Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 147
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । मिति चेत् ? न - सत्यरजतस्यापि प्रतिभासकाले सत्ताभानेन कालत्रयसत एवैतन्नये सत्यत्वस्वीकारात्, अत एव कालवृत्यत्यन्ताभावाप्रतियोगित्वमेव परमार्थसत्यत्वमित्यभिप्रेत्याहैतत्साम्प्रदायिकः ॥ १३ ॥ आदावन्ते च यन्नास्ति मध्येऽपि हि न तत्तथा । वितथैः : सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ १४ ॥ १२१ नयामृत० - आदाविति - आदावन्ते च यत् वस्तु, नास्ति तत् मध्येऽपि मध्यमकालेऽपि न तथा नास्तीत्यर्थः, नहि प्रागभावध्वंसानवच्छिन्न कालसम्बन्धः सत्तेत्यभ्युपगन्तुं शक्यम्, उत्पत्ति-विनाश्यतासमययोः उत्पत्ति-विनाशव्यापारव्यप्रयोरन्वयिव्यवहारात् न च तद्विवेके मध्यभागः कश्चिदवशिष्यते इक्षुदण्डस्येव सकलमूलाग्रभागच्छेदे । किञ्च पूर्वं पश्चाश्चासत्स्वभावस्य कथं मध्यमक्षणे सत्स्वभावत्वं स्वभावविरोधात्, मध्यक्षणे सन्नेव पर्यायः पूर्वाऽपर कालयो रसद्व्यवहारकारीति न स्वभावविरोध इति चासत्यत्वं शुक्तिरजतस्य प्रतिभासकाले सत्त्वेऽप्यप्रतिभासकाले न सत्त्वमिति कालत्रयसत्त्वाभावाद् यथाऽसत्यत्वं तथा पर्यायाणामपि वर्तमानकाले सखेऽपि स्वोलादात् पूर्वं स्त्रविनाशानन्तरं चासत्त्वेन कालत्रयस स्वाभावादसत्यत्वम् एतच प्रत्यक्ष प्रतीयमानप्रत्यक्षाप्रतीयमानपर्यायगतमिति न कुत्राप्यव्याप्तिरिति निर्गलितोऽर्थः । पतन्नये द्रव्यार्थिकनये । अत एव द्रव्यार्थिकनये कालत्रयसत एव सत्यत्वस्वीकारादेव, कालवृत्यन्ताभावाप्रतियोगित्वलक्षणं परमार्थसत्यस्वं तत्रैव यत् कालत्रयेऽपि वर्तते, यच्च प्रतिनियतकाल एवं वर्तते तत्र कालपदेन स्वानधिकरणीभूतकालोऽपि ग्रहीतुं शक्यत इति तद्वस्यन्ताभावस्य प्रतियोगित्वमेव न तदप्रतियोगित्वमिति न परमार्थिकसत्यत्वं तस्य इत्यभिप्रेत्य एवम्भूताभिप्रायं समाश्रित्य । एतत्साम्प्रदायिकः द्रव्यार्थिकनय सम्प्रदायकुशलो विपश्वित् आह कथयति ॥ १३ ॥ किमात्यपेक्षायां तदीयपथमुल्लिखति आदावन्ते चेति यद्येतत् पद्यमन्यकर्तृकं न मूलकर्तृकपयसमध्यन्तर्गतं ततस्तत्पद्यसङ्ख्यान्तःपाति चतुर्दशमित सङ्ख्या गणनीयत्वाभावात् तदङ्कचिह्नितं न भवितुमर्हति तथापि चतुर्दशसङ्खघाङ्क चिह्नितमेव ग्रन्थनिबद्धं यदस्ति तत् तथाऽनुदृङ्कने 'अयं द्रव्योपयोगः स्याद् इति पयमेव चतुर्दशसङ्ख्यास्पदत्वेन तथोङ्कितं भवेत् तथा चाश्रिमः सर्वोऽप्यङ्कोदृङ्कनप्रकारस्तदनुक्रमेणैव समुचितो भवेत् न च तथासन्निवेशनं समस्तीत्युपेक्षैवात्र श्रेयसी, अथवा 'आदावन्ते च' इति पद्यमेकाङ्कचिह्नितमेव समुल्लिरूप 'अयं द्रव्योपयोगः' इति पद्यमेव चतुर्दशसङ्ख्याङ्क चिह्नित मुख्यम तदग्रिमपद्येषु तदनुक्रमेण सङ्ख्याङ्क योजना विधेयेति । 'आदावन्ते च' इति परकीयं पद्यं विष्णोति आदावितीति । आदौ स्वोत्पत्तिः प्राकाले । अन्ते च स्वध्वंसानन्तरकाले च मध्यमकालेऽपि वर्तमानसमयेऽपि । 'नहि' इत्यस्य 'शक्यम्' इत्यनेनान्वयः, प्रागभावध्वंसानवच्छिन्नः कालो वर्तमानसमयः, तत्सम्बन्धो वस्तुन: सत्तेत्यभ्युपगन्तुं नहि शक्यमित्यर्थः । निषेधे हेतुमाह- उत्पत्तीति- उत्पत्तिसमये उत्पत्तिव्यापारे व्यम्रो विनश्यतासमये विनाशव्यापारे व्यग्रस्तयोर्योऽन्वयिव्यवहा रोऽनुगामिद्रव्यव्यवहारस्तस्मादित्यर्थः, अत्र 'उत्पत्ति विनाशव्यापारव्यग्रयोरन्वयिव्यवहारात्' इत्यस्य स्थाने 'उत्पत्ति विनाशव्यप्रसत्तयैवान्वयिव्यवहारात्' इति पाठो युक्तः, तस्य 'उत्पत्ति-विनाशव्यम्रो यः सन् तत्त्वेनैवान्वयिद्रव्यस्य व्यवहारात्' इत्यर्थः, तथा चोत्पत्तिकाले उत्पत्तिव्यापारव्यग्र एवेति न तदानीं स्थायिता, विनश्यतासमये च मध्यमव्यापारव्यम एवेति न तदानीं स्थायिता, तद्भिन्नश्च वर्तमानसमयो नानुभूयत इति उत्पत्ति-विनाशव्यप्रो. य सन् तत्त्वेनैव न तु वर्तमानसमयवृत्तित्वेन, अन्वयिव्यवहारादन्वयिनो व्यवहूियमाणत्वात् तथा च क्षणिकस्य वस्तुनः कश्चिदुत्पत्तिसमयः कश्चिद्विनाशसमयः, तद्विवेके मध्यभागो वर्तमानसमयो न च कश्चिदवशिष्यते, न च कश्चिदुत्पत्ति-विनाशसमयव्यतिरिक्तो मध्यमसमयो नामेति नर्वतमानसमयसम्बन्धः सत्तेत्यभ्युपगन्तुं शक्यमित्यर्थः । मध्यसमयाभावे दृष्टान्तमाह- इक्षुदण्डस्येवेति - सकला ये मूला-प्रभागास्तेषां छेदे खण्डने सति इक्षुदण्डस्य यथा मध्यभागो नास्ति तथा प्रकृतेऽपीत्यर्थः । यस्य यः स्वभावः स तस्य सर्वदैवेति नियमे पूर्वा ऽपरयोरसत्स्वभावस्य वस्तुनो मध्यमक्षणेऽप्यसत्स्वभावत्वमेव न तु सरस्वभावत्वं विरोधादित्याह- किश्चेति । परः शङ्कते - मध्यक्षण इति - वर्तमानसमय इत्यर्थः तथा च मध्यक्षणस्थायित्वलक्षण एकस्वभावो १६

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210