Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१३२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
भेदेन समर्था-ऽसमर्थतया भेदापतिरिति चेत् ? न-- वस्तुनः स्वकाले समर्थस्य कालान्तरेऽसमर्थतया संवृत्यैव व्यवहारात् , अभावानुप्रवेशेन वस्तुसिद्ध्यापादने शशविषाणादेरपि सिद्धिप्रसङ्गात् ; अत एव क्षणिकस्यापि प्रथमं सतः पश्चादसत्त्वे स्वभावविपर्यय इति निरस्तम् , स्वदेश-कालस्थस्यैवान्यदेश-कालयोरसद्व्यवहारकारिस्वभावाभ्युपगमेनैवोपपत्तेः, निषेधव्यवहाराद् विधिव्यवहारस्य बलवत्त्वे लाघवमेव विनिगमकम् । ननु क्षणिकपक्षे क्षणिकानामेव हेतुत्वे तत्तत्क्षणोत्पन्नानामुदासीनानामपि हेतुत्वं किं न स्यादिति चेत् ? न-- कुर्वद्रूपत्वजात्या प्रसिद्धहेतूनामेवानुगमेनान तिप्रसङ्गात् , अन्वय-व्यतिरेकाभ्यां पर्यायवादिनः समाधानान्तरं स्वेष्टापादनानुकूलतयोपदर्शयति- असामर्थ्यादेवेति- स्वकालस्थो भावः तदर्थक्रियां प्रत्यसमर्थत्वादेव न करोतीत्यर्थः। स्थैर्यपक्षे सामाऽसामर्थ्यलक्षणविरुद्धधर्माध्यासात् स्थिरस्य भावस्य भेदापत्तिर्या त्वयो• दुघोष्यते सा तव मतेऽपि क्षणिकस्य भावस्य संलग्नत्याह--तीति । भवन्मते स्थिरो भावो यथाऽभिमतकार्यकालसमये वर्तते तथा कालान्तरेऽपि वर्तत इत्यभिमतकालावच्छेदेन तत्कार्य प्रति सामर्थ्यवत् कालान्तरावच्छेदेन तत्कार्य प्रत्यसामर्थ्यमपि तस्य वस्तुभूतमेवैति वस्तुभूतसामा-ऽसामथ्र्यलक्षणविरुद्धधर्माध्यासात् स्थिरस्य भावस्य भेद आपादयितुं शक्यते, वस्तुतः स्वकाले स्वार्थक्रिया प्रति समर्थस्य क्षणिकस्य भावस्य कालान्तरे न सत्वमिति तदानीमसति तस्मिन् न सामर्थ नाप्यसामर्थ्य वस्तुतः समस्ति, अथापि कालान्तरेऽसमर्थतया तस्य या व्यवहृतिः सा संवृत्यैव भवति, तथा च संवृत्याऽसमर्थतया व्यवहाराद् बस्तुभूतस्यासामर्थ्यलक्षणविरुद्धधर्मस्य सिद्धयभावेन न तादृशधर्माध्यासतः क्षणिकभावस्य भेद आपादयितुं शक्यत इत्याश यवान् पर्यायवादी द्रव्यवाद्युद्भावितामाशां प्रतिक्षिपति-नेति । 'संवृत्यैव' इत्येवकारेण प्रमित्याऽसमर्थतया व्यवहारस्य प्रतिक्षेपः। ननु कालान्तरे क्षणिको भावोऽसत्वात् समर्थो न भवतीत्येतावताऽसामर्थ्यमयत्नोपनतमेव सामर्थ्याभावस्यासामर्थ्यरूपत्वादिति भक्त्यसामर्थ्यलक्षणवस्तुसिद्धिरित्यत आह-अभावानप्रवेशेनेतिअभावशरीरसन्निविष्टत्वेनेत्यर्थः, तच्च प्रकृते असामथ्यभावे सामर्थ्य नास्तीत्येवस्वरूपोऽभाव एव नोपपद्यत इत्यभावस्वरूपोद्वलकत्वं बोध्यम् , शशविषाणं नास्तीत्येवं प्रतीयमानाभावशरीरे प्रतियोगितया सन्निविष्टस्य शशविषाणादेरप्यभावानु. प्रवेशेन सिद्धचापत्त्या वस्तुत्वं स्यादतः संकृत्यैव यथा निषेध्यतया व्यवह्रियमाणत्वं शशशङ्गादेरिति न वस्तुत्वं तथा संवृत्यैव व्यवह्रियमाणस्या सामर्थ्यस्य न वस्तुत्वमित्यांशयः । 'अत एव' इत्यस्य 'निरस्तम्' इत्यनेनान्वयः । स्वभावविपर्ययः स्वभावस्य सत्त्वस्य विपर्ययोऽसत्त्वम् , तथा च सत्त्वाऽसत्त्वरूपविरुद्धधर्माध्यासात् क्षणिकस्यापि भेदापत्तिरित्यर्थः । 'अत एव' इति निर्दिष्टमेव निरासहेतुमुपदर्शयति- स्वदेश-कालस्थस्यैवेति-- यस्मिन् देशे यस्मिन् काले वर्तते क्षणिको भावस्तद्देश-कालस्थस्यैव तस्यान्यदेश-काल योऽसद्व्यवहारस्तस्क रिस्वभाव इत्यभ्युपगमेन देशान्तरकालान्तर. योरसद्व्यवहारस्योपपत्ते सत्वं धर्मान्तरं तस्योपैयत इति न स्वभावविपर्यय इति भावः । ननु क्षणिकस्य भावस्य स्वदेशकालयोः सदबुद्धया यथा सद्व्यवहारो भवति तथा देशान्तर-कालान्तरयोरसद्बुद्धयाऽसद्व्यवहारोऽपि भवति, एवं च विनिगमकाभावात् किमिति सद्बुद्धिप्रभवसस्यवहारबलात् सत्यमेवोप्यते, असद्बुद्धिप्रभवासद्व्यवहारबलान्नासत्त्वमित्यत आहनिषेधव्यवहारादिति-- असत्त्वलक्षणनिषेधविषयकासन्यवहारात सत्त्वलक्षणविधिविषयकव्यवहारस्य बलवत्त्वे लाघवमेव विनिगमकम् , निषेधव्यवहारे निषेध्यज्ञानस्याप्यपेक्षा विधिव्यवहारे तु व्यवहर्तव्यविधिमात्रज्ञानापेक्षेति लाघवं स्फुटमेवेति ।
ननु क्षणभङ्गपक्षे पूर्वपूर्वक्षणस्योत्तरोत्तरक्षणं प्रति यत् कारणत्वं तत्र कार्यस्वरूपानुस्यूतत्वं न नियामक किन्तु कार्याव्यवहितपूर्वकालवृत्तित्वमेव, तम यथा वसन्तत्यनुपतितपूर्वपूर्वक्षणे तथा सन्तानान्तरगतोदासीनक्षणेऽपि समम्ति, एकसन्तानान्तर्गतपूर्वक्षणस्य यथा तदव्यवहितोत्तरक्षण जायमानतत्सन्ततिगतका व्यवहितपूर्ववर्तित्वं तथा तत्क्षणसमानकालीनाना सन्तानान्तरवर्तिनामपि क्षणानामुदासीनानामिति तेषामपि तत्कारणत्वं स्वादिति शङ्कते- नन्विति यत्कार्यकुर्वद्रपात्मना स्वकारणतो यदुत्पन्नं तत् तत्कुर्वपत्वेन तत्कार्य प्रति कारणमित्येव पर्यायवादिना स्वीक्रियते, एकसन्ततिपतितपूर्वपूर्वक्षणानामेवैकसन्ततिपतितोत्तरोत्तरक्षणं प्रति कारणत्वं नोदासीनानामिति नोदासीनानामव्यवहितपूर्वक्षणवर्तिनां कारणत्वप्रसङ्ग इति पर्यायवादी समाधत्ते-न-कुर जात्येति । प्रसिद्धहेतूनामेवेति- यद् यत् कार्य प्रति यद् यत् कारणतया प्रसिद्ध सस्य तस्यैव तत्तत्कार्यकुर्वपत्वेन तत् तत् कार्य प्रति कारणत्वमित्युदासीनानां प्रसिद्धहेतुभिन्नानां तत्तत्काव्यिवहितपूर्वक्षण

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210