________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः ।
"णिययवयणिजसञ्चा, सव्वणया परविआलणे मोहा । ते पुण ण दिवसमयो विभयइ सच्चे य अलीए वा ।। १० ।"
[सम्मतौ का०, गाथा-२८ ]न्ति, ननु नयग्रन्थे सम्मत्यादी बौद्धादिदर्शनपरिग्रहेण नैयायिकादिदर्शनखण्डनं श्रूयते, तत्र दुर्नय. परिग्रहे कथं न मिथ्यात्वैकान्त इत्याशङ्कयाह
बौद्धादिदृष्टयोऽप्यत्र वस्तुस्पर्शेन नाप्रमाः।
उद्देश्यसाधने रत्नप्रभायां रत्नबुद्धिवत् ॥ ११ ॥ नयामृत-बौद्धादीति-अत्र नयग्रन्थे, उद्देश्यं यदभिनिविष्टेतरनयखण्डनं तस्साधने तत्साधननिमित्तम् बौद्धादिदृष्टयोऽपि बौद्धादिनयपरिग्रहा अपि, वस्तुस्पर्शेन शुद्धपर्यादिवस्तुप्राप्त्या, नाप्रमाः फलतो न मिथ्यारूपा इत्यर्थः, किंवत् ? रत्नप्रभायां रत्नबुद्धिवत यथाहि तत्रारत्ने रत्नावगाहितया स्वरूपतो न प्रामाण्यम् , अदूरविप्रकर्षात् तु वस्तुप्रापकतया फलतः प्रामाण्यं तथा दुर्नयान्तरच्छेदाय दुर्नयान्तरपरिग्रहेऽपीति न कश्चिद् दोषः ॥ ११ ॥ सम्यग् । तद्वचनं च अभियुक्तवचनं च। णियय० इति- “निजकवचनीयसत्याः सर्वनयाः परविचालने मुग्धाः । तान् पुनर्न दृष्टसमयो विभजते सत्या वा अलीका वा" इति संस्कृतम् ॥ १० ॥
एकादशपद्यमवतारयति-नन्विति । नयग्रन्थे नयप्रतिपादकप्रन्थे। दुर्नयपरिग्रहे एकान्तक्षणिकत्वादिविषयकाध्यवसायलक्षणदुर्नयबौद्धादिदर्शनपरिग्रहे सति । विवृणोति - बौद्धादीति। अभिनिविष्टेति- अभिनिवेश एकान्तस्थैर्यादिविषयकाध्यवसायकदाग्रहस्तच्छाली य इतरनय एकान्तनैयायिकादिदर्शनलक्षणनयः, तत्खण्डनं तस्मिन्नप्रामाण्यज्ञापनं यदुद्देश्यमभीष्टम् , 'तत्साधने' इत्यत्र सप्तमी निमित्तार्थिकेत्यभिप्रायेण तत्साधने' इत्यस्य विवरणम्- 'तत्साधननिमित्तम् ' इति, नैयायिकादिदर्शनखण्डन साधननिमित्तमित्यर्थः । 'शुद्धपर्यायादि' इत्यादि पदाच्छुद्धद्रव्यस्य परिग्रहः, बौद्धादिकदर्शनखण्डनसाधननिमित्तं नैयायिकादिदर्शनपरिग्रहस्याप्यातत्वेन शुद्धद्रव्यप्राप्तेरपि सम्भवात् । ननु शुद्धपर्यायो द्रव्यानात्मकपर्यायः, शुद्धद्रव्यं च पर्यायानात्मकद्रव्यम् , तदुभयमप्यसदेव ॥
"द्रव्यं पर्यायवियुक्तं पर्याया द्रव्यवर्जिताः। व कदा केन किंरूपा दृष्टा मानेन केनचित्" ॥ १ ॥ इत्यादिवचनात् , तथा च शुद्धपर्यायादिवस्तुप्रापका अपि बौद्धादिदृष्ट्या अप्रमा एवंति चेत् ?, न- ऋजुसूत्रादिपर्यायनयेष्वन्त्यपर्यायनय एवम्भूतनयस्तद्विषयो यः पर्यायः सोऽन्त्यपर्यायत्वात् शुद्धपर्यायः, सङ्ग्रहादिद्रव्याथिकेषु समहनयः शुद्धद्रव्यार्थिकस्तद्विषयस्य सत्तारूपमहासामान्यस्य कस्याप्यपेक्षया विशेषत्वाभावात् तदुभयात्मकं चैकं वस्तु, तदात्मतया द्रव्यस्य पर्यायस्वरूपत्वं पर्यायस्य च द्रव्यस्वरूपत्वम्, स्वरूपतस्तु पर्याय द्रव्ययोरन्त्ययोर्भेद एवेत्येकान्तद्रव्यात्मकत्वमेव वस्तुम इति मतस्य खण्डनेन पर्यायात्मकत्वस्यकान्तपर्यायात्मकत्वमेव वस्तुन इति मतस्य खण्डनेन द्रव्यात्मकरवस्य च व्यवस्थापनेन तदुभयात्मकं वस्त्ववाप्यत इत्यनेकान्तात्मकवस्तुप्राप्तिलक्षणफलस्य वास्तवत्वेन ततो मिथ्यारूपा अपि बौद्धादिदृष्टयः फलतो न मिथ्यारूपा इत्यर्थः । स्वरूपतोऽप्रमात्मकस्यापि साधनज्ञानस्य यथार्थफलजनकत्वेन फलतः प्रामाण्यमित्यत्र दृष्टान्ततया मूले ' रत्नप्रभायां रत्नबुद्धिवद्' इति दर्शितमवतार्य विवृणोति-किंवदिति । दृष्टान्ते स्वरूपतः प्रामाण्या भावं फलतः प्रामाण्यं च भावयति- यथाहीति । तत्र रत्नप्रभायां रत्नबुद्धौ। अरत्ने रत्नत्वाभाववति रत्नप्रभास्वरूपे धर्मिणि । रत्नावगाहितया रत्नत्वप्रकारकतया । एतावता तदभाववति तत्प्रकारकत्वलक्षणमप्रामाण्यं तत्रावेदितम् , तथा च तद्वति तत्प्रकारकत्वलक्षणं प्रामाण्यं । स्वरूपतस्तत्र नास्तीत्याह- स्वरूपतो न प्रामाण्यमिति । अदूरविप्रकर्षात् त्विति-तु पुनः, दूरविप्रकर्षो व्यवहितकालत्वम्, तदभावोऽदूरविप्रकर्षः, विप्रकृष्टकालत्वाभावः, तस्माददूरविप्रकर्षात, किश्चियवहितोत्तरकाले इति यावत् वस्तुप्रापकतयति- मणिप्रभायां मणिबुद्धया प्रवृत्तस्तद्वशं गतस्तत्रत्वं मणिमासादयतीति