________________
१२४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
" पजवणयवुक्त वत्थु दव्वहिअस वयणिज । जाव दविओवओगो अपच्छिमविकप्प-णिव्वयणो" ॥त्ति
[सम्मतौ का० १, गाथा-८] व्याख्या-न विद्यते पश्चिमे विकल्प-निर्वचने- सविकल्पधीयवहारलक्षणो यत्र स तथा, सङ्ग्रहा. वसान इति यावत् , ततः परं विकल्प-वचनाप्रवृत्तेः, ईदृशो यावद् द्रव्योपयोगो प्रर्वतते तावद् द्रव्यार्थिकस्य वचनीयं वस्तु, तञ्च पर्यायनयेन वि- विशेषण, उत्- ऊर्ध्वम् , क्रान्तमेव विषयीकृतमेव, पर्यायानाफ्रान्तसत्तायां मानाभावादित्येकोऽर्थः, यद्वा, यद् वस्तु सूक्ष्मतर-सूक्ष्मतमादिबुद्धिना पर्यायनयेन स्थूलरूपं त्यजता ( उत्तरत्र सूक्ष्मरूपाश्रयणात् ) व्युत्क्रान्तं गृहीत्वेदमुक्तम् , यथा 'किमिदं मृत्सामान्यं यत् घटादिविशेषानुपरकता विषयीभवेद् ' इत्येवमाकारेण यावच्छुक्लरूपतमोऽन्त्यो विशेषस्तावत् तत् सर्व द्रव्यार्थिकस्य वचनीयता, यावदपश्चिमविकल्पनिर्वचनो योऽन्त्यः विशेषस्तावद् द्रव्योपयोगः प्रवर्तत इति द्वितीयोऽर्थः। अत एव द्रव्य-पर्यायविषयतया तदितरातिषयतया वा न शुद्धजातीयद्रव्यार्थिकव्यवस्था, किन्तूपसर्जनीकृतानर्थ-प्रधानीकृतस्वार्थविषयतया, तदुक्तम्
" दवडिओ ति तम्हा णस्थि णयो नियमसुद्धजाईओ।। ण य पज्जवडिओ णाम को इ भयणाय उ विसेसो" |त्ति
[सम्मती का० १, गाथा-९] वचनीयम् । याबद्रव्योपयोगोऽपश्चिमविकल्पनिर्वचनः" ॥ इति संस्कृतम्। उक्तसम्मतिगाथां विवृणोति-न विद्यत इतिअत्र 'न विद्यते विकल्प-निर्वचने सविकल्पधी-व्यवहारलक्षणे यत्र स तथा' इति पाठः सम्यक्, तथा अपश्चिमविकल्प-निर्वचनः। ततः परं सङ्ग्रहात् परम् । इदृशः सङ्ग्रहावसानः । तच्च द्रव्यार्थिकवचनीयं वस्तु च । उकगाथायाः प्रकारान्तरेण व्याख्यानमुपदर्शयति- यद्वेति । 'स्थूलरूपं त्यज्यता' इत्यस्य समर्थकम् - 'उत्तरत्र सूक्ष्मरूपाश्रयणाद्' इति । 'गृहीत्वेदमुक्तम्' इत्यस्य स्थाने 'गृहीत्वा त्यक्तम्' इति पाठो युक्तः, गृहीत्वा त्यक्तमित्येव भावयति- यथेति । 'उपरक्तता विषयीभवेद्' इत्यस्य स्थाने 'उपरक्तं सद् विषयीभवेद्' इति पाठो युक्तः । 'यावच्छकुरूपतमः' इत्यस्य स्थाने 'थावत्सूक्ष्मरूपतमः' इति पाठो युक्तः । 'वचनीयता' इति स्थाने 'वचनीयम्' इति पाठः सम्यक् । निर्गलितार्थमाह-यावदपश्चिमेति । अत एवेति- यत एव सङ्ग्रहावसानो यावद् द्रव्योपयोगः प्रवर्तते तत् सर्व द्रव्यार्थिकवक्तव्यं पर्यायनयेन विषयीकृतमेव, तथाऽन्त्यविशेषं यावत् पर्यायनयन गृहीत्वा मुक्तं तत् सर्व द्रव्यार्थिकस्य वक्तव्यमित्येवमशेषस्य द्रव्यार्थिकनयविषयस्य पर्यायनयविषयत्वमशेषस्य पर्यायार्थिकनयविषयस्य द्रव्यार्थिकनयविषयत्वमेतस्मादेव कारणात् । द्रव्येति-द्रव्यविषयको नयः शुद्ध जातीयद्रव्यार्थिकः, पर्यायविषयो नयः शुद्धजातीयपर्यायार्थिक इति द्रव्येतराविषयको नय शुद्ध जातीयद्रव्याथिकः पर्यायतराविषयको नयः शुद्ध. जातीयपर्यायार्थिक इति वा व्यवस्था न सम्भवति, पर्यायार्थिकस्यापि द्रव्यविषयकत्वाद् द्रव्यार्थिकस्यापि पर्यायविषयकत्वाद द्रव्यार्थिकस्य द्रव्येतरपर्यायविषयकत्वेन द्रव्येतराविषयकत्वासम्भवात् पर्यायार्थिकस्यापि पर्यायेतरद्रव्यविषयकत्वेन पर्याये. तराविषयकत्वासम्भवादित्यर्थः । तर्हि शुद्धजातोयद्रव्यार्थिक-पर्यायार्थिकव्यवस्था कथमिति पृच्छति- किन्विति। उत्तरयतिउपसर्जनीकृतति- 'उपसर्जनीकृतानर्थ' इति स्थाने 'उपसर्जनीकृतान्यार्थ' इति पाठो युक्तः,तथा चोपसर्जनीकृतपर्याय-प्रधानी
नयः शुद्धजातीयद्रव्यार्थिकः, उपसर्जनीकृतद्रव्य-प्रधानोकृतपर्यायविषयको नयः शुद्धजातीयपर्यायार्थिक इत्येव व्यवस्था युक्तेत्यर्थः । वस्तुतो द्रव्याथिकेऽप्युपसर्जननया पर्यायस्य, पर्यायार्थिकेऽप्युपसर्जनतया द्रव्यस्य नियमतो विषयत्वेन न शुद्धजातीयो द्रव्यार्थिकः पर्यायार्थिको वा, व्यवस्था तु द्रव्यार्थिकत्व पर्यायार्थिकत्वाभ्यामेव, न तत्र शुद्धजातीयत्वमेव प्रविशतीति बोध्यम् । उक्तार्थे सम्मतिसंवादमाह-तदुक्तमिति । दध्वदिओ० इति-"द्रव्यार्थिक इति तस्मानास्ति नयो नियमशुद्धजातीयः । न च पर्यवार्थिको नाम कोऽपि भजनायास्तु विशेषः" इति संस्कृतम् । भजनया तु द्रव्यार्थिक-पर्याया