________________
१२६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
पर्यायेभ्यः पृथगस्ति, यत्- यस्मात् कारणात् , तैः-पर्यायैः, अर्थक्रिया- जलाहरणादिरूपा दृष्टा, नित्यमप्रच्युता-ऽनुत्पन्न-स्थिरैकस्वभावं वस्तु कुत्रोपयुज्यते ? न कुत्रचिदित्यर्थः, अयं भावः- सत्त्वं तावदन्यैर्यत् किञ्चित् परिभाध्यताम् , अस्मन्मते तु भावानां प्रत्यक्षसिद्धमर्थक्रियाकारित्वमेव तत् , तच्च क्रमयोगपद्याभ्यां व्याप्तम् , नहि क्रमा-ऽक्रमाभ्यामन्यः प्रकारः शङ्कितुमपि शक्यते, व्याघातस्योद्भवात् , न क्रम इति निषेधादेवाक्रमस्य, नाक्रम इति निषेधादेव च क्रमस्योपगमात् , अभ्युपगमश्च प्रतिक्षेपं व्याहन्तीति क्रमा-ऽक्रमौ स्थिरेऽसम्भवन्तौ अर्थक्रियामपि ततो व्यावर्तयतः । न च 'क्रमो नानाकालीनकार्यजनकत्वं स्वकार्यप्रागभावसमानकालीनकार्यजनकत्वं वा, अक्रमश्चैकदा यावत्स्वकार्यजनकत्वम् इति, कारितागत्वेन व्यावर्त्य-व्यावर्तकयोरविशेषः, कारिताद्वयव्यावृत्त्या तत्सामान्यव्यावृत्यापादाने तात्पर्यात् , समर्थो हि भावो वर्तमानार्थक्रियाकरणकालेऽतीतानागतेऽर्थक्रिये कुर्यादेव, यत्काले यत्करणसमर्थ तत्काले तदुत्पादकत्वमिति व्याप्तेः, असमर्थत्वे तु पूर्वा-ऽपरकालयोरप्यकरणापत्तिः, समर्थोऽप्य.
व्यय-ध्रौव्ययुक्तत्वरूपं त्रिगुणात्मकप्रकृत्यात्मकत्वरूपं प्रतीतिकालसत्व-व्यावहारिकसत्त्व-पारमार्थिकसत्वान्यतमात्मकमित्यादि. स्वस्वसिद्धान्तानुगुणमित्यर्थः। परिभाष्यताम् आधुनिकस्वस्वसङ्केतविषयः क्रियताम् , युक्त्याऽघटमानत्वेन परपरिकल्पितस्वरूपस्य तस्य वस्तुत्वाभावादित्याशयः। अस्मन्मत पर्यायाथिकनयमते। 'प्रत्यक्षसिद्धम्' इत्यनेन प्रमाणसिद्धस्य तस्य सर्वैरप्युपादेयत्वमित्याविष्कृतम् । तत् सत्त्वम्। अर्थक्रियाकारित्वलक्षणं सत्त्वं च नित्यतया पराभिमते द्रव्ये न सम्भवतीति न तत् सदित्युपपादनायाह-तश्चेति- अर्थकियाकारित्वं चेत्यर्थः। क्रमकारित्व-युगपत्कारित्वाभ्यामन्यस्य प्रकारस्य सम्भवे तेन रूपेणार्थक्रियाक रिणि वर्तमानमर्थक्रियाकारित्वं व्यभिचारान्न कम-योगपद्याभ्यां व्याप्तं स्यादतस्तथाभूतप्रकारस्यासम्भवमुपदर्शयति-नहीति-अस्य 'शक्यते' इत्यनेनान्वयः। क्रमा-ऽक्रमाव्यतिरिक्तप्रकाराभ्युपगमे व्याघातमेव भावयतिन क्रम इतीति । 'अक्रमस्य' इत्यस्य 'उपगमाद' इत्यनेन सम्बन्धः । न क्रम इत्येवं निषेधे अक्रमस्याभ्युपगम आयाति, स च नाक्रम इत्येवमक्रमप्रतिक्षेपं विरुणद्धि, तथा नाकम इत्येवं निषेधे क्रमस्याभ्युपगमः प्राप्नोति, स च न क्रम इत्येवं क्रमप्रतिक्षेपं हिनस्तीत्याह- अभ्युपगमश्चेति । यदा च क्रमा-ऽक्रमाभ्यां व्याप्तमर्थक्रियाकारित्वलक्षणं सत्त्वं व्यवस्थितं तदा व्यापकीभूतयोः क्रमकारित्वा-ऽक्रमकारित्व योर्यत्राभावस्तत्रावश्यं तव्याप्यस्यार्थक्रियाकारित्वस्याप्यभावः, व्यापकाभावस्य व्याप्याभावव्याप्यत्वात् , एवं च क्रमा-कमरूपव्यापकस्याभावात् स्थिरे व्याप्यस्यार्थक्रियाकारित्वस्याभाव: सिध्यतीत्याह-क्रमा-ऽक्रमाविति । ततः स्थिरात् । ननु क्रमा-ऽक्रमयोरर्थक्रियाकारित्वरूप एवं पर्यवसानात् तदभावयो. रप्यैक्यान्न क्रमा-क्रमाभावतोऽर्थक्रियाकारित्वाभावसाधनं सम्भवतीत्याशङ्कय प्रतिक्षिपति-न चेति । स्वकार्येति- यत् क्रमेण कार्य करोति तस्य स्वकार्य यद् द्वितीयादि कार्य पूर्वकार्योत्तरकालभावि तत्प्रागभावसमानकालीनं तत्पूर्वकालभाविकार्य तजनकत्वं समस्तीति । निषेधे हेतुमाह-कारिताद्वयव्यावृत्त्येति- क्रमकारित्वाऽक्रमकारित्वोभयव्यावृत्येत्यर्थः, विशेषाभावकूटस्य सामान्याभावव्याप्यत्वेन सामान्याभावसाधकत्वं सर्वानुमतमिति प्रकृतेऽपि क्रमकारित्वाऽक्रमकारित्वे कारित्वसामान्यस्य विशेषरूपे इति क्रमकारित्वाभावा-ऽक्रमकारित्वाभावोभयेन विशेषाभवकूटरूपेण कारित्वाभावस्य सामान्याभावरूपस्यापादने दोषाभावादित्यथः । नित्यस्य द्रव्यस्य तावद् युगपदर्थक्रियाकारिते स्वकार्यत्वेनाभिमतानामशेषाणामपि प्रथमक्षण एव करणे द्वितीयक्षणे करणीयस्य कस्यापि कार्यस्याभावे तत्कारित्वलक्षणसत्त्वस्याभावान्नित्यत्वं न स्यात्, तथैकस्मिन्नपि क्षणे येन स्वभावनै ककार्यकारित्वं तेनैव स्वभावेनान्यकार्यकारित्वे एक कार्यस्य यद् रूपं तत्स्वभावजनितं तदेव रूपमन्यकार्याणामपि तत्स्वभात्रजनितमित्यशेषकार्यस्य कारणैकस्वभावजनिकस्वभावस्यानुषतः, यदि च यावन्ति कार्याणि तावत्कार्यानुगुणानेकस्वभाववत्तमर्थादेकेन स्वभावेनैककार्यजनकत्वं तद्भिनेन स्वभावेनापरकार्यजनकत्वमित्येवमनेकस्वभाववत्त्वम् , तथा सति स्वभावभेदेन कारणभेद आवश्यक इति नैकस्य कारणस्थ युगपदनेककार्यकारित्वमित्येवं स्थिराद् युगपत्कारित्वस्य व्यावृत्तिः, क्रमकारित्वं यथा स्थिराद् व्यावर्तते तथोपदर्शयति- समर्थो हीति- यदा यत् कार्य प्रति यः समर्थस्तदा तत् कार्य स करोत्यवेति वर्तमानक्रियाकरणकाले वर्तमानक्रियां प्रति समर्थो भावो यथा वर्तमानकियां