________________
१२२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
चेत् ? तर्हि पूर्वाऽपरकालयोरसत्स्वभाव एवायं मध्यक्षणसम्बन्धेन सद्व्यवहारकारीत्येव किं न स्वीक्रियते, तस्मान्न निरपेक्षपारमार्थिकसत्तावन्तः पर्यायाः, किन्तु वितथैः शशविषाणादिभिः काल्पनिकत्वेन सदृशाः सन्तः, अनादिलौकिकव्यवहारवासनात् अवितथा इव लक्षिता लोकैरिति शेषः ॥ १४ ॥ ____ नन्वेवं द्रव्यार्थिकनये पर्यायाणां शशविषाणप्रायत्वात् तदवगाहिज्ञानमलीकविषयत्वेन मिथ्या स्यात् , न च घटादिज्ञानविनिर्मुक्तविषयको द्रव्योपयोगः कश्चिदवशिष्यत इति नामशेषतैव तस्य स्यादि. त्याशय शुद्धावान्तरद्रव्यार्थिकभेदेन तस्य द्वैविध्याद् नानुपपत्तिरित्यभिप्रायवान्नाह
अयं द्रव्योपयोगः स्याद् विकल्पेऽन्त्ये व्यवस्थितः।।
अन्तरा द्रव्य-पर्याया धीः सामान्य-विशेषवत् ॥ १५ ॥ नयामृत-अयमिति । अयं द्रव्योपयोगः द्रव्यार्थिकनयजन्यो बोधः, अन्त्ये विकल्पे शुद्धसङ्ग्रहाख्ये, व्यवस्थितः पर्यायबुद्ध्याऽविचलितः स्यात्, अन्तरा शुद्धसङ्ग्रह-शुद्धर्जुसूत्रविषयमध्ये, द्रव्यपर्यायधीरेव स्यात् , सामान्य विशेषबुद्धिवत् - यथा हि परेषां द्रव्यत्वादि के द्रव्याद्यपेक्षया सामान्य सद् गुणाद्यपेक्षया विशेषाख्यां लभते तथाऽस्माकं घटादिकं स्वपर्यायापेक्षया सामान्यं सद् गुणाद्यपेक्षया पर्यायाख्यां लभत इति घटावगाही अवान्तरद्रव्यार्थिकः पर्यायोपसर्जनता द्रव्यमुख्यतां चावगाहमानो न वस्तुनो न तु पूर्वापरकालासत्त्वस्वभावोऽपि तस्य, मध्यक्षणस्थायिस्वभावस्यैवास्य पूर्वा-ऽपरकालयोरसद्वयवहारकारित्वमपीध्यते, ततः पूर्वा-ऽपरकालयोरसद्वयवहारोऽपि तस्योपपद्यते इत्यर्थः । समाधत्ते-तीति । 'पूर्वापरकालयोरसत्स्वभाव एव' इत्येवकारेण मध्यक्षणे सत्स्वभावस्य व्यवच्छेदः, एवं सति कथं मध्यक्षणे सद्व्यवहारस्तस्येत्यपेक्षायामाह- मध्यमेति । उपसंहरति- तस्मादिति-प्रागभाव-ध्वंमानच्छिन्नकालसम्बन्धस्य सत्तारूपत्वासम्भवादित्यर्थः । निरपेक्षेति-कालवृत्त्यत्यन्ता. भावाप्रतियोगित्वलक्षणा या प्रतिनियतकालनिरपेक्षपारमार्थिकसत्ता तन्तो न पर्यायाः, तर्हि किंरूपास्त इति पृच्छतिकिन्विति । उत्तरयति-वितथैरिति । वासनात' इत्यस्य स्थाने 'वासनावशात्' इति पाठो युक्तः ॥ १४ ॥
पञ्चदशपद्यमवतारयति-नन्वेवमिति । तदवगाहिज्ञानं पर्यायावगाहिज्ञानम् । ननु पर्यायावगाहिज्ञानस्य मिथ्यावा. पादनमिष्टमे वेत्यत आह-न चेति- अस्य 'अवशिष्यते' इत्यनेनान्वयः । द्रव्रज्ञानं यदा यदा जायते तदा घट-पटादिज्ञानरूपेणवेति घट-पटादिज्ञानव्यतिरिक्तो द्रव्योपयोग एव नास्तीति तल्लक्षणको द्रव्यार्थिकनयोऽपि न स्यादित्याह-घटादि. झानेति-घटादिज्ञानेन विषयतया विनिर्मुक्तो घटादिज्ञान विनिर्मुक्तः, घटादिज्ञानाविषय इति यावत् , तद्विषयको द्रव्योपयोगः कश्चिमावशिष्यते, घटादिज्ञानविनिर्मुक्तो यदि कश्चिद् द्रव्यनामको विषयः स्यात् तर्हि तद्विषयको द्रव्योपयोगो भवेत् , तथाविधविषयाभावे तु निविषयको द्रव्योपयोगो न भवेदेवत्यर्थः । नामशेषतच नाममात्रतैव । तस्य द्रव्योपयोगस्य । शुद्धति-शुद्धद्रव्यार्थिकोऽवान्तरद्रव्याथिकश्थेत्येवं द्रव्यार्थिकस्य द्वैविध्यात् घटादिज्ञानविनिर्मुक्तविषयकः समस्त्येव द्रव्योपयोग इति तस्य नानुपपत्तिरित्यभिप्रायवान् ग्रन्थकार आहेत्यर्थः । 'द्रव्यपर्यायाधीः ' इत्यस्य स्थाने द्रव्य पर्यायधीः' इति पाठो युक्तः । विवृणोति-अमितीति । दृष्टान्त-दान्तिकसङ्गमनां करोति-यथा हीति । परेषां नैयायिकादीनाम् । 'द्रव्यत्वादिकम्' इत्यत्रादिपदाद् द्रव्यत्वावान्तरजातीनां गुणत्व-कर्मत्व-तदवान्तरजातीनां चोपग्रहः, 'द्रव्याद्यपेक्षया' इत्यत्रादिपदात् पृथिव्यादीनां गुण-कर्म-तद्विशेषरूपरसाद्युत्क्षेपणावक्षेवणादीनामुपग्रहः, 'गुणाद्यपेक्षया' इत्यत्रादिपदाद् द्रव्यादेरुपग्रहः, अयमभिप्राय:- द्रव्यत्वं द्रव्यमात्रानुगामित्वाद् द्रव्यापेक्षया सामान्यं सद् गुणादिषु न वर्तत इति गुणादिव्यावृत्तत्वाद् गुणाद्यपेक्षया विशेषोऽपि भवति, एवं गुणत्वं गुणमात्रानुगामित्वाद् गुणापेक्षया सामान्यं सद् द्रव्यादिषु न वर्तत इति द्रव्यादिव्यावृत्तत्वाद् द्रव्याद्यपेक्षया विशेषो भवति, एवं कर्मत्वमपि सामान्य-विशेषरूपं बोध्यम् , उक्तदिशा पृथिवीत्वादीनां रूपत्वादीनामुत्क्षेपणत्वादीनां च सामान्यविशेषरूपत्वं बोध्यम् । अस्माकं जनानाम् । 'घटादिकम' इत्यत्रादिपदात् पटादीनां नीलादीनां च प्रहणम् । 'गुणाद्यपेक्षया' इत्यत्र 'मृदाद्यपेक्षया' इति पाठोऽनुगणः। ननु घटादेव्यत्ववत् पर्यायत्वस्यापि भावे तदवगाहि. नयस्यावान्तरद्रव्यार्थिकत्वमेव कथम् ? पर्यायार्थिकत्वस्यापि तत्र सम्भवादित्यत आह-पर्यायोपसर्जनतामिति-अस्य