Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 156
________________ नयामुततरि गीतरणिभ्यां समको नयोपदेशः । - रनन्तरमेव तत्कार्यकरणप्रसङ्गात् सामग्र्याः कार्योत्पत्तिव्याप्यत्वापेक्षया कुर्वद्रूपत्वसामर्थ्यवतः कारणस्यैव कार्योत्पत्तिव्याप्यत्वे लाघवात् त्वया हि स्वेतर कारणविशिष्टबीजत्वादिनाऽङ्कुराद्युत्पत्तिव्याप्यत्वं कर्त्तव्यम्, मया तु कुर्वद्रूपत्वेनैवेति एतेन 'क्षणिकोऽपि भावः कुर्वद्रूप : सहकारिभिः सहैव करोतीति नियतस्वभावश्चेत् ? अन्वयवत् तैर्विना (न) करोत्येवेति व्यतिरे कोऽप्यवर्जनीयः, अन्वयव्यतिरेकनियमयोर्मिथो नान्तरीयकत्वमिति त्वदीयसिद्धान्तात् तथा च व्यतिरेकनियमे सहकारिणः स्वकारणादापत तोऽपि निवार्य न कुर्यात्, तैर्विना न करोतीति स्वभावाप्रच्यवात्; अथ स्वभावाधीनसन्निधीनां सहकाकारणसमुदायलक्षणसामम्यनन्तरत्वं तस्मिन् क्षणे तत्कार्योत्पत्तिः' इत्येवंरूपमुपगम्यत इति नैककारणोत्पत्त्यनन्तरकाल एष तत्कार्योत्पत्तिः, किन्तु सामध्यनन्तरसमय एव सेत्यत आह- सामय्या इति । लाघवमेव स्पष्टयति- स्वयेति- स्थिरवादिनेत्यर्थः । ' स्वेतर कारण' इति स्थाने ' स्वेतरसकलकारण ' इति पाठो युक्तः । मया तु क्षणिकवादिना पुनः । ' एतेन ' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः, एतेन स्थैर्यवाद्यवश्याभ्युपगन्तव्यस्य स्वेतर कारणविशिष्टबीजत्वादिना बीजादिरूपकारणस्याङ्कुरादिकार्योत्पत्तिव्याप्यत्वस्य- ' यदा य स्वेतर कारणविशिष्टबीजादिकं तदा तत्राङ्कुरायुत्पत्तिः' इति नियमस्य कल्पनापेक्षया क्षणिकवाद्यभ्युपगतस्य तत्तत्कार्य कुर्वद्रूपत्वेन बीजादिकारणस्याङ्कुरादिकार्योत्पत्तिव्याप्यत्वस्य - ' यदा यत्राकुरकुर्वदात्मकं बीजं तदा तत्राङ्कुरोत्पत्तिः' इत्यादिनियमरूपस्य कल्पने बीजादिरूपकारणे स्वेतर कारणवैशिष्ट्यस्य व्याप्यतावच्छेदकतयाऽप्रवेश प्रयुक्तलाघवेन । क्षणिकोऽपि भावो बीजादिरङ्कुरादिकुर्वद्रूपः सलिल-धरणि-धामादिलक्षणसहकारिभिः सहैवाङ्कुरादिकार्यं करोतीत्येवं स्वरूपनियत्तस्वभावो यदि तदाऽयं स्वभावो विधिरूपत्वादन्वयः सकलसहकारिसहित एव क्षणिककुर्वद्रूपात्मको बीजादिभावोऽङ्कुरादि कार्य करोतीत्येवंरूपो यथाऽभ्युपगमस्तथाऽत्रैवकारार्थप्रवेशसामर्थ्यात् क्षणिकोऽपि कुर्वदूपो बीजादिः सहकारिभिर्विना न करोत्येवाङ्कुरमित्ययं स्वभावो निषेधरूपत्वाद् व्यतिरेको ऽप्यवश्यमभ्युपगन्तव्यः क्षणिकवादिना, ' यत्रान्वयस्तत्र व्यतिरेकोऽपि ' ' यत्र व्यतिरेकस्तत्रान्वयोऽपि ' इत्येवं स्वरूपमन्वयव्यतिरेक नियमयोर्मियो नान्तरीयकत्वं - परस्परव्याप्यत्वं न स्थैर्यवादिभिरेवाभ्युपगतं किन्तु क्षणिकवादिना बौद्धेनाप्यभ्युपगतमिति स्वसिद्धान्तादप्यस्वयनियमं सहकारिभिः सहैव कुर्यद्रपः क्षणिको भावः कार्य करोतीत्येवंस्वरूपमभ्युपगच्छतो बौद्धस्य क्षणिकः कुर्वद्रूपो भावः सहकारिभिर्विना न करोत्येव कार्यनित्येवं स्वरूपव्यतिरेकनियमाभ्युपगन्तृत्वं स्यादेवेत्याह- अन्वयव्यतिरेक नियमयोरिति - अन्वयव्यतिरेकव्याप्योरित्यर्थः । मिथोनान्तरीयकत्वं परस्परव्याप्यत्वम्, समनियतस्वमिति यावत् । इति एवम् | त्वदीयसिद्धान्तात् बौद्ध सिद्धान्तान् । 'व्यतिरेकोऽप्यवर्जनीयः' इति पूर्वस्मिन् हेतुः । तथा च यत्रान्वयनियमस्तत्र व्यतिरेकनियमोऽपीत्यस्य व्यवस्थितौ च । व्यतिरेकनियमे क्षणिकोऽपि कुर्वेपो भावः सहकारिभिर्विना न करोतीत्येवेति नियमे । आपततोऽपि स्वनिकटमा गच्छतोऽपि । निवार्य निवर्त्य । न कुर्यात् कुर्वपोऽपि भावः कार्यं न कुर्यात् । तत्र हेतु: - तैर्विना न करोतीति स्वभावाप्रच्यवादिति- यदि सहकारिणस्तत्सन्निधिमागच्छेयुरेव 'तैर्विना' इत्यस्य 'न करीति' इत्यस्य चाभावे सहकारिविरहयुक्त कार्यकारित्वाभावस्वरूपस्य ' तैर्विना न करोति ' इति स्वभावस्यैवाभावप्रसङ्गादित्यर्थः । प्रतिबन्द्या प्रतिविधानं कर्तुमिच्छुरुदयनाचार्य:- सम्भावनाविषयीभूतार्थप्रतिपादको यदिशब्दः, सम्भावनाविषयीभूतार्थश्च क्वचिद् विधिरूपः क्वचिच्च निषेधरूपः, द्विविधोऽप्ययमर्थो यथार्थाऽयथार्थभेदेन द्विविधः, तत्र यनेष्टापादनरूपः प्रसङ्गस्तत्र सम्भावनाविषयी भूतोऽर्थो यथार्थः, यथा यदि पर्वते धूमः स्याद् वह्निरपि स्यादित्यत्र हि धूमौ पर्वताधिकरणको विधिरूपौ यथार्थी, यथा वा - हदे यदि वहिर्न स्याद् धूमोऽपि न स्यादित्यत्र हृदाधिकरणको भाव - धूमाभावो निषेधरूपौ यथार्थी, यत्र चानिष्टापादनरूपः प्रसङ्गस्तत्र सम्भावनाविषयी भूतोऽर्थोऽ• यथार्थः, यथा - यदि हदे धूमः स्याद् वह्निरपि स्यादित्यत्र हदे वहि- धूमौ विधिरूपावयथार्थी, यथा वा - पर्वते यदि वह स्याद् धूमोऽपि न स्यादित्यत्र पर्वते वह भाव धूमाभावो निषेषरूपावयधार्थी, एवं च यद्यर्थघटित स्वभावावप्यन्वयव्यतिरेकौ क्वचिदप्यधिकरणे सम्भाव्यमानौ तथा भवतः, न तयोराश्रये सत्त्वं तद् यावदाश्रयकालनियतकालमेवेति नियम इति कुर्व कारणे सहकारिसमवधानैकनियते कार्यकारित्वलक्षणान्वयैकनिलये यद्यर्थघटित सहकारिसमवधानाभावसहितकार्यकारित्वाभावलक्षणव्यतिरेकोऽसन्नपि कल्पनापश्रमवतरतीति पराकूतमुत्प्रेक्ष्य परशङ्कामुत्थापयति- अथेति । स्वभावाधीननिधीनां कुर्वपात्मक कारणरूपेऽवश्यं सन्निहितेन भाव्यमित्येवम्भूतस्वभावाधीनसन्निधीनाम्, अथवा प्रतिनियत कारणेभ्यः १३०

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210