एव, द्वितीयश्च भावरूपः, तत्र कारणनिवृत्तिरूपोऽभावो लोकप्रतीत एत्र, नायं भावस्वभाव इष्यते, नापि कारणोत्पादभिन्नोऽभिन्नो वा नीरूपत्वात् , भेदाभेदप्रतिषेध एव केवलमस्य क्रियते, तदुक्तम्-" भावे सेकविकल्पः स्याद् विधेर्वस्त्वनुरोध[तः]" [
] इति, तेन व्यतिरिक्ते नाशे जाते क्षणिक रूपस्य भावस्यानिवृत्तिरित्यपास्तम् , यतश्च द्वितीयक्षणोत्पत्तिकाल एव प्रथमक्षणनिवृत्तिस्तेनैकक्षणस्थो विनाश इति समकालीनवं कार्य कारणविनाशयोरुपेयते तदा तयोः कार्यकारणभावो न स्यादित्यर्थः। तत्र हेतुमाह- यत इति । एवं च कारणविनाशस्य कारणोत्पादरूपत्वे च, कारणविनाशस्य कारणोत्पादरूपत्वे च यदा कारण विनाशस्तदा कारणोत्पाद एव, तथा च कात्पित्तिकाले कारण विनाशो नाम कारणोत्पाद इति समकालोत्पत्तिकयोः कार्यकारणयोः कथं कार्यकारणभाव इत्यर्थः । यदि च कारणविनाश एव कारणोत्पाद इत्युपेयते तदा कारणमुत्पद्यत इत्युक्त्या कारण विनश्यतीत्येव प्रतीयते, तथा च यदा कारणोत्पादस्तदा कारणविनाश एवेति प्रथमक्षणेऽपि कारणविनाशस्यैव प्राप्तौ कारणस्य प्रथमक्षणेऽपि सत्त्वं न स्यादित्याह- यदि च स एव विनाश इति- अत्रैवकारो विनाश इत्यनन्तरं योज्यः, तथा च स विनाश एवेत्यन्वये कारणोत्पादः कारणविनाश एवेत्यर्थो लभ्यते । तदैव प्रथमक्षण एव । यदि च विनाशो न भावाद् भिन्न: किन्तु भावस्यैव विनाशत्वं तदा प्रथमक्षणे भावोऽस्तीति निर्विवादं द्वितीयक्षणेऽपि भावविनाशस्य सत्त्वे भावस्यैव सत्वमिति सर्वदा भावस्य सत्त्वं स्यादित्याह-भावस्यैव विनाशत्व इति। अन्यथा भावस्य सर्वदा सत्वाभावे । क्षणोत्तरं द्वितीयक्षणे। तन्नाशाभ्युपगमस्य भावनाशाभ्युपगमस्य । अप्रामाणिकत्वप्राप्तः अप्रामाणिकत्वप्रसङ्गात् , यतो भावो यदि द्वितीयक्षणे सत्तामनुभवेत् तदा तद्रूपो भावविनाशोऽपि द्वितीयक्षणे स्यात् , भावस्य द्वितीयक्षणेऽसत्त्वे च तपस्य तन्नाशम्यापि द्वितीयक्षणेऽसत्त्वमेवेति द्वितीयक्षणे तन्नाशाभ्युपगमस्यासद्विषयकत्वेनाप्रामाणिकत्वमयत्नोपनतमित्यर्थः । यदि च कारण विनाशः कारणोत्पादा भिन्न एव, तथा च द्वितीयक्षणे कारण विनाशसद्भावेऽपि न कारणसद्भाव इति न कारणस्य सर्वदा सत्त्वापत्तिस्तहि कृतकन्वेन हेतुना विनाशित्वं यच्छन्दादीनां साध्यते तत्र कृतकत्वहेतुः खभावतयैवानित्यत्वस्य साधक: क्षणिकवादिनोऽभिमतः, स्वभावहेतुश्च स एव भवति यस्य साध्येन सह तादात्म्यम् तच्च कृतकत्वमुत्पादरूपमनित्यत्वं विनाशरूपं तयोरभेद सत्येव घटते, कारणविनाशस्य कारणोत्पादा भिनत्वे कृतकत्वा-ऽनित्यत्वयोस्तादात्म्यलक्षणाविनाभावाभावात् कृतकत्वेनानित्यत्वानुमान न स्यादित्याह- अथेति । तस्य अनित्यत्वे कृतकत्वस्वभावत्वस्य । कारणविनाशस्य कारणाद् भेदे कारणविनाशस्य समुत्पादेऽपि कारणस्य न किमपि जातमिति न तस्य निवृत्तिरिति न क्षणिकत्वं स्थादित्याह- व्यतिरिक्त चेति । अविद्धकयुक्तस्य निरसने हेतुमुपदर्शयति- यत इति । आद्यः सांव्यवहारिकः । द्वितीयश्च तात्त्विकः पुनः। तत्र तयोविनाशयोर्मध्ये । नायं भावस्वभाव इष्यते कारण निवृत्तिरूप: सांध्यवहारिको विनाशो भावस्वरूपो नेष्यते । नापीति - कारणनिवृत्तिरूपो विनाशः कारणोत्पादाद् भिन्नोऽभिन्नो वा नापीध्यते । तत्र हेतु:-नीरूपत्वादिति- कारणनिवृत्तिरूपस्य विनाशस्य तुच्छत्वात् , तुच्छे च भावस्वभावत्वादिकं न संभवत्येवेत्यभि. सन्धिः। अस्य कारणनिवृत्तिरूपस्य ध्वंसस्य । अत्र वृद्धबौद्धसंवादमाह- तदुक्तमिति 1 'भावे ह्ये कविकल्पः स्याद्' इत्यस्य स्थाने 'भावे ह्येष विकल्पः स्याद । इति पाठो युक्तः, एष विकल्पो भिन्नो वाऽभिन्नो वेत्येवंस्वरूपो विकल्पः, हि यतः, भावे वस्तुस्वरूपे, स्याद भवेत् , विधेः भेदाभेदादिविधानस्य, बस्त्वनुरोधतः वस्तुन्येव संभवात् , प्रतिषेधस्य तु न वस्त्वनुरोधोऽतो नीरूपेऽपि भेदा-ऽभेदप्रतिषेधः कर्तुं शक्य इत्याशयः। तेन' इत्यस्य