________________
प्रणीतरणियां समलङ्कृतो नयोपदेशः ।
सिद्धाः, अपारमार्थिका इति यावत् तेषु कल्पनारूढेषु पर्यायेषु, अन्वयि व्यापकतया प्रतीयमानम्, द्रव्यं सत्यम्, कुण्डलादिषु नानाकाञ्चनपर्यांयेष्वन्वीयमानहेमवत्, अयं भावः यथा शुक्तौ रजतभ्रान्तौ बाधावतारानन्तरं रजताभावमानेऽपि तत्र शुक्तर्भासमानत्वात् शुक्तेः सत्यत्वं रजतस्य चासत्यत्वं तथा कुण्डलाद्यभावभानेऽपि हेम्नो भानात् कुण्डलादिपर्यायाणामसत्यत्वं हेमद्रव्यस्य च सत्यत्वम्, एवमन्यत्रापि भावनीयमिति । नन्वेवं भ्रमाधिष्ठानत्वमेव सत्यत्वं भ्रमविषयत्वं चासयत्वमित्यागन्तुं अत्र चासत्यत्वम्, प्रत्यक्षाप्रतीयमानेषु पर्यायेष्वव्यापकम् एवं तत्र तदसत्स्वरूप सत्यत्वमपि तेष्वव्यापककालीना एकाधिकरणवर्तिनः पर्यायास्ते ऊर्ध्वप्रचयिन इति क्रमेण निदर्शना पदर्शनपुरस्सरं दर्शयति- तिर्यक्प्रचयिन इति । अणुत्व-स्थूलत्वादयश्चेति- आमलकमा त्रापेक्षयाऽणु बदरीफलापेक्षया स्थूलं चेत्येकदैवाणुत्व स्थूलत्वादयः पर्याया अपेक्षाभनैकत्र वर्तन्त इत्यभिसन्धिः । पर्यायेषु द्रव्यस्य सत्त्वे आधारत्वान्यथानुपपत्त्या पर्यायाणां सत्त्वं स्यादत आहकल्पनारूढेष्विति- आधारतया कल्पनाविषया एव ते न वस्तुत आधारत्वमिति मूलाभिसन्धिः । द्रव्यस्य पर्यायव्यापकत्वे द्रव्यव्याप्याः पर्यायाः सन्त एव स्युरित्यतः 'अन्वयि' इत्यस्य ' व्यापकतया प्रतीयमानम्' इति विवरणम्, कल्पनारूढानां पर्यायाणां वस्तुतोऽसतामपि व्यापकतया प्रतीयमानं द्रव्यमित्यर्थः । कल्पनारूढेषु पर्यायेषु व्यापकतया प्रतीयमानस्य द्रव्यस्य सत्यत्वे निदर्शनमाह- कुण्डलादिष्विति । भावार्थमावेदयति-अयं भाव इति । बाधावतारानन्तरं नेदं रजतमिति शुक्कौ रजतत्वबाधानन्तरम् । 'रजताभावभानेऽपि' इत्यस्य स्थाने 'रजतभानाभावेऽपि' इति पाठो युक्तः, यथाश्रुतपाठस्तु न युक्तः, यतो बाधस्यैव रजताभावज्ञानरूपतया रजताभावभानस्य बाघकालीनतया तंत्र बाधावतारानन्तरमिति विशेषणं न सुसङ्गतं स्यात्, तत्र रजतं यदि सत्यं स्यात् तदा पूर्वमिव बाधानन्तरमपि भासेत, न च तदानीं रजतं भासत इति तन सत्यमित्याशयः । तत्र बाधानन्तरकाले, अथवा 'रजताभावभानेऽपि' इत्यधि पाठः सम्यम्, यथा बाघकाले रजताभावो भासते तथ तदनन्तरकालेऽपि रजताभाव एव भासते, न तु रजतमतो न रजतस्य सत्यत्वम् । कुण्डलाद्यभावभानेऽपीति - कटक - केयूराद्यवस्थाकाले कुण्डलाभावभानमेव भवति, न तु कुण्डलभानम्, सुवर्णतु तदानीमप्यवभासत इति कुण्डलादिपर्यायाणामसत्यत्वं हेमद्रव्यस्य च सत्यत्वमित्यर्थः, 'कुण्डलाद्यभावमानेऽपि' इत्यस्य स्थानेऽपि 'कुण्डलादिभानाभावेऽपि इति पाठो युक्तः, कुण्डलाद्यभावभानकाले कुण्डलादिक न भासत इत्यत एव कुण्डलादीनामसत्यत्वं व्यवस्थापनीयम्, तच 'कुण्डलादिभानाभावेऽपि' इति पाठ एवं सौसङ्गत्यमर्हतीति पूर्ववद् वा स पाठोऽपि युक्ततया निभालनीयः । ननु शुक्तौ रजतस्य यथाऽसत्यत्वं तथा द्रव्ये पर्यायाणामसत्यत्वमित्येवं दृष्टान्त दाष्टन्तिकभावावष्टम्भेन पर्यायाणामसत्यत्वं द्रव्यस्य सत्यत्वं यत् समार्थतं तेनेदं ज्ञायते - यदुत, भ्रमाधिष्ठानत्वं सत्यत्वं भ्रमविषयत्वं चासत्यत्वमिति, तथा चोक्तरूपमसत्यत्वं भ्रान्तप्रत्यक्षे ये पर्यायाः प्रतीयन्ते तत्रैव स्यात्, ये च पर्याया नास्मादृशां प्रत्यक्षसमधिगम्यास्तेऽपि बहवः सन्ति तेषु न स्यात् एवं ये यत्र न सन्ति तेषामेव तत्र ज्ञानं भ्रमः, पर्यायास्तु द्रव्ये सन्त्येवेति न तत्र तज्ज्ञानं भ्रमः ये च प्रत्यक्षेण न प्रतीयन्ते तेषु तत्र तदसत्त्वमेव तदसत्यत्वमित्यपि पर्यायेषु प्रत्यक्षाप्रतीयमानेषु न स्यादेव तेषां द्रव्ये सस्वेन तदसत्त्वस्याभावादिति शङ्कते - नन्वेवमिति । 'अत्र चासत्यत्वं प्रत्यक्षप्रतीयमानेषु' इत्यस्य स्थाने 'एतच्चासत्यत्वं प्रत्यक्षाप्रतीयमानेषु' इति पाठो युक्तः । एतच्चासत्यत्वं भ्रमविषयत्वलक्षणमसत्यत्वं पुनः 'प्रत्यक्षाप्रतीयमानेषु' इत्यनेनैतत् कथितं भवति - यदि प्रत्यक्षप्रतीयमानत्वं तेषु स्यात् तदैतद् वक्तुं शुकौ रजतप्रत्यक्षवद् द्रव्ये तेषां प्रत्यक्षं भ्रम इति प्रत्यक्षात्मक भ्रमविषयत्वमुपादायो लक्षणमसत्यत्वं तेषु स्यादपि, यदा प्रत्यक्षेण न प्रतीयन्त एव ते तदा नोक्तस्वरूपमसत्यत्वं तेष्विति । ते च पर्याया द्रव्ये वर्तन्त एवेति तत्र तदसत्वरूपमसत्यत्वमपि तेष्वव्यापकमित्याह- एवमिति । तदसत्वरूपम सत्यत्वमपि' इत्यस्य स्थाने 'तदसत्त्वरूपमसत्यत्वमपि ' इति पाठो युक्तः । समाधत्ते नेति । 'सत्यरजतस्यापि इत्यस्य स्थाने 'असत्यरजतस्यापि' इति पाठो युक्तः, तत्र सद
मात्रमविशेषितमसत्यत्वं न द्रव्यार्थिकनयेऽभ्युपगम्यते, तथा सति शुक्तौ यद्रजतं प्रतीयते तच्छुक्तिरजतपदप्रतिपाद्यं प्रातिभासिकरजतमिति गीयते, तस्यासत्यरजतस्यापि प्रतिभासकाले यदा प्रतीयते तदानीं सत्ताभानेन शुक्तौ तस्य प्रतिभासकाले सत्त्वमेवेत्युक्तलक्षणमसत्यत्वं तस्य न स्यात्, किन्तु कालत्रयसत्त्वमेव सत्यत्वं द्रव्यार्थिकनये, तदभाव एव
११०