________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
मिति चेत् ? न - सत्यरजतस्यापि प्रतिभासकाले सत्ताभानेन कालत्रयसत एवैतन्नये सत्यत्वस्वीकारात्, अत एव कालवृत्यत्यन्ताभावाप्रतियोगित्वमेव परमार्थसत्यत्वमित्यभिप्रेत्याहैतत्साम्प्रदायिकः ॥ १३ ॥ आदावन्ते च यन्नास्ति मध्येऽपि हि न तत्तथा ।
वितथैः : सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ १४ ॥
१२१
नयामृत० - आदाविति - आदावन्ते च यत् वस्तु, नास्ति तत् मध्येऽपि मध्यमकालेऽपि न तथा नास्तीत्यर्थः, नहि प्रागभावध्वंसानवच्छिन्न कालसम्बन्धः सत्तेत्यभ्युपगन्तुं शक्यम्, उत्पत्ति-विनाश्यतासमययोः उत्पत्ति-विनाशव्यापारव्यप्रयोरन्वयिव्यवहारात् न च तद्विवेके मध्यभागः कश्चिदवशिष्यते इक्षुदण्डस्येव सकलमूलाग्रभागच्छेदे । किञ्च पूर्वं पश्चाश्चासत्स्वभावस्य कथं मध्यमक्षणे सत्स्वभावत्वं स्वभावविरोधात्, मध्यक्षणे सन्नेव पर्यायः पूर्वाऽपर कालयो रसद्व्यवहारकारीति न स्वभावविरोध इति चासत्यत्वं शुक्तिरजतस्य प्रतिभासकाले सत्त्वेऽप्यप्रतिभासकाले न सत्त्वमिति कालत्रयसत्त्वाभावाद् यथाऽसत्यत्वं तथा पर्यायाणामपि वर्तमानकाले सखेऽपि स्वोलादात् पूर्वं स्त्रविनाशानन्तरं चासत्त्वेन कालत्रयस स्वाभावादसत्यत्वम् एतच प्रत्यक्ष प्रतीयमानप्रत्यक्षाप्रतीयमानपर्यायगतमिति न कुत्राप्यव्याप्तिरिति निर्गलितोऽर्थः । पतन्नये द्रव्यार्थिकनये । अत एव द्रव्यार्थिकनये कालत्रयसत एव सत्यत्वस्वीकारादेव, कालवृत्यन्ताभावाप्रतियोगित्वलक्षणं परमार्थसत्यस्वं तत्रैव यत् कालत्रयेऽपि वर्तते, यच्च प्रतिनियतकाल एवं वर्तते तत्र कालपदेन स्वानधिकरणीभूतकालोऽपि ग्रहीतुं शक्यत इति तद्वस्यन्ताभावस्य प्रतियोगित्वमेव न तदप्रतियोगित्वमिति न परमार्थिकसत्यत्वं तस्य इत्यभिप्रेत्य एवम्भूताभिप्रायं समाश्रित्य । एतत्साम्प्रदायिकः द्रव्यार्थिकनय सम्प्रदायकुशलो विपश्वित् आह कथयति ॥ १३ ॥
किमात्यपेक्षायां तदीयपथमुल्लिखति आदावन्ते चेति यद्येतत् पद्यमन्यकर्तृकं न मूलकर्तृकपयसमध्यन्तर्गतं ततस्तत्पद्यसङ्ख्यान्तःपाति चतुर्दशमित सङ्ख्या गणनीयत्वाभावात् तदङ्कचिह्नितं न भवितुमर्हति तथापि चतुर्दशसङ्खघाङ्क चिह्नितमेव ग्रन्थनिबद्धं यदस्ति तत् तथाऽनुदृङ्कने 'अयं द्रव्योपयोगः स्याद् इति पयमेव चतुर्दशसङ्ख्यास्पदत्वेन तथोङ्कितं भवेत् तथा चाश्रिमः सर्वोऽप्यङ्कोदृङ्कनप्रकारस्तदनुक्रमेणैव समुचितो भवेत् न च तथासन्निवेशनं समस्तीत्युपेक्षैवात्र श्रेयसी, अथवा 'आदावन्ते च' इति पद्यमेकाङ्कचिह्नितमेव समुल्लिरूप 'अयं द्रव्योपयोगः' इति पद्यमेव चतुर्दशसङ्ख्याङ्क चिह्नित मुख्यम तदग्रिमपद्येषु तदनुक्रमेण सङ्ख्याङ्क योजना विधेयेति । 'आदावन्ते च' इति परकीयं पद्यं विष्णोति आदावितीति । आदौ स्वोत्पत्तिः प्राकाले । अन्ते च स्वध्वंसानन्तरकाले च मध्यमकालेऽपि वर्तमानसमयेऽपि । 'नहि' इत्यस्य 'शक्यम्' इत्यनेनान्वयः, प्रागभावध्वंसानवच्छिन्नः कालो वर्तमानसमयः, तत्सम्बन्धो वस्तुन: सत्तेत्यभ्युपगन्तुं नहि शक्यमित्यर्थः । निषेधे हेतुमाह- उत्पत्तीति- उत्पत्तिसमये उत्पत्तिव्यापारे व्यम्रो विनश्यतासमये विनाशव्यापारे व्यग्रस्तयोर्योऽन्वयिव्यवहा रोऽनुगामिद्रव्यव्यवहारस्तस्मादित्यर्थः, अत्र 'उत्पत्ति विनाशव्यापारव्यग्रयोरन्वयिव्यवहारात्' इत्यस्य स्थाने 'उत्पत्ति विनाशव्यप्रसत्तयैवान्वयिव्यवहारात्' इति पाठो युक्तः, तस्य 'उत्पत्ति-विनाशव्यम्रो यः सन् तत्त्वेनैवान्वयिद्रव्यस्य व्यवहारात्' इत्यर्थः, तथा चोत्पत्तिकाले उत्पत्तिव्यापारव्यग्र एवेति न तदानीं स्थायिता, विनश्यतासमये च मध्यमव्यापारव्यम एवेति न तदानीं स्थायिता, तद्भिन्नश्च वर्तमानसमयो नानुभूयत इति उत्पत्ति-विनाशव्यप्रो. य सन् तत्त्वेनैव न तु वर्तमानसमयवृत्तित्वेन, अन्वयिव्यवहारादन्वयिनो व्यवहूियमाणत्वात् तथा च क्षणिकस्य वस्तुनः कश्चिदुत्पत्तिसमयः कश्चिद्विनाशसमयः, तद्विवेके मध्यभागो वर्तमानसमयो न च कश्चिदवशिष्यते, न च कश्चिदुत्पत्ति-विनाशसमयव्यतिरिक्तो मध्यमसमयो नामेति नर्वतमानसमयसम्बन्धः सत्तेत्यभ्युपगन्तुं शक्यमित्यर्थः । मध्यसमयाभावे दृष्टान्तमाह- इक्षुदण्डस्येवेति - सकला ये मूला-प्रभागास्तेषां छेदे खण्डने सति इक्षुदण्डस्य यथा मध्यभागो नास्ति तथा प्रकृतेऽपीत्यर्थः । यस्य यः स्वभावः स तस्य सर्वदैवेति नियमे पूर्वा ऽपरयोरसत्स्वभावस्य वस्तुनो मध्यमक्षणेऽप्यसत्स्वभावत्वमेव न तु सरस्वभावत्वं विरोधादित्याह- किश्चेति । परः शङ्कते - मध्यक्षण इति - वर्तमानसमय इत्यर्थः तथा च मध्यक्षणस्थायित्वलक्षण एकस्वभावो
१६