________________
नयामुततरि
गीतरणिभ्यां समको नयोपदेशः ।
-
रनन्तरमेव तत्कार्यकरणप्रसङ्गात् सामग्र्याः कार्योत्पत्तिव्याप्यत्वापेक्षया कुर्वद्रूपत्वसामर्थ्यवतः कारणस्यैव कार्योत्पत्तिव्याप्यत्वे लाघवात् त्वया हि स्वेतर कारणविशिष्टबीजत्वादिनाऽङ्कुराद्युत्पत्तिव्याप्यत्वं कर्त्तव्यम्, मया तु कुर्वद्रूपत्वेनैवेति एतेन 'क्षणिकोऽपि भावः कुर्वद्रूप : सहकारिभिः सहैव करोतीति नियतस्वभावश्चेत् ? अन्वयवत् तैर्विना (न) करोत्येवेति व्यतिरे कोऽप्यवर्जनीयः, अन्वयव्यतिरेकनियमयोर्मिथो नान्तरीयकत्वमिति त्वदीयसिद्धान्तात् तथा च व्यतिरेकनियमे सहकारिणः स्वकारणादापत तोऽपि निवार्य न कुर्यात्, तैर्विना न करोतीति स्वभावाप्रच्यवात्; अथ स्वभावाधीनसन्निधीनां सहकाकारणसमुदायलक्षणसामम्यनन्तरत्वं तस्मिन् क्षणे तत्कार्योत्पत्तिः' इत्येवंरूपमुपगम्यत इति नैककारणोत्पत्त्यनन्तरकाल एष तत्कार्योत्पत्तिः, किन्तु सामध्यनन्तरसमय एव सेत्यत आह- सामय्या इति । लाघवमेव स्पष्टयति- स्वयेति- स्थिरवादिनेत्यर्थः । ' स्वेतर कारण' इति स्थाने ' स्वेतरसकलकारण ' इति पाठो युक्तः । मया तु क्षणिकवादिना पुनः । ' एतेन ' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः, एतेन स्थैर्यवाद्यवश्याभ्युपगन्तव्यस्य स्वेतर कारणविशिष्टबीजत्वादिना बीजादिरूपकारणस्याङ्कुरादिकार्योत्पत्तिव्याप्यत्वस्य- ' यदा य स्वेतर कारणविशिष्टबीजादिकं तदा तत्राङ्कुरायुत्पत्तिः' इति नियमस्य कल्पनापेक्षया क्षणिकवाद्यभ्युपगतस्य तत्तत्कार्य कुर्वद्रूपत्वेन बीजादिकारणस्याङ्कुरादिकार्योत्पत्तिव्याप्यत्वस्य - ' यदा यत्राकुरकुर्वदात्मकं बीजं तदा तत्राङ्कुरोत्पत्तिः' इत्यादिनियमरूपस्य कल्पने बीजादिरूपकारणे स्वेतर कारणवैशिष्ट्यस्य व्याप्यतावच्छेदकतयाऽप्रवेश प्रयुक्तलाघवेन । क्षणिकोऽपि भावो बीजादिरङ्कुरादिकुर्वद्रूपः सलिल-धरणि-धामादिलक्षणसहकारिभिः सहैवाङ्कुरादिकार्यं करोतीत्येवं स्वरूपनियत्तस्वभावो यदि तदाऽयं स्वभावो विधिरूपत्वादन्वयः सकलसहकारिसहित एव क्षणिककुर्वद्रूपात्मको बीजादिभावोऽङ्कुरादि कार्य करोतीत्येवंरूपो यथाऽभ्युपगमस्तथाऽत्रैवकारार्थप्रवेशसामर्थ्यात् क्षणिकोऽपि कुर्वदूपो बीजादिः सहकारिभिर्विना न करोत्येवाङ्कुरमित्ययं स्वभावो निषेधरूपत्वाद् व्यतिरेको ऽप्यवश्यमभ्युपगन्तव्यः क्षणिकवादिना, ' यत्रान्वयस्तत्र व्यतिरेकोऽपि ' ' यत्र व्यतिरेकस्तत्रान्वयोऽपि ' इत्येवं स्वरूपमन्वयव्यतिरेक नियमयोर्मियो नान्तरीयकत्वं - परस्परव्याप्यत्वं न स्थैर्यवादिभिरेवाभ्युपगतं किन्तु क्षणिकवादिना बौद्धेनाप्यभ्युपगतमिति स्वसिद्धान्तादप्यस्वयनियमं सहकारिभिः सहैव कुर्यद्रपः क्षणिको भावः कार्य करोतीत्येवंस्वरूपमभ्युपगच्छतो बौद्धस्य क्षणिकः कुर्वद्रूपो भावः सहकारिभिर्विना न करोत्येव कार्यनित्येवं स्वरूपव्यतिरेकनियमाभ्युपगन्तृत्वं स्यादेवेत्याह- अन्वयव्यतिरेक नियमयोरिति - अन्वयव्यतिरेकव्याप्योरित्यर्थः । मिथोनान्तरीयकत्वं परस्परव्याप्यत्वम्, समनियतस्वमिति यावत् । इति एवम् | त्वदीयसिद्धान्तात् बौद्ध सिद्धान्तान् । 'व्यतिरेकोऽप्यवर्जनीयः' इति पूर्वस्मिन् हेतुः । तथा च यत्रान्वयनियमस्तत्र व्यतिरेकनियमोऽपीत्यस्य व्यवस्थितौ च । व्यतिरेकनियमे क्षणिकोऽपि कुर्वेपो भावः सहकारिभिर्विना न करोतीत्येवेति नियमे । आपततोऽपि स्वनिकटमा गच्छतोऽपि । निवार्य निवर्त्य । न कुर्यात् कुर्वपोऽपि भावः कार्यं न कुर्यात् । तत्र हेतु: - तैर्विना न करोतीति स्वभावाप्रच्यवादिति- यदि सहकारिणस्तत्सन्निधिमागच्छेयुरेव 'तैर्विना' इत्यस्य 'न करीति' इत्यस्य चाभावे सहकारिविरहयुक्त कार्यकारित्वाभावस्वरूपस्य ' तैर्विना न करोति ' इति स्वभावस्यैवाभावप्रसङ्गादित्यर्थः । प्रतिबन्द्या प्रतिविधानं कर्तुमिच्छुरुदयनाचार्य:- सम्भावनाविषयीभूतार्थप्रतिपादको यदिशब्दः, सम्भावनाविषयीभूतार्थश्च क्वचिद् विधिरूपः क्वचिच्च निषेधरूपः, द्विविधोऽप्ययमर्थो यथार्थाऽयथार्थभेदेन द्विविधः, तत्र यनेष्टापादनरूपः प्रसङ्गस्तत्र सम्भावनाविषयी भूतोऽर्थो यथार्थः, यथा यदि पर्वते धूमः स्याद् वह्निरपि स्यादित्यत्र हि धूमौ पर्वताधिकरणको विधिरूपौ यथार्थी, यथा वा - हदे यदि वहिर्न स्याद् धूमोऽपि न स्यादित्यत्र हृदाधिकरणको भाव - धूमाभावो निषेधरूपौ यथार्थी, यत्र चानिष्टापादनरूपः प्रसङ्गस्तत्र सम्भावनाविषयी भूतोऽर्थोऽ• यथार्थः, यथा - यदि हदे धूमः स्याद् वह्निरपि स्यादित्यत्र हदे वहि- धूमौ विधिरूपावयथार्थी, यथा वा - पर्वते यदि वह स्याद् धूमोऽपि न स्यादित्यत्र पर्वते वह भाव धूमाभावो निषेषरूपावयधार्थी, एवं च यद्यर्थघटित स्वभावावप्यन्वयव्यतिरेकौ क्वचिदप्यधिकरणे सम्भाव्यमानौ तथा भवतः, न तयोराश्रये सत्त्वं तद् यावदाश्रयकालनियतकालमेवेति नियम इति कुर्व कारणे सहकारिसमवधानैकनियते कार्यकारित्वलक्षणान्वयैकनिलये यद्यर्थघटित सहकारिसमवधानाभावसहितकार्यकारित्वाभावलक्षणव्यतिरेकोऽसन्नपि कल्पनापश्रमवतरतीति पराकूतमुत्प्रेक्ष्य परशङ्कामुत्थापयति- अथेति । स्वभावाधीननिधीनां कुर्वपात्मक कारणरूपेऽवश्यं सन्निहितेन भाव्यमित्येवम्भूतस्वभावाधीनसन्निधीनाम्, अथवा प्रतिनियत कारणेभ्यः
१३०