________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
भजना- उपसर्जन- प्रधानभावावगाहना, आह सामान्यसङ्ग्रहेऽपि शुद्धद्रव्यार्थैकान्तिको न स्यादिति येत् ? न स्यादेव पर्यायनयविचारानवतारदशायामेव तस्य शुद्धत्वव्यवस्थिते:, तदवतारे तु पूर्वप्रवृत्तद्रव्यार्थिकाप्रामाण्यनिश्चयेन तदर्थाभावस्यैव निश्चयात्, तदुक्तम् —
दव्ववित्तव्यं अवत्थु नियमेण होइ पजाए । सह पज्जववस्तु अवत्थुमेव दव्वनियस्स
66
"
॥
१२५
[ सम्मतौ का० १, गाथा - १० ]
अवस्तु- इतरनयप्राधान्योपस्थितिजनितनयाप्रामाण्यनिश्चय कृतावस्त्वनिश्रयविषयः, तस्मात् पर्यायविनिर्मुक्तप्रकाराकस्य पर्यायनिष्ठोपसर्जनत्वाख्यविषयताकस्य वा द्रव्यार्थिकस्य तत्तकपनीतस्वार्थविचारदशायामेव शुद्धत्वम्, पर्यायनयार्थान्तरभावाकाङ्क्षायां चाशुद्धत्वमिति विवेकः ॥ १५ ॥
पर्यायार्थिकमतमुपन्यस्यति —
पर्यायार्थमते द्रव्यं पर्यायेभ्योऽस्ति नो पृथक् ।
यत् तैरर्थक्रिया दृष्टा नित्यं कुत्रोपयुज्यते ? ॥ १६ ॥
J
नयामृत - पर्यायार्थमत इति । पर्यायार्थमते द्रव्यं - द्रव्यपदार्थः सदृशक्षणसन्ततिरेव न तु कियोर्विशेषस्तत्र का नाम भजनेत्यपेक्षयामाह - भजनोपसर्जन- प्रधानभावावगाहनेति - द्रव्यार्थिकेन पर्यायस्योपसर्जनमावेन द्रव्यस्य प्रधानभावेन याऽवगाहना, या च पर्यायार्थिकेन द्रव्यस्योपसर्जनभावेन पर्यायस्य प्रधानभावनावगाहना सा भजनेत्यर्थः । अत्र पराशङ्कामुत्थाप्यापहस्तयति — आहेति परो वक्तीत्यर्थः । सामान्यसङ्ग्रहेऽपि महासामान्य सत्त्वावगाहिनि सङ्ग्रहनयेऽपि । 'शुद्धद्रव्यार्थैकान्तिको न स्याद्' इत्यस्य स्थाने 'शुद्धद्रव्यार्थतैकान्तिकी न स्याद्' इति पाठो युक्तः । प्रन्थकार आह- न स्वादेवेति - सामान्य सङ्ग्रहेऽपि शुद्धद्रव्यार्थतैकान्तिकी न स्यादेवेत्यर्थः तथा चोक्तापादनमिष्टापादत्वान्न दोषावदमिति भावः । तर्हि सामान्य सङ्ग्रहः शुद्धद्रव्यार्थिक इति व्यवहारस्य का गतिरित्यपेक्षयामाह- पर्यायेति यदा पर्याय नयविचारो नावतरति तदानीमेव सामान्यसङ्प्रहाख्यद्रव्यार्थिकस्य शुद्धत्वव्यवस्थितेरित्यर्थः । तदवतारे तु पर्यायनयविचारावतारे पुनः । पूर्वेति- पर्यायनयविचारावतारात् पूर्वं प्रवृत्तो यो द्रव्यार्थिको द्रव्यार्थिकनयस्तस्मिन् पश्चात् प्रवृत्तेन पर्यायाथिंकनयविचारेण योऽप्रामाण्यनिश्चयो द्रव्यार्थिकनयो न प्रमाणमित्याकारकस्तेन, तदर्थाभावस्यैव द्रव्यार्थिक्रनयविषयाभावस्यैव निश्चयात्, तथा च द्रव्यार्थिकनयविषयस्य द्रव्यवस्तुन एवाभावे तच्छुद्धताया अप्यभावान्न तद्विषयकस्य सामान्यसङ्ग्रहात्मक द्रव्यार्थिकन यस्य शुद्धत्वमित्यर्थः ।
इत्थं च पर्यायार्थिकनय विचारदशायां द्रव्यार्थिकनय विषयोऽवस्तुतयैव निश्चीयते, द्रव्यार्थिकनयविचारदशायां पर्यायार्थिकनयविषयोऽप्यवस्तुतयैव निश्चीयत इत्यत्र सम्मतिसंवादमाह - तदुक्तमिति । दव्वडिअ० इति - " द्रव्यार्थिकवक्तव्यमवस्तु नियमेन भवति पर्याये । तथा पर्यववस्तु अवस्त्वेव द्रव्यार्थिकनयस्य " || इति संस्कृतम् । ननूक्तरीत्या द्रव्यार्थिक-पर्यायाकिविषययोरवस्तुत्वे सामान्य विशेषयोर्द्वयोरप्यभावाद् वस्तुकथैवोच्छिद्येत, नवा वस्तु केनाध्यवस्तु कर्तुं शक्यमतोऽवस्त्वित्य - स्यार्थमाह- अवस्त्विति । इतरेति द्रव्यार्थिकनथव्यतिरिक्तस्य पर्यायार्थिकनयस्य प्राधान्येन योपस्थितिस्तज्जनितो नयस्य द्रव्यार्थिकस्य योऽप्रामाण्यनिश्चयस्तत्कृतो योऽवस्तुत्वनिश्चयस्तद्विषयो द्रव्यार्थिकनय विषयो भवति, एवं पर्यायार्थिकनयव्यतिरिक्तस्य द्रव्यार्थिकनयस्य प्राधान्येन योपस्थितिस्तज्जनितो नयस्य पर्यायार्थिकनयस्य योऽप्रामाण्यनिश्चय स्तत्कृतो योऽवस्तुत्वनिश्चयस्त विषयः पर्यायार्थिकनय विषयो भवतीत्यर्थः । द्रव्यार्थिकस्य शुद्धत्वा-शुद्धस्वविवेकमुपसंहरति- तस्मादिति । स्वार्थविचारेति - द्रव्यार्थिकनयार्थविचारेत्यर्थः । पर्यायनयार्थान्तरभावाकाङ्गायां पर्यायनयविषयभूतपर्याय रूपद्रव्यभिन्नार्थभावापेक्षायाम् ॥१५॥ षोडशपथमवतारयति - पर्यायेति । विवृणोति- पर्यायार्थमत इतीति- स्पष्टम् । भावार्थमुपदर्शयति- अयं भाव इति । अन्यैः नित्यद्रव्याभ्युपगन्तृभिः पर्याय मात्राभ्युपगन्तृभिन्नैर्वा । यत् किञ्चिदिति - सत्तासामान्यलक्षणम् उत्पाद