Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
१२९
स्याङ्करं स्यादित्यापादयितुं शक्यत्वात् , न द्वितीयः- एकस्यापि क्षणस्य स्वभावभेदेन भेदापत्तः, तव मते स्वभाव-स्वभाववतोरभेदाभ्युपगमादिति वाच्यम्, इतरसाहित्यनियतायां फलोपधानलक्षणाया. मपेक्षायां आणिकस्य सापेक्षत्वादेव समर्थस्य सहकार्यव्यभिचारात् , योग्यत्वे सतीतरव्यतिरेकात् कार्याभाववत्त्वलक्षणायां चापेक्षायां तस्य निरपेक्षत्वादेव तैर्विना तस्यास त्वात् विशिष्टार्थानिर्वचनात् , स्थिरस्य तु भावस्य तैर्विनापि समर्थत्वे कार्यकरणप्रसङ्गस्य वज्रलेपत्वात् , एकस्यैवानेककार्यकारिस्वभावस्य स्वकारणादुत्पत्तेः कार्यभेदेन स्वभावभेदापादनस्य च दूरे निरसनात् ; एतेनानङ्कुरस्य पवनादेरकुरत्वे. नैकजातीयताप्रसङ्गः, अनङ्कुरदेशस्य तद्देशीयतया एकदेशप्रसङ्गश्च निरस्तः, नानाजातीय-नानादेशीय. कार्यकारित्वलक्षणैकस्वभावत एव स्वहेतोरुत्पत्तेरभ्युपगमात् , न चास्थैर्येऽप्येष न्यायः सम्भवति, तदुत्पत्तेधीनानि स्युरभिन्नानि स्युरित्येवं प्रसनने नापाद्या-ऽऽपादकयोवयधिकरण्यम् । एतावता सामान्यतः प्रसअनस्य सुग्रहत्वेऽपि विशेषतः प्रसननं न सुग्रहमित्यत आह-पवनादिकमिति- बीजं यथा येन स्वभावेनाङ्करं करोति तेनैव स्वभावेन पवनादीन् , तथा पवनोऽपि येन स्वभावेनाङ्करं करोति तेनैव स्वभावेन पवनादीन् , एवं कारणान्तरमपीत्यगुरप्रयोजका यावन्तः कारणानां स्वभावास्ते सर्वे पवनादिकार्यप्रयोजका इति यावदङ्कुरप्रयोजकप्रयोज्यत्व लक्षणमापादकं पवनादिषु समस्तीति, “यावदकरप्रयोज्यं स्यात्" इत्यस्य स्याने यावद ङ्करप्रयोजकप्रयोज्यं स्यात्' इति पाठो युक्तः । न द्वितीय इति- बीजमेकेन स्वभावनाङ्करं करोति, अन्येन स्वभावेन पवनादीन् कशेतीति द्वितीयपक्षोऽपि न युक्त इत्यर्थः । निषेधे हेतुमाह-एकस्यापीति-क्षणमात्रवृत्तित्वात् क्षणरूपस्यैकस्यापि बीजस्याङ्करजननोपयोग्य कस्वभावः पवनजननोपयोग्यपरस्वभावः पायोजननोपयोग्यन्यस्वभाव इत्येवं स्वभावभेदन भेद प्रसङ्गादित्यर्थः । न चैकस्यापि कार्यभेदनानेके स्वभावा भवन्तु नाम, तावताऽ. नेकखभावत्वमेवास्य भवेन तु भेद इत्यत आह-तव मत इति-पर्यायवादिनो मते इत्यर्थः, यदि स्वभावभेदेऽपि स्वभाववतो भेदो न भवेन्न तर्हि स्वभावस्वभाववतोरभेदो भवेत् , अभ्युपगम्यते च पर्यायवादिना तयोरभेद इति तदभ्युपगमबलादेव स्वभावभेदे स्वभाववतो भेदोऽभ्युपगन्तव्य इत्यर्थः । द्रव्यवादिनत्थं पल्लविताया आशङ्कायाः प्रतिक्षेपस्य हेतुं पर्यायवादी दर्शयति- इतरसाहित्यनियतायामिति-क्षणिकस्याङ्कुरकुर्वद्रूपात्मकस्य बीजस्य याऽङ्गुरलक्षणकार्य प्रति फलोपधानलक्षणा कारणता सैवापेक्षा, सा सहकारिनियतैव, इरसहकारसहितस्यैव वीजस्थ सापेक्षत्वादेव फलोपधानलक्षणसामर्थ्यवतो नियमेन सहकारिसमवहितत्वामति सहकार्यव्यभिचारान्नोपकारापक्षानिबन्धनाऽनवस्थादुःस्थता क्षणिकपक्षे इत्यर्थः । स्वरूपयोग्यतालक्षण. कारणता तु क्षणिके नाभ्युपगम्यत एव पर्यायवादिनेति स्वरूपयोग्यतालक्षणकारणतामादृत्य या योग्यत्वे सतीतरव्यतिरेकात् कार्याभावत्वलक्षणाऽपेक्षा सा नास्त्येव क्षणिके इति तादृशापेक्षासहित्यलक्षणनिरपेक्षत्वादेव क्षणिकस्य स्वकार्यकारित्वं समस्त्येवोक्तनिरपेक्षत्वक्त एवं क्षणिकात् कार्योत्पत्तिरन्युपेयत एव पर्यायवादिना, सहकारिवैकल्यप्रयुक्तकार्याभावयत्त्वं क्षणिकस्य तदा भवेद् यदि सहकारिविरहकालेऽपि तस्य सत्वं स्यात्, न चैवमिति तस्य स्वसत्त्वदशायां कार्याभाववत्त्वं नास्त्येवेति कस्य सहकारिविरहप्रयोज्यत्वमित्याह-योग्यत्वे सतीति । 'इतरव्यतिरेकाद' इत्यत्र पञ्चम्यर्थः प्रयोज्यत्वम् । तस्य क्षणिकस्य, एवमग्रेऽति। स्थिरस्य तु सहकारिविरहकालेऽपि सत्तमस्तीति सहकारिविरहप्रयुक्तकार्याभाववत्वलक्षणापेक्षा समस्त्येवेति न तादृशापेक्षायामाहतायां निरपेक्षत्वं तस्य, तथा च तस्य सहकारिविरहकाले सामर्थ्याभ्युपगमे कार्यकरणप्रसङ्गः स्थादेव, तद नीमसामध्ये च सामा-ऽसामर्थ्यलक्षणविरुद्धधर्माध्यासाद् भेद आपतेदेवेत्याहस्थिरस्य विति। तेविनाऽपि सहकारिभिविनाऽपि । एकस्य क्षणस्य कार्यभेदेन स्वभावभेदतो भेदापादनं यत् कृतं द्रव्यवादिना तत् पर्यायवादी परिहरति-एकस्यैवेति । 'एतेन' इत्यस्य 'निरस्तः' इत्यनेनान्वयः । तद्देशीयतया अङ्करदेशीयतया । एतेन' इत्यदिष्टमेव हेतुं दर्शयति-नानेति- 'स्वभावतः' इत्यस्य स्थाने 'स्वभाववतः' इति पाठो युक्तः, नानाजातीयानि नानादेशीयानि यानि कार्याणि तत्कारित्वलक्षणो य एकस्वभावस्तद्वत एव योजादिलक्षणस्य क्षणिकस्य कारणस्य स्वहेतोः स्वकारणादुत्पत्तरभ्युपगमादित्यर्थः । ननु स्थैर्यपक्षेऽपि नानाजातीय-नानादेशीय-नानाकालीनकार्यकारित्वलक्षणकस्वभावतः स्थिरस्य कारणस्य स्वहेतोरुत्पत्तेस्ततः क्रमिककार्योत्पत्तिः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'सम्भवति' इत्यनेनान्वयः। 'न चास्थैर्य' इत्यस्य स्थाने 'न च स्थैर्ये' इति पाठो युक्तः । निषेधे हेतुमाहतदुत्पत्तेरिति-स्थिरकारणोत्पत्तेरित्यर्थः। ननु कारण समुदायलक्षणसामग्याः कार्योत्पत्तिव्याप्यत्वं यस्मिन् क्षणे यत्कार्य

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210