________________
नयामृततरक्षिणी-तरक्षिणीतरणिया समकड़तो मयोपदेया।
एवं सामान्यलक्षणं विविच्य तद्विभागमाह
अयं संक्षेपतो द्रव्य-पर्यायातया द्विधा ।
द्रव्याथिकमते द्रव्यं तत्वं नेष्टमतः परम् ॥ १२ ॥ नयामृता-अयमिति--अयं सामान्यलक्षणलक्षितो नयः, सङ्केपतः अवान्तरभेदापरिग्रहेण, द्रव्य-पर्याय(यार्थ)तया द्रव्यार्थिकः पर्यायार्थिकश्चेति द्विधा द्विप्रकारः, तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलत्वेनेत्थमेव मूलन यविभजनात् , तदाह वादी
" तिस्थयरवयणसंगह-विसेसपत्थारमूलवागरणी । दबढिओ अ पज्जवणओ अ सेसा विगप्पासिं ॥"
[सम्मतौ का० १, गाथा-३ त्ति तत्रादौ द्रव्यार्थिकमतमाह-द्रव्यार्थिकस्य मते द्रव्यं तचं परमार्थसत् , अतः द्रव्यात् पृथग भिन्नं विकल्पसिद्धं गुण-पर्यायस्वरूपं तत्त्वं नेष्टम् , संवृतिसतोऽपि तस्य परमार्थतोऽसत्वादिति भावः ॥१२॥ एतदेवाह
तिर्यगूर्ध्वप्रचयिनः पर्याया खलु कल्पिताः ।
सत्यं तेष्वन्वयि द्रव्यं कुण्डलादिषु हेमवत् ॥ १३ ॥ नयामृत-तिर्यगिति--तिर्यक्प्रचयिनः परस्परसमानाधिकरणत्वे सति परस्परभिन्न कालीना रक्त-अणुत्वस्थूलत्वादयश्च, उर्द्धप्रचयिनः परस्परसमानाधिकरणत्वे सति परस्परभिन्नकालीना रक्तश्यामादयः संयोगो-विभागादयश्च पर्यायाः, खलु निश्चितम्, कल्पिताः वासनाविशेषप्रभवविकल्पमणिप्रभाधर्मिकमणिबुद्धेर्मणिलक्षणवस्तुप्राप्तिजनकत्वेनेत्यर्थः, फलतः प्रामाण्यमिति- संवादिप्रवृत्तिजनकत्वमेव फलतः प्रामाध्यम् , तच्च मणिप्रभायां मणिबुद्धौ समस्तीत्यर्थः । दाष्टन्तिके फलतः प्रामाण्यं दर्शयति--तथेति ॥ ११ ॥
द्वादशपद्यमवतारयति- एवमिति- उक्तप्रकारेण नयसामान्यलक्षणं प्रमाणादिव्यावृत्तमुपदर्य नयविभागं कथयति ग्रन्थकार इत्यर्थः । विवृणोति-अयमितीति । ननु नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र-शब्द समभिरूढवम्भूतभेदात् नयाः सप्तत्येवमन्यत्र सप्तधा नयविभागः कृतः, किमित्यत्र द्विधैव नयो विभज्यत इत्यत आह-तीर्थकरेति-तीर्थकरस्य जिनस्य यद् वचनमागमस्तस्य यः समह-विशेषप्रस्तारः, संग्रहः सामान्यं द्रव्यमिति यावत् . विशेषः पर्यायः, तयोः प्रस्तार:-विशेषण प्रपञ्चः सामान्यप्रतिपादकविशेषप्रतिपादकवचनसन्दर्भः, तस्य मूलत्वेन यानि द्रव्यात्मकसामान्यप्रतिपादकवचनानि तानि सर्वाणि द्रव्यार्थिकनयात् प्रवृत्तानि, यानि पर्यायात्मकविशेषप्रतिपादकवचनानि तानि सर्वाणि पर्यायार्थिक नयात् प्रवृत्तानीत्यतस्तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलं द्रव्यार्थिकः पर्यायार्थिकश्वेत्येवं निरुक्तमूलत्वेनेत्यर्थः । इत्थमेव द्रव्यार्थिकः पर्याया र्थिकश्चेति द्विधा नय इत्येवं प्रकारेणैव । उक्तप्रकारेण मूलनयविभजने वादिप्रकाण्डश्रीसिद्धसेनदिवाकरवचनं संवादकतय दर्शयति-तदाहेति । तित्थयर० इति-" तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलव्याकरणी द्रव्यार्थिकश्च पर्यवनयश्च शेषा विकल्पा अनयोः" इति संस्कृतम् । तत्र द्रव्यार्थिक पर्यायार्थिकभेदेन द्विधा विभक्त नये। आदौ प्रथमम् । 'प्रथग' इति 'परम् ' इत्यस्य विवरणम् , तस्य पर्यायकथनं भिन्नम् ' इति । किं तदित्यपेक्षायामाह-विकल्पसिद्धं गण पर्यायस्वरूपं तत्वमिति । कथं नेष्टमित्यपेक्षायामाह-संवृतिसतोऽपीति-संवृणोति स्वाकारेण बाह्यमिति संवृतिविकल्पात्मकं ज्ञानम् , तेन सतोऽपि यदैव ज्ञानं तदैव गुण-पर्यायस्वरूपमिति ज्ञानसत्त्वमेवास्य सत्त्वमित्येतावता संवृत्या सत्त्वमुपादाय गुण-पर्यायस्वरूपं संवृतिसदिति कथ्यते, तादृशस्यापीत्यर्थः । तस्य गुण-पर्यायस्वरूपस्य ॥ १२॥
त्रयोदशपद्यमवतार यति-पतदेवाहेति-द्रव्यादिन्नं गणपर्यायस्वरूपं कल्पितमेव न परमार्थसदित्येव कथयतीत्यर्थः । विवृणोति- तिर्यगितीति । ये समानकालीना एकाधिकरणवर्तिनः पर्यायास्ते तिर्यक्प्रचयिनः पर्यायाः, ये तु विभिन्न