________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
रादिना रहिता सामग्री अविभक्तं कार्य सम्पादयति, तत्सन्निधाने तु विभक्त कार्यान्तरं जनयतीति विशेषः, न तु मुद्रादयः कारणसामर्थ्य खण्डयतीति । अथायं विकल्पोऽतिप्रसञ्जकत्वादसारः, तथाहिउत्पादेऽप्येवं शक्यत एव वक्तुम्--स्वभावतो ह्युत्पत्तिस्वभावस्य न किञ्चिदुत्पत्तिहेतुभिः, तत्तत्स्वभावतयैव समुत्पादात् , अनुत्पत्तिस्वभावस्य तु व्यर्था उत्पत्तिहेतवः, तथा चान्यथात्वस्य कर्तुमशक्यत्वात् , भैवम्-अभूत्वाभवनलक्षणायामुत्पत्तौ च भावगर्भायां हेतोरकिञ्चित्करस्वस्येष्टापत्तेः, उत्पत्तिस्वभावभावीति मुखीभूते कारणकलापे कार्यकारित्वव्यपदेशहेतौ अकिश्चित्करत्ववचनस्य च व्याहतत्वात् , उत्पत्ति-ध्वंसस्वभावात्मको भात्रः सहेतुक एव, उत्पत्ति-ध्वंसयोः सांवृतयोस्त्वहेतुः, कथं ? केवलं भाव. नामपि । पर्यायवादी प्रतिक्षेपहेतुमुपदर्शयति- यत इति । ते च परस्परविविक्तपूर्वापरक्षणाश्च । यदि निरुक्तलक्षणप्रवाहः स्वभावत एव निरुद्धयते तर्हि मुद्रादीनां क उपयोग इत्यपक्षायामाह-केवलमितिः। तत्सन्निधाने तु मुद्रादिसन्निधाने पुनः । द्रव्यवादी पर्यायवादिनं प्रति प्रतिबन्दी गृह्णन् शङ्कते- अथेति । अयं विकल्पः 'किञ्च स्वभावतो भावानां नश्वरत्वे' इत्यादिना दर्शितो विकल्पः । अतिप्रसञ्जकत्वात् उत्पादस्य सहेतुकत्वं त्वयाऽप्युपेयते, तत्राप्युक्तविकल्पप्रसरादुत्पादहेतुवैयर्थ्यप्रसङ्गलक्षणातिप्रसङ्गहेतुत्वात् । उत्पादहेतुवैयर्थ्यप्रसङ्गलक्षणातिप्रसङ्गमेव भावयति-तथाहीति । 'तत्तस्वभावतयैव' इत्यस्य स्थाने 'तत्स्वभावतयैव' इति पाठो युक्तः, उत्पत्तिस्वभावतयैवेति तदर्थः । यद्यनुत्पत्तिस्वभावो भावस्तदा कारणसहस्तव्यापारणेनाप्युत्पत्तिस्वभावो न भवितुमर्हतीत्युत्पत्तिहेतूनां वैयर्थ्यमित्याह-अनुत्पत्तिस्वभावस्य स्विति । 'तथा चान्यथात्वस्य' इति स्थाने 'तथात्वान्यथात्वस्य, तत्स्वभावान्यथात्वस्य' इति वा पाठः समीचीनः, पाठदयेऽपि अनुत्पत्तिस्वभावान्यथात्वस्येत्येवार्थः । पर्यायवादी समाधत्ते-- मैवमिति । 'च भावगर्भायाम्' इत्यस्य स्थाने 'चाभावगर्भायाम्' इति पाठो युक्तः, य उत्पद्यते स उत्पत्तिस्वभाव एव, तनोत्पत्तिरभूत्वाभवनलक्षणाऽभावगर्भा यतोऽभवनमभाव एव तत्र सन्निविष्टः, तस्यां च हेतोरकिञ्चित्करत्वस्येष्टापत्तेः, तत्र हेतोरकिञ्चित्करत्वेन तदापादनस्येष्टत्वादित्यर्थः । तत्र हेतुमाह-उत्पत्तीति- अत्र “उत्पत्तिस्वभावभावीति मुखीभूते" इत्यस्य स्थाने " उत्पत्तिस्वभावभावित्वात् तस्याः, तदुन्मुखीभूते” इति पाठः सङ्गतिमङ्गति, तदर्थस्तु-तस्थाः अभूत्वाभवनलक्षणाया उत्पत्तेः, भावस्य य उत्पत्तिस्वभावस्तद्धावित्वात् , एवमपि उत्पत्तिहेतावुत्पत्तिस्वभावभावोन्मुखीभूते कारणकलापे, कार्यकारित्वव्यपदेशहेती उत्पत्तिस्वभावभावोन्मुखे कारणकलापे सति अयं कारणकलापः कार्यकारीति व्यपदे निरुक्तकारणकलापाभावे कार्यकारोति व्यपदेशो न भवतीत्यन्वय.व्यतिरेकाभ्यां कार्यकारित्वव्यपदेशात्मककार्यकारिणि निरुक्तकारणकलापै, अकिञ्चित्करत्ववचनस्य 'स्वभावतो ह्युत्पत्तिस्वभावस्य न किश्चिदुत्पत्तिहेतुभिः' इति वचनस्य, व्याहतत्वात् अर्थकारिण्यर्थकारित्वाभाववचनस्य वन्ध्या पुत्रवतीतिवचनवद् व्याहतत्वादित्यर्थः । पर्यायवादी स्वविचारनिश्यूतमर्थमुपदर्शयति-- उत्पत्तीति- 'भावः' इत्युक्त्या तत्र हेतुळयापारसाफल्यमावेदितम्, अभाव तु तुच्छरूपे शश शुङ्गादाविव हेतुव्यापारस्य वैफल्यम्, नहि हेतुसहस्रव्यापारेऽप्यभावो भावो भवितुमईतीति भवनप्रयोजकस्य हेतोस्तत्र वैफल्यमेवेत्याशयः । ननु ,सस्वभावस्य भावस्य सहेतुकत्वाभ्युपगमे नितुको ध्वंस इति वचनमसङ्गतं भवतः प्रसज्यत इत्यत आहउत्पत्तिध्वंसयोरिति । "सांवतयोस्त्वहेतः, कथम?" इत्यस्य स्थाने “सांवृतयोस्त्वहेतुत्वकथनम्" इति पाठः समीचीन:, भावस्वरूपा योत्पत्तिः भावस्वरूपो यो ध्वंसस्तयोः सहेतुकत्वमेव, किन्तु सांवृतयो:-- कल्पितयोस्तुत्पत्तिध्वंसयोरहेतुत्वकथनमित्यर्थः । ननु यदि सांवृतयोरुत्पत्तिविनाशयोर्द्वयोरप्यहेतुत्वकथनं तर्हि किमित्युत्पत्तेः संहतुकत्वव्यवहारो नाशस्य चाहेतुकत्वव्यवहारः, अहेतुकत्वाविशेषे सांवृतमोईयोरप्यहेतुकत्वव्यवहार एव समुचित:, भावात्मकयोश्च तयोः सहेतुकत्वाविशेष सहेतुकाचव्यवहार एव वा समुचित इत्यत आह-केवलमिति- किनित्वत्यर्थः । भावेति-अभूत्वाभवनलक्षणा योत्पत्तिस्तस्यामभूत्वेत्यनेनाभावांशो यः सन्निविष्टस्तस्मिस्तुच्छरूपे कारकव्यापारो न सफल इत्यभावांशमुपादाय तत्र तोरकिञ्चित्करत्वेनाहेतुकत्वम् , यश्च तत्र भवनांशो भावरूपस्तत्र सन्निविष्टस्तत्र हेतुव्यापारः सफल एवेति तदंशमुपादायोत्पत्तेः सहेतुकत्वमपि सम्भवतीति तदेशमुख्यतया तदुत्पत्तित्वं तेन सहेतुकत्वव्यवहार उत्पत्तौ घटते, नाशस्य तु न लक्षणस्वरूपसन्निविष्टो भावांशः किन्तु निवृत्तिस्वरूपतुच्छत्वमेव ध्वंसत्वं तेनाभावस्य मुख्यतया तत्र हेतुव्यापारः कथञ्चिदपि न