Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 159
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सादृश्यानुसारेणैव कार्यकारणभावव्यवहारात् तन्निश्चयानुसारेणैव तच्छक्यानुभवस्यापि प्रकल्पनात् । अथाऽसतोऽजनकत्वान क्षणविशरारो: कार्यप्रसवः इति चेत् ? न- अनभ्युपगमात्, कार्यकाले सन्त्रस्य कारणतायामप्रयोजकत्वात्, कुर्वेद्रूपत्वस्यैव तथात्वात्, तथाप्यविनष्टाद् द्वितीयक्षणव्यापारसमावेश वर्तिनः कार्यप्रसवाभ्युपगमे क्षणभङ्गभङ्गप्रसङ्ग इति चेत् न-द्वितीयक्षण प्रतीक्षाव्यतिरेकेणापि स्वमहिम्नैष कार्यकरणप्रवृत्त्यभ्युपगमात्, अन्यथा द्वितीयक्षणभाविव्यापारजननेऽप्यपरव्यापार समावेशव्यतिरेकेणाप्रवृत्तेः, तत्राप्यपरव्यापारसमावेशकल्पनायामनवस्थानात्, अपरव्यापार निवर्तकत्वाभ्युपगमे च किमपराद्धं १३३ वृत्तित्वेऽपि तत्तत्कार्य कुर्वपत्वाभावेन न तत् तत् कार्यं प्रति कारणमित्येवमनतिप्रसङ्गादित्यर्थः । नन्वव्यवहितपूर्ववर्तित्वं स्वसन्तानगतक्षणेष्विव सन्तानान्तरगतक्षणेष्वप्यविशिष्टमिति स्वसन्तानगतक्षणेष्वेव तत्तत्कार्यकुर्वद्रूपत्वं न सन्तानान्तरर्गतक्षणेवियत्रैव नियामकं न पश्याम इत्यत आह- अन्वयव्यतिरेकाभ्यामिति तत्सन्तानपतितक्षणसखे तत्सन्तानपतिततदुत्तरक्षणसत्त्वं तत्सन्तानपतितक्षणाभावे तत्सन्तानपतितोत्तरक्षणाभाव इत्येवमन्वयव्यतिरेकाभ्यामित्यर्थः । सादृश्यानुसारेणैव पूर्वपूर्वक्षणानां तत्सन्तानपतितानामुत्तरोत्तरतत्सन्तानपतितक्षण सादृश्यानुसारेणैत्र कार्यकारणभावव्यवहाराद् ययोरेकसन्तानपतितक्षणयोः सादृश्यमनुभूयते तयोरेव कार्यकारणभावव्यवहाराद् ' इदमस्य कार्यमिदमस्य कारणम्' इत्येवं कार्य - कारणभावव्यवहारात् । यद्यपि कुर्वपत्वजातिरतीन्द्रियत्वान्न प्रत्यक्षविषयस्तथापि कार्यकारणभावव्यवहारनिबन्धनस्य सादृश्यस्य यत्र सत्त्वं तत्र तत्कार्यकुर्वत्वमित्येवं व्याप्तर्यत्र निरुक्तसादृश्यनिश्वयस्तत्र तत्कुर्वद्रवत्वस्यापि निश्चयः स्यादेवेत्याह-तनिश्चयानुसारेणैवेति- सादृइयनिचयानुसारेणैवेत्यर्थः । “ 'तच्छक्यानुभवस्यापि ' इत्यस्य स्थाने ' तच्छक्त्यनुभवस्यापि ' इति पाठो युक्तः, तत्कुर्वदूपत्वानुभवस्यापीति तदर्थः, शक्तिः सामर्थ्यम्, तच प्रकृते कुर्बद्पत्वमेवेति बोध्यम् । ननु क्षणिकं कारणं कार्यकाले न समस्तीति यत्कार्यकाले यन्न सत् तन्न तत्कार्यकारणमिति न क्षणिकात् कार्यजन्मसम्भव इति शङ्कतेअथेति । असतः कार्योत्पत्तिकालेऽसतः । समाधत्ते नेति । अनभ्युपगमात् यत् कार्यकालेऽसत् तन्न कारणमित्यस्यानभ्युपगमात् असत्त्वादकारणत्वं तदा स्यात् यदि सत्वात् कारणत्वं भवेत् न च कार्यकाले सत्त्वस्य कारणतायां प्रयोजकत्वमित्याह- कार्यकाल इति । तर्हि कारणतायां किं प्रयोजकमित्यपेक्षायामाह - कुर्वद्रूपत्वस्यैवेति । तथात्वात् कारणतायां प्रयोजकत्वात् । ननु सव्यापारमेव कारणं कार्यत्पादने प्रत्यलमिति द्वितीयक्षणे सव्यापारादेव कारणात् कार्योत्पत्तिरिति व्यापारानुरोधेन द्वितीयक्षणवृत्तित्वव्यवस्थितौ क्षणभङ्गस्य क्षणैकमात्रवृतित्वस्य भङ्ग एवोपतिष्ठत इत्याशङ्कते तथाऽपीति - कुपत्वस्य कारणतायां प्रयोजकत्वेऽपीत्यर्थः । अविनष्टात् द्वितीयक्षणेऽविनष्टात् । कथमित्थमित्यपेक्षायामाहद्वितीयक्षणव्यापार समावेशवर्तिन इति द्वितीयक्षणे यो व्यापारसमावेशो व्यापारसमवधानं तेन सह वर्तनशीलस्य, द्वितीयक्षणवृत्तिव्यापारवत इति यावत् । कार्यप्रसवाभ्युपगमे कार्यत्यत्त्यभ्युपगमे । क्षणभङ्गभङ्गप्रसङ्गः क्षणभङ्गस्योत्पत्यनन्तरमेव भावो विनश्यतीति क्षणभङ्गवादस्य भङ्गो विनाशस्तस्य प्रसङ्ग आपत्तिः । सव्यापारात् कारणात् कार्यजन्मेत्येव नेष्यते, कुतो व्यापारानुरोधिद्वितीयक्षणापेक्षा ? किन्तु कुर्वपत्वलक्षणस्वमहिम्नैव कार्यकरणे प्रवर्तते भाव इत्येवोपेयत इति न क्षणभङ्गभङ्ग इति समाधत्ते नेति । अन्यथा सव्यापारस्यैव कारणत्वमिति व्यापारानुरोधेन द्वितीयक्षणप्रतीक्षाया आवश्यकत्वमित्यभ्युपगमे । यदि व्यापारमन्तरेण न कारणं कार्यजननायालमित्युपेयते तर्हि व्यापारोऽपि कार्यमिति तज्जननेऽपि व्यापारान्तरांपेक्षा स्यादेव तदपि व्यापारान्तरं कार्यमिति तज्जननायाप्यपरव्यापारापेक्षेत्येवमनवस्था स्यादित्याह द्वितीयक्षणेति । ' व्यापारजननेऽपि ' इत्यस्य ' अप्रवृत्तेः' इत्यनेनान्वयः । तत्रापि द्वितीयक्षणभाविव्यापारजननेऽपि । ननु व्यापारातिरिक्तकार्यजनन एव सव्यापारत्वं कारणस्यापेक्षितं व्यापाररूपकार्य तु व्यापारमन्तरेणापि करोत्येव कारणमिति नानवस्थेत्यत आह- अपरेति - अत्र " अपरव्यापारनिवर्तकत्वाभ्युपगमे च " इत्यस्य स्थाने ' अपरव्यापारसमावेशव्यतिरेकेणापि द्वितीयक्षणभाविण्यापारनिवर्तकत्वाभ्युपगमे च' इति पाठो युक्तः । यथा व्यापारमन्तरेणैव व्यापाररूपकार्यं करोति कारणं तथा कार्यान्तरमपि व्यापारमन्तरेणैव करिष्यांत कारणमित्याद्यव्यापारकल्पनं व्यर्थमेव, तथा च न तदनुरोधेन द्वितीयक्षणस्थायित्वं भावस्येत्याह- किमपराद्धं कार्येणेति न किमपि विरुद्धमाचरितं कार्येणेति तदपि व्यापारमन्तरेणैव करोतु

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210