________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
उक्तमेवार्थं लौकिकदृष्टान्तेन समर्थयत्ति—
न समुद्रोऽसमुद्रो वा समुद्रांशो यथोच्यते । नाप्रमाणं प्रमाणं वा प्रमाणांशस्तथा नयः ॥ ९ ॥
११७
१ – स्पष्टः । पर्याप्ति तदन्यसम्बन्धाभ्यां समुद्रस्व- तदभाववत्तया प्रमाणा
नयामृत० - 'न समुद्र : 'ऽप्रमाणोभयवैलक्षण्यम्, अन्यत्र तु तज्जातीयतयेति फलितार्थः ॥ ९ ॥
स्वार्थनिश्चायकत्वरूपं नयप्रामाण्यसंशयेन विषयसंशयात् निश्चयस्यानिश्चयपरिणत्या न कथ श्चिदित्यत्रापि नयानामनेकान्त एवेति शिक्षयति-
स्वार्थे सत्या परैर्नूना असत्या निखिला नयाः ।
विदुषां तत्र नैकान्त इति दृष्टं हि सम्मतौ ॥ १० ॥
नयामृत० - स्वार्थ इति - स्वार्थे स्वविषये, सत्याः निश्चायकाः, परैः नयैः, नूना अप्रामाण्याः शङ्काविषयीकृताः, असत्याः अनिश्चायकाः, निखिला नयाः नैगमादयः, विदुषां सिद्धान्तव्युत्पन्नानाम्, तत्र नयप्रामाण्या ऽप्रामाण्ययोः, नैकान्तः, वक्तुं युक्त इति शेषः, इति दृष्टं परीक्षितम्, हि सम्मतौ, अभियुक्तवचनसंवादप्रदर्शनमेतत्, तद्वचनं च —
6
नवमं पद्यमवतारयति - उक्तमेवेति- नयस्य प्रमाणाऽप्रमाणैवलक्षण्यं मे वत्यर्थः । >> न समुद्र० इत्यादि पथं स्पष्टार्थत्वान्न विवरणार्हमतो नतैव्याख्या वितन्यत इत्यावेदनायाह- स्वष्ट इति- श्लोकोऽयं स्पष्टार्थ इत्यर्थः । यथाश्रुतार्थस्य स्पष्टत्वेऽपि फलितार्थस्य स्थूलमत्यगोचरत्वात् तमुपदर्शयति- पर्याप्तीति- अत्र ' पर्याप्ति तदन्यसम्बन्धाभ्यां समुद्रत्व तदभाववत्तया ' इत्यस्य स्थाने 'समुद्रांश वैलक्षण्यं पर्याप्ति- तदन्यसम्बन्धाभ्यां समुद्रत्व- तदभाववद्भयाम् ' इति पाठो युक्तः, तथा च समुद्रांशे समुद्रत्वं पर्याप्तिसम्बन्धेन न वर्तते, समुद्रांशे पर्याप्तिसम्बन्धेन समुद्रत्वस्य सत्वे तस्मिन्नेकस्मिन्नेवांशे समुद्रत्वस्य परिसमाप्तत्वात् सम्पूर्णः समुद्रः समुद्रो न भवेत्, तथा समुद्रांशे समुद्रस्वाभावोऽपि स्वरूपसम्बन्धेन न वर्तते, समुद्रांशे स्वरूपसम्बन्धेन समुद्रत्वाभावस्य सत्त्वे एकस्मिन्नेवान्यस्मिन्नपि समुद्रांशे विनिगमनाविरहेण समुद्रत्वाभावस्य सत्त्वमित्यशेषाणामेव समुद्रांशानां समुद्रत्वाभाववत्तयाऽशेषांशभिन्नस्यांशिनः समुद्रस्याभावेन न कोऽपि समुद्रः स्यादिति पर्याप्तिसम्बन्धेन यत् समुद्रत्वात् यच्च तदन्यसम्बन्धेन पर्याप्तिभिन्नसम्बन्धेन स्वरूपसम्बन्धेनेति यावत्, तदभाववत् समुद्रत्वाभाववत्, ताभ्यां समुद्रांशे वैलक्षण्यमित्यर्थः । प्रमाणेति । तु पुनः । अन्यत्र नयरूपे प्रमाणांशे, प्रमाणाऽप्रमाणोभयवैलक्षण्यं प्रमाणाप्रमाणाभ्यां वैलक्षण्यम् । तजातीयतया प्रमाणजातीयतया अप्रमाणजातीयतया च अर्थान्नयः सप्तभङ्गपरिकरितवस्त्ववगाहितावद् यत् प्रमाणं तज्जातीयत्वाभावान्न प्रमाणमिति प्रमाणविधर्मा, तदभाववति तत्प्रकारकत्ववद् यदप्रमाणं तज्जातीयत्वाभावान्नाप्रमाणमित्यप्रमाणविधमेत्यर्थः ॥ ९ ॥
दशमं पद्यमवतारयति - स्वार्थनिश्चायकत्वरूपमिति - अत्र ' स्वार्थनिश्चायकत्वरूपं नयप्रामाण्यसंशयने' इत्यस्य स्थाने ‘ स्वार्थनिश्चायकत्वरूपं प्रामाण्यमपि परनयप्रयुक्तप्रामाण्यसंशयेन ' इति पाठो युक्तः, अयमर्थ:- स्वार्थ निश्चायकत्वरूपं यन्नयगतं प्रामाण्यं तदपि स्वप्रतिपक्षभूतनयप्रयुक्तो यः स्वस्मिन् प्रामाण्यसंशयस्तेन स्वविषये संशयान्निश्चयात्मकस्यापि स्वस्यानिश्चयपरिणत्या अनिश्चयात्मना परिणामेन न कथञ्चित् कथञ्चिन्न भवत्यपि । इति एतस्मात् कारणात् । अत्रापि स्वगतप्रामाण्येऽपि । नयानामनेकान्त एव नयाः कथञ्चित् प्रमाणे कथञ्चिदप्रमाणमित्येवमनेकान्त एव । इति शिक्षयति एवं निरूपयति । स्वार्थे सत्या परैर्नृना ' इत्यस्य स्थाने 'स्वार्थे सत्याः परैर्नुन्ना' इति पाठो युक्तः, टीकायामपि नूनेति स्थाने नुन्नेति पाठो बोध्यः । ' परैः' इत्यस्य विवरणम् -' नयैः' इति, तस्य परन्यैः स्वविपक्षनयैरित्यर्थ:, ' नूना अप्रामाण्याः शङ्काविषयीकृताः' इत्यस्य स्थाने ' नुन्ना अप्रामाण्याशङ्काविषयीकृताः' इति पाठः