Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 140
________________ मयामृततरहिणी-तरङ्गिणीतरणिभ्यां समलड़तो गयोपदेशः। विरुद्धोभयधर्मप्रकारकज्ञानस्वरूपत्वात्, संशये प्रकारताद्वयनिरूपिता एका विशेष्यता, समुच्चये तु विशेष्यताभेद इत्यन्ये, तदपि भेदा-ऽभेदवादे कथञ्चित् सङ्गच्छते, नैकान्तवादे, विषये तद्वति तत्प्रकार. कत्वनिरपेक्षविशेष्यताभेदेऽभ्युपगम्यमाने साकारवादप्रसङ्गात्, यथार्थत्वात् विभ्रमो न, अवगाहते हि रताया निषेध एव सत्त्वादिति तन्नोपादातुं शक्यमिति बोध्यम् । एकप्रकारतामात्र निरूपकत्वस्य संशयत्वासामानाधिकरण्येन संशयत्वाभावव्याप्यत्वं भावयितुमाह-संशयस्य चेति । एकत्रेति- एकधर्मावच्छिन्नविशेषतानिरूपितविरुद्धधर्मनिष्ठप्रकारताद्वयनिरूपकज्ञानस्वरूत्वादित्यर्थः । अत एव नयस्यैकप्रकारतामात्रनिरूपकत्वादेव, प्रकारता चात्र मुख्या ग्राह्या, मुख्यप्रकारतात्वं चावच्छेदकतानात्मकप्रकारतावम् , तेन नयात्मकज्ञाने विशेष्यतावच्छेदकस्य निरवच्छिन्नविशेष्यतानिरूपितप्रकारतावत्त्वेऽपि न क्षतिः, विशेष्यतावच्छेदकनिष्ठप्रकारताया अवच्छेदकतात्मकत्मकत्वात् , जात्यखण्डोपाध्यतिरिक्तस्य यत्र नये प्रकारत्वं तत्र प्रकारताया विशेष्यतात्मकत्वस्य सम्भवेन विशेष्यतानात्मकप्रकारतात्वं तत्र न सम्भवतीत्यतो विशेष्यतानात्मकत्वं परित्यज्यावच्छेदकतानात्मकत्वमुक्तम् । चोऽप्यर्थः मूले न च इत्यत्र चकारोऽप्यर्थकः, तस्य 'समुच्चयः' इत्यनेन सम्बन्धात् समुच्चयोऽपि नेति लभ्यते । एकप्रकारतामात्र निरूपकत्वस्य नयगतस्य समुच्चयत्वासामानाधिकरण्येन समुच्चयत्वाभावव्याप्यत्वं भावयितुमाह-तस्येति- समुच्चयस्येत्यर्थः । निरूपकीभूतप्रकारताभेदेन संशये समुच्चये च विशेष्यस्यैकत्वेऽपि तनिष्टाया विशेष्यताया भेदः, इयाँस्तु विशेषः संशये प्रकारगततया विरोधस्य भानं समुच्चये तु प्रकारगततयाऽविरोधस्य भानं विरोधस्याभानं वेत्यभिप्रायेण संशयस्वरूपोपदर्शने प्रकारविशेषणतया विरोधस्य समुच्चयस्वरूपो. पदर्शने च प्रकारविशेषणतयाऽविरोधस्योपादानमिति । संशय विमेधस्य समुच्चयेऽविरोधस्य च न भानं किन्तु संशये प्रकारतादयनिरूपितका विशेष्यता समुच्चये तु प्रकारताद्वयनिरूपिता विशेष्यताद्वयी, तत एव च संशयात् समुच्चयस्य भेद इत्यन्येषां मतमुपदर्शयति-संशय इति । तदपि संशये विशेष्यतैक्यं समुच्चये विशेष्यताभेद इत्यन्येषां मननमपि । भेदाभेदवादे एकस्यापि वस्तुनः किश्चिदपेक्षया भेदः किच्चिदपेक्षयाऽभेद इत्यभ्युपगन्तस्याद्वाद्यभिमतभेदाभेदवादे । कथञ्चिदिति- एकविशेष्यलक्षणाधाराभेदात् तदपेक्षया समुचयज्ञानीयविशेष्यताया अभेदेऽपि पर्वतो वह्निमान् वयभाववाश्चेति समुच्चयस्य वह्निमति वहिप्रकारत्वेन पर्वतो वह्रिमानितिज्ञानसमानविषयताशालिनो वह्नित्वावच्छिन्न प्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकत्वमित्यत एका वह्नित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यता, वहृयभाववति वयभावप्रकारकत्वेन पर्वतो वहयभाववानिति ज्ञानसमानविषयताशालिनो वह्नयभावत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकत्वमित्यतस्तदन्या वड्यभावत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यतेति समुच्चयज्ञानस्यांशभेदतो. विषयभेद इत्यतोऽपेक्षाभेदेन तत्र विशेष्यताभेदो युज्यतेऽशभेदनिबन्धनविश्यभेदप्रयुक्तविशेष्यताख्यविषयताभेदस्य युक्तत्वात् , संशये तु कोटियेऽपि दोलायमानरूपत्वेन ज्ञानान्तरस्य चैकैकप्रकारकत्वेनादोलायमानरूपस्यैव सम्भवेन न तेन सह समानविषयत्वम्. दोलायमानरूपस्यादोलायमानरूपेण सह समानविषयत्वासम्भवात् . तयोः समानविषयत्वे वा दोलायमानस्वरूपमप्यदोलायमानस्वरूपं स्याददोलायमानस्वरूपमपि वा दोलायमानस्वरूपं स्यादतो विलक्षणमेव संशयस्वरूपम् , यत्र सदपि तद्वति तत्यकारत्वमनिीतस्वरूपमेवेति सत्यपि प्रकारताभेदे तद्भेदप्रयुक्तभेदमप्रधानीकृत्याधारीभूतविशेष्यस्वरूपामेदप्रयुक्ताभेदमेव प्रधानीकृत्य तत्स्वरूपसंवेदनं भवति शेमुषीविशेषशालिनामिति सूक्ष्मदृष्टयरेक्षया विशेष्यताऽभेदः सुदृढनिरूढ इत्येवं भेदाऽभेदवादे स्याद्वादे अन्येषां मानमपि साधु सङ्गच्छत इत्याशयः। विषयभेदप्रयुक्तमेदमनात्यैकान्ततः समुच्चये विशेष्यताभेदोपगमस्त्वेकान्तवादिनो न युक्त इत्याह-नैकान्तवाद इति- एकान्तवादेऽन्येषामुक्तदिशा मननं न सङ्गच्छत इत्यर्थः । विषय इति-विषयावच्छेदेन यत् तद्वति तत्प्रकारकत्वम्, अत्र तत्पदेन समुचये प्रकारतयाऽभिमतयोरुभयोरपि प्रत्येक ग्रहणम् , तन्निरपेक्षो यो विशेष्यताभेदो ज्ञानस्यैव विलक्षणाकारानुरोधेन विशेष्यताभेदो विशेष्यतालक्षण्यं संशये विशेष्यताया अभेदः समुच्चये तस्या भेदस्तस्मिन्नभ्युपगम्यमाने सति साकारवादप्रसङ्गात् , विषयवैलक्षण्यनिबन्धन न संशये विशेध्यताऽभेदः समुच्चये विशेष्यताभेदः किन्तु ज्ञानाकारभेदप्रयुक्तः संशयस्य दोलायमानकारता, समुच्चये तद्विलक्षणाकारता, तन्निबन्धस्य विशेष्यताऽभेदस्य तद्भेदस्य चोत्पत्तिस्तदा स्याद् यदि संकार ज्ञानं भवेदित्येवं साकारवादप्रसङ्गात् । तद्वति तत्प्रकारकत्वं ज्ञानस्य यथार्थत्वम् , तथा चास्ति घट इति द्रव्यार्थिकनयोऽस्तित्ववति घटेऽस्तित्वमवगाहते, नास्ति घट इति पर्यायास्तिकनयो नास्तित्ववति घटे नास्तित्वमवगाहते. इति तद्वति तत्प्रकारकत्वलक्षणयथार्थत्वान्नयो द्रव्यार्थिकादिन

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210