Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 141
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ११५ aanti द्रव्यार्थिकादिरस्तित्वादिमति कथञ्चिदस्तित्वादिकम् , अपूर्णत्वात् सप्तभङ्गपरिकरितवरत्ववाहितात्पर्याभाववत्वाश्च प्रमा न,-अनेनालौकिकप्रामाण्याभाव आवेदितः, लौकिकं तु प्रामाण्यं तद्वति तत्प्रकारक. त्वरूपं न बाधितमिति न व्यवहारविरोधः, विचारोपयिकं चा(च)प्रामाण्यं प्रस्तुतम् , न प्रवृत्तिमात्रोपयिकमिति नयज्ञानस्य न पूर्णप्रमात्वमत उक्तचतुष्टयविलक्षणमेवेदं नयज्ञानमनुभवसिद्धमभ्युपगन्तव्यम् , न चेदं स्वमनीषिकाविज़म्भितम्, यत उक्तं तत्त्वार्थभाष्ये "तथाप्येते तन्त्रान्तरीयाः स्वतन्त्रा बा चोदकपक्षमाहिणो मतिभेदेन विप्रधाविता" [अत्राह-किमेते तन्त्रान्तरीया वादिनः ? आहोस्वित् स्वतन्त्रा एव चोदकपक्षमाहिणो मतिभेदेन प्रधाविता इति ?, अत्रोच्येते-ते तन्त्रान्तरीयाः, नापि स्वतन्त्रा मतिभेदेन प्रधाविताः, शेयस्य स्वर्थस्याध्यवसायान्तराण्येतानि | तत्त्वार्थ ० अध्याय १, सूत्रविभ्रम इत्याह-अवगाहते हीति । 'द्रव्यार्थिकादिः' इत्यत्रादिपदात् पर्यायार्थिकस्योपग्रहः, सामान्यतो द्रव्यार्थिकपर्यायार्थिकयोहणे तदवान्तरभेदानामपि सङ्ग्रहादीनामपि तत्त्वेन प्रहणमायातमेवेति बोध्यम् । 'अस्तित्वादि' इत्यादिपदान्नास्तिस्वादेरुपग्रहः । एकान्तास्तित्वादिकमवगाहमानस्य दुर्नयत्वेन विभ्रमत्वमिष्टमेव तस्य यथार्थत्वाभावात् , नोकान्तास्तित्वादिमत् किमपि समस्तीति तस्य न तद्वति तत्प्रकारकत्वाभावात् , किन्तु कथञ्चिदस्तित्वादिमति कथञ्चिदस्तित्वादिकमवगाहमानस्य सुनयस्य यथार्थत्वाद् विभ्रमत्वाभाव इत्यावेदनायोक्तम्-कश्चिदस्तित्वादिकमिति । 'अपूर्णत्वाद इत्यस्य स्थाने 'अपूर्णत्वाच' इति पाठो युज्यते तत एव तत्तद्विवरणं चकारान्तमिति । 'सप्तमपरिकरितवस्ववगाहितात्पर्याभाववत्त्वाच' इत्यस्य स्थाने 'सप्तभङ्गपरिकरितवस्त्ववगाहितापर्यायभाववत्त्वाच्छ' इति पाठो युक्तः, सप्तभनयात्मकमहावाक्यजन्यबोधस्य निराकासस्य सप्तभङ्गप्रतिपाद्यकश्चिदस्तित्वादिसप्तविधधर्मात्मकवस्त्ववगाहितापर्याप्तिमत्त्वेन प्रमाणत्वं तदभाववत्वाच्चैकधर्मात्मकवस्त्ववाहिनो नयस्य न प्रमाणत्वमित्यर्थः । नन्वनन्तधर्मात्मकवस्तुनो. न सप्तविधधर्मात्मकतयैव पूर्णतेति तत्त्वेनावगाहमानस्य बोधस्यापि न पूर्णत्वमिति कथं प्रमाणत्वनिमित्तं निरुक्तपर्याप्तिमत्त्वम्, तथाऽपि एकैकधर्माश्रयणेन प्रत्येक सप्तधर्मात्मकत्वमेव भवति वस्तुन इति तथावबोधे सति न तद्धर्माश्रयणेन भवत्याकालेति निराकासत्वनिमित्तकपूर्णत्वनिमित्तकं निरुक्तपर्याप्तिमतः प्रमाणत्वम् , यच्च 'स्याद्वाद-केवलज्ञाने सकलार्थावभासने' इति वचनात् सप्तभङ्गात्मकस्याद्वादप्रभवज्ञानस्य सकलार्थावभासकत्वेन प्रामाण्यमभिमतं तत् सकलादेशमहिम्नेव सम्भवति नान्यथा, सकलादेशमहिना चैकभलेनापि स्यात्पदलाञ्छितेन स्याद्वादस्वरूपतामाभेजाननानन्तधर्मात्मकवस्तुग्रहणलक्षणप्रमाणोत्पत्तिः सम्भवत्येव, परं सकलादेशाश्रयणं नात्राभिमतं तथा सति 'सप्तभापरिकरित' इत्यक्तिरसमजसा स्यादिति बोध्यम्। अनेन न प्रमेति वचनेन । न बाधितं नये न बाधितं किन्ववाधितमेव । इति एतस्मात् कारणात् । न व्यवहारविरोध इति- एकैकधर्मावगाहिज्ञानादिष्टसाधनताज्ञान लक्षणाद् यः प्रवृत्तिलक्षणो व्यवहारो यश्च तादृशज्ञानाद् द्विष्टसाधनताज्ञानलक्षणानिवृत्तिलक्षणो व्यवहारस्तस्यानुपपत्तिलक्षणविरोधो नेत्यर्थः। ननु नयस्य लौकिकप्रामाण्यस्याप्यभावेऽलौकिकप्रामाण्यपरिकलितादेव ज्ञानात् प्रवृत्ति-निवृत्तिलक्षणव्यवहारो भविष्यतीत्येतावताऽपि न व्यवहारविरोध इत्यत आह-विचारोपयिक चेति । प्रस्तुतं नयज्ञाने निषेध्यत्वेन प्रक्रान्तमलौकिकम् । न प्रवृत्तिमात्रोपयिकम न लौकिक प्रवृत्ति-निवृत्त्यादिलक्षणव्यवहारोपयोगि, तथा च प्रवृत्तिमात्रोपयिकं प्रामार्य न प्रस्तुतं येन तस्य नये सत्त्वेन तनिषेधो नोपपद्येत किन्तु विचारोपयिकमेव प्रामाण्यं प्रस्तुतम्, तच्च सप्तभङ्गपरिकलितवस्त्ववगाहिपर्याप्तिमत्त्वलक्षणपूर्णप्रमात्वमेव, तन्न नयज्ञानस्येति निगमयति- इति नयज्ञानस्य न पूर्णप्रमात्वमिति । अतः उक्तदिशा नये संशयत्वादिनिषेधात् । उक्तचतुष्टयविलक्षणम् संशय-समुच्चय-भ्रम-प्रमाविलक्षणम् । ननु स्वकपोलकल्पितं नयस्य संशयादिवलक्षण्यं न परीक्षकमान्यमित्यत आह-नचेदमिति । तत्त्वार्थभाष्यग्रन्थमुल्लिखति-तथापीति । एते अनन्तरोपदर्शितस्वरूपा नयाः। तन्त्रान्तरीयाः एकान्ताभिनिवेशग्रहपहिलनैयायिकाद्यभिमतबोधस्वरूपाः । स्वतन्त्रा वेति-जैनराधान्तगता एव, किन्तु चोदकस्य प्रश्नकर्तुर्योऽभिमतः पक्षः तद्राहिणः सन्तो मति मेदेन 'सामान्यमेव सत्त्वं विशेषाणां सत्तामहासामान्यव्यतिरिक्तानामभावात् , विशेषा एवार्थक्रियाकारिणस्तत्त्वं दोहनवाहनाद्यर्थक्रियाऽसमर्थस्य सामान्यस्य तत्त्व. रूपत्वासम्भवाद् ' इत्येवं मतिभेदेनाभिप्रायभेदेन विप्रधाविताः विरुद्धवस्तुनिरूपणमार्ग समाश्रिताः, तया चैते विप्रति

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210